धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 294

  1. [वै] देवराजम अनुप्राप्तं बराह्मण छद्मना वृषः दृष्ट्वा सवागतम इत्य आह न बुबॊधास्य मानसम ॥ 1 ॥

  2. हिरण्यकण्ठीः परमदा गरामान वा बहु गॊकुलान किं ददानीति तं विप्रम उवाचाधिरथिस ततः ॥ 2 ॥

  3. [बरा] हिरण्यकण्ठ्यः परमदा यच चान्यत परीतिवर्धनम नाहं दत्तम इहेच्छामि तदर्थिभ्यः परदीयताम ॥ 3 ॥

  4. यद एतत सहजं वर्म कुण्डले च तवानघ एतद उत्कृत्य मे देहि यदि सत्यव्रतॊ भवान ॥ 4 ॥

  5. एतद इच्छाम्य अहं कषिप्रं तवया दत्तं परंतप एष मे सर्वलाभानां लाभः परमकॊ मतिः ॥ 5 ॥

  6. [कर्ण] अवनिं परमदा गाश च निर्वापं बहु वार्षिकम तत ते विप्र परदास्यामि न तु वर्म न कुण्डले ॥ 6 ॥

  7. [वै] एवं बहुविधैर वाक्यैर याच्यमानः स तु दविजः कर्णेन भरतश्रेष्ठ नान्यं वरम अयाचत ॥ 7 ॥

  8. सन्त्वितश च यथाशक्ति पूजितश च यथाविधि नैवान्यं स दविजश्रेष्ठः कामयाम आस वै वरम ॥ 8 ॥

  9. यदा नान्यं परवृणुते वरं वै दविजसत्तमः तदैनम अब्रवीद भूयॊ राधेयः परहसन्न इव ॥ 9 ॥

  10. सहजं वर्म मे विप्र कुण्डले चामृतॊद्भवे तेनावध्यॊ ऽसमि लॊकेषु ततॊ नैतद ददाम्य अहम ॥ 10 ॥

  11. विशालं पृथिवी राज्यं कषेमं निहतकण्टकम परतिगृह्णीष्व मत्तस तवं साधु बराह्मणपुंगव ॥ 11 ॥

  12. कुण्डलाभ्यां विमुक्तॊ ऽहं वर्मणा सहजेन च गमनीयॊ भविष्यामि शत्रूणां दविजसत्तम ॥ 12 ॥

  13. [वै] यदा नान्यं वरं वव्रे भगवान पाकशासनः ततः परहस्य कर्णस तं पुनर इत्य अब्रवीद वचः ॥ 13 ॥

  14. विदितॊ देवदेवेश पराग एवासि मम परभॊ न तु नयाय्यं मया दातुं तव शक्र वृथा वरम ॥ 14 ॥

  15. तवं हि देवेश्वरः साक्षात तवया देयॊ वरॊ मम अन्येषां चैव भूतानाम ईश्वरॊ हय असि भूतकृत ॥ 15 ॥

  16. यदि दास्यामि ते देवकुण्डले कवचं तथा वध्यताम उपयास्यामि तवं च शक्रावहास्यताम ॥ 16 ॥

  17. तस्माद विनिमयं कृत्वा कुण्डले वर्म चॊत्तमम हरस्व शक्र कामं मे न दद्याम अहम अन्यथा ॥ 17 ॥

  18. [षक्र] विदितॊ ऽहं रवेः पूर्वम आयन्न एव तवान्तिकम तेन ते सर्वम आख्यातम एवम एतन न संशयः ॥ 18 ॥

  19. कामम अस्तु तथा तात तव कर्ण यथेच्छसी वर्जयित्वा तु मे वज्रं परवृणीष्व यद इच्छसि ॥ 19 ॥

  20. [वै] ततः कर्णः परहृष्टस तु उपसंगम्य वासवम अमॊघां शक्तिम अभ्येत्य वव्रे संपूर्णमानसः ॥ 20 ॥

  21. [कर्ण] वर्मणा कुण्डलाभ्यां च शक्तिं मे देहि वासव अमॊघां शत्रुसंघानां घातिनीं पृतना मुखे ॥ 21 ॥

  22. ततः संचिन्त्य मनसा मुहूर्तम इव वासवः शक्त्यर्थं पृथिवीपाल कर्णं वाक्यम अथाब्रवीत ॥ 22 ॥

  23. कुण्डले मे परयच्छस्व वर्म चैव शरीरजम गृहाण कर्ण शक्तिं तवम अनेन समयेन मे ॥ 23 ॥

  24. अमॊघा हन्ति शतशः शत्रून मम करच्युता पुनश च पाणिम अभ्येति मम दैत्यान विनिघ्नतः ॥ 24 ॥

