[वै] ततॊ गर्भः समभवत पृथायाः पृथिवीपते शुक्ले दशॊत्तरे पक्षे तारापतिर इवाम्बरे ॥ 1 ॥
सा बान्धवभयाद बाला तं गर्भं विनिगूहति धारयाम आस सुश्रॊणी न चैनां बुबुधे जनः ॥ 2 ॥
न हि तां वेद नर्य अन्या का चिद धात्रेयिकाम ऋते कन्या पुरगतां बालां निपुणां परिरक्षणे ॥ 3 ॥
ततः कालेन सा गर्भं सुषुवे वरवर्णिनी कन्यैव तस्य देवस्य परसादाद अमरप्रभम ॥ 4 ॥
तथैव बद्धकवचं कनकॊज्ज्वल कुण्डलम हर्यक्षं वृषभस्कन्धं यथास्य पितरं तथा ॥ 5 ॥
जातमात्रं च तं गर्भं धात्र्या संमन्त्र्य भामिनी मञ्जूषायाम अवदधे सवास्तीर्णायां समन्ततः ॥ 6 ॥
मधूच्छिष्ट सथितायां सा सुखायां रुदती तथा शलक्ष्णायां सुपिधानायाम अश्वनद्याम अवासृजत ॥ 7 ॥
जानती चाप्य अकर्तव्य कन्याया गर्भधारणम पुत्रस्नेहेन राजेन्द्र करुणं पर्यदेवयत ॥ 8 ॥
समुत्सृजन्ती मञ्जूषाम अश्वनद्यास तदा जले उवाच रुदती कुन्ती यानि वाक्यानि तच छृणु ॥ 9 ॥
सवस्ति ते ऽसत्व आन्तरिक्षेभ्यः पार्थिवेभ्यश च पुत्रक दिव्येभ्यश चैव भूतेभ्यस तथा तॊयचराश च ये ॥ 10 ॥
शिवास ते सन्तु पन्थानॊ मा च ते परिपन्थिनः आगमाश च तथा पुत्र भवन्त्व अद्रॊह चेतसः ॥ 11 ॥
पातु तवां परुणॊ राजा सलिले सलिलेश्वरः अन्तरिक्षे ऽनतरिक्षस्थः पवनः सर्वगस तथा ॥ 12 ॥
पिता तवां पातु सर्वत्र तपनस तपतां वरः येन दत्तॊ ऽसि मे पुत्र दिव्येन विधिना किल ॥ 13 ॥
आदित्या वसवॊ रुद्राः साध्या विश्वे च देवताः मरुतश च सहेन्द्रेण दिशश च सदिश ईश्वराः ॥ 14 ॥
रक्षन्तु तवां सुराः सर्वे समेषु विषमेषु च वेत्स्यामि तवां विदेशे ऽपि कवचेनॊपसूचितम ॥ 15 ॥
धन्यस ते पुत्र जनकॊ देवॊ भानुर विभावसुः यस तवां दरक्ष्यति दिव्येन चक्षुषा वाहिनी गतम ॥ 16 ॥
धन्या सा परमदा या तवां पुत्रत्वे कल्पयिष्यति यस्यास तवं तृषितः पुत्र सतनं पास्यसि देवज ॥ 17 ॥
कॊ नु सवप्नस तया दृष्टॊ या तवाम आदित्यवर्चसम दिव्यवर्म समायुक्तं दिव्यकुण्डलभूषितम ॥ 18 ॥
पद्मायत विशालाक्षं पद्मताम्र तलॊज्ज्वलम सुललाटं सुकेशान्तं पुत्रत्वे कल्पयिष्यति ॥ 19 ॥
धन्या दरक्ष्यन्ति पुत्र तवां भूमौ संसर्पमाणकम अव्यक्तकल वाक्यानि वदन्तं रेणुगुण्ठितम ॥ 20 ॥
धन्या दरक्ष्यन्ति पुत्र तवां पुनर यौवनगे मुखे हिमवद्वनसंभूतं सिंहं केसरिणं यथा ॥ 21 ॥
एवं बहुविधं राजन विलप्य करुणं पृथा अवासृजत मञ्जूषाम अश्वनद्यास तदा जले ॥ 22 ॥
रुदती पुत्रशॊकार्ता निशीथे कमलेक्षणा धात्र्या सह पृथा राजन पुत्रदर्शनलालसा ॥ 23 ॥
विसर्जयित्वा मञ्जूषां संभॊधन भयात पितुः विवेश राजभवनं पुनः शॊकातुरा ततः ॥ 24 ॥
मञ्जूषा तव अश्वनद्याः सा ययौ चर्मण्वतीं नदीम चर्मण्वत्याश च यमुनां ततॊ गङ्गां जगाम अह ॥ 25 ॥
गङ्गायाः सूत विषयं चम्पाम अभ्याययौ पुरीम स मञ्जूषा गतॊ गर्भस तरङ्गैर उह्यमानकः ॥ 26 ॥
अमृताद उत्थितं दिव्यं तत तु वर्म सकुण्डलम धारयाम आस तं गर्भं दैवं च विधिनिर्मितम ॥ 27 ॥
वनपर्व · Vana Parva
अध्याय 292
Reach this point to mark the section finished.
Continue to अध्याय 293