धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 291

  1. [वै] सा तु कन्या बहुविधं बरुवन्ती मधुरं वचः अनुनेतुं सहस्रांशुं न शशाक मनस्विनी ॥ 1 ॥

  2. न शशाक यदा बाला परत्याख्यातुं तमॊनुदम भीता शापात ततॊ राजन दध्यौ दीर्घम अथान्तरम ॥ 2 ॥

  3. अनागसः पितुः शापॊ बराह्मणस्य तथैव च मन्निमित्तः कथं न सयात करुद्धाद अस्माद विभावसॊः ॥ 3 ॥

  4. बालेनापि सता मॊहाद भृशं सापह्नवान्य अपि नात्यासादयितव्यानि तेजांसि च तपांसि च ॥ 4 ॥

  5. साहम अद्य भृशं भीता गृहीता च करे भृशम कथं तव अकार्यं कुर्यां वै परदानं हय आत्मनः सवयम ॥ 5 ॥

  6. सैवं शापपरित्रस्ता बहु चिन्तयती तदा मॊहेनाभिपरीताङ्गी समयमाना पुनः पुनः ॥ 6 ॥

  7. तं देवम अब्रवीद भीता बन्धूनां राजसत्तम वरीडा विह्वलया वाचा शापत्रस्ता विशां पते ॥ 7 ॥

  8. [कुन्ती] पिता मे धरियते देव माता चान्ये च बान्धवाः न तेषु धरियमाणेषु विधिलॊपॊ भवेद अयम ॥ 8 ॥

  9. तवया मे संगमॊ देवयदि सयाद विधिवर्जितः मन्निमित्तं कुलस्यास्य लॊके कीर्तिर नशेत ततः ॥ 9 ॥

  10. अथ वा धर्मम एतं तवं मन्यसे तपसां वर ऋते परदानाद बन्धुभ्यस तव कामं करॊम्य अहम ॥ 10 ॥

  11. आत्मप्रदानं दुर्धर्ष तव कृत्वा सती तव अहम तवयि धर्मॊ यशॊ चैव कीर्तिर आयुश च देहिनाम ॥ 11 ॥

  12. [सूर्य] न ते पिता न ते माता गुरवॊ वा शुचिस्मिते परभवन्ति वरारॊहे भद्रं ते शृणु मे वचः ॥ 12 ॥

  13. सर्वान कामयते यस्मात कनेर धातॊश च भामिनि तस्मात कन्येह सुश्रॊणि सवतन्त्रा वरवर्णिनि ॥ 13 ॥

  14. नाधर्मश चरितः कश चित तवया भवति भामिनि अधर्मं कुत एवाहं चरेयं लॊककाम्यया ॥ 14 ॥

  15. अनावृताः सत्रियः सर्वा नराश च वरवर्णिनि सवभाव एष लॊकानां विकारॊ ऽनय इति समृतः ॥ 15 ॥

  16. सा मया सह संगम्य पुनः कन्या भविष्यसि पुत्रश च ते महाबाहुर भविष्यति महायशाः