  25. सेयं तव करं पराप्य हत्वैकं रिपुम ऊर्जितम गर्जन्तं परतपन्तं च माम एवैष्यति सूतज ॥ 25 ॥

  26. [कर्ण] एकम एवाहम इच्छामि रिपुं हन्तुं महाहवे गर्जन्तं परतपन्तं च यतॊ मम भयं भवेत ॥ 26 ॥

  27. [इन्द्र] एकं हनिष्यसि रिपुं गर्जङ्गं बलिनं रणे तवं तु यं परार्थयस्य एकं रक्ष्यते स महात्मना ॥ 27 ॥

  28. यम आहुर वेद विद्वांसॊ वराहम अजितं हरिम नारायणम अचिन्त्यं च तेन कृष्णेन रक्ष्यते ॥ 28 ॥

  29. [कर्ण] एवम अप्य अस्तु भगवन्न एकवीर वधे मम अमॊघा परवरा शक्तिर येन हन्यां परतापिनम ॥ 29 ॥

  30. उत्कृत्य तु परदास्यामि कुण्डले कवचं च ते निकृत्तेषु च गात्रेषु न मे बीभत्सता भवेत ॥ 30 ॥

  31. [इन्द्र] न ते बीभत्सता कर्ण भविष्यति कथं चन वरणश चापि न गात्रेषु यस तवं नानृतम इच्छसि ॥ 31 ॥

  32. यादृशस ते पितुर वर्णस तेजॊ च वदतां वर तादृषेनैव वर्णेन तवं कर्ण भविता पुनः ॥ 32 ॥

  33. विद्यमानेषु शस्त्रेषु यद्य अमॊघाम असंशये परमत्तॊ मॊक्ष्यसे चापि तवय्य एवैषा पतिष्यति ॥ 33 ॥

  34. [कर्ण] संशयं परमं पराप्य विमॊक्ष्ये वासवीम इमाम यथा माम आत्थ शक्र तवं सत्यम एतद बरवीमि ते ॥ 34 ॥

  35. [वै] ततः शक्तिं परज्वलितां परतिगृह्य विशां पते शस्त्रं गृहीत्वा निशितं सर्वगात्राण्य अकृन्तत ॥ 35 ॥

  36. ततॊ देवा मानवा दानवाश च; निकृन्तन्तं कर्णम आत्मानम एवम दृष्ट्वा सर्वे सिद्धसंघाश च नेदुर; न हय अस्यासीद दुःखजॊ वै विकारः ॥ 36 ॥

  37. ततॊ दिव्या दुन्दुभयः परणेदुः; पपातॊच्चैः पुष्पवर्षं च दिव्यम दृष्ट्वा कर्णं षस्त्र संकृत्तगात्रं; मुहुश चापि समयमानं नृवीरम ॥ 37 ॥

  38. ततॊ छित्वा कवचं दिव्यम अङ्गात; तथैवार्द्रं परददौ वासवाय तथॊत्कृत्य परददौ कुण्डले ते; वैकर्तनः कर्मणा तेन कर्णः ॥ 38 ॥

  39. ततः शक्रः परहसन वञ्चयित्वा; कर्णं लॊके यशसा यॊजयित्वा कृतं कार्यं पाण्डवानां हि मेने; ततः पश्चाद दिवम एवॊत्पपात ॥ 39 ॥

  40. शरुत्वा कर्णं मुषितं धार्तराष्ट्रा; दीनाः सर्वे भग्नदर्पा इवासन तां चावस्थां गमितं सूतपुत्रं; शरुत्वा पाथा जहृषुः काननस्थाः ॥ 40 ॥

  41. [जनम] कवस्था वीराः पाण्डवास ते बभूवुः; कुतश चैतच छरुतवन्तः परियं ते किं वाकार्षुर दवादशे ऽबदे वयतीते; तन मे सर्वं भगवान वयाकरॊतु ॥ 41 ॥

  42. [वै] लब्ध्वा कृष्णां सैन्धवं दरावयित्वा; विप्रैः सार्धं काम्यकाद आश्रमात ते मार्कण्डेयाच छरुतवन्तः पुराणं; देवर्षीणां चरितं विस्तरेण ॥ 42 ॥

  43. परत्याजग्मुः सरथाः सानुयात्राः; सर्वैः सार्धं सूदपौरॊगवैश च ततः पुण्यं दवैतवनं नृवीरा; निस्तीर्यॊग्रं वनवासं समग्रम ॥ 43 ॥

Reach this point to mark the section finished.

Continue to अध्याय 295

Previous: अध्याय 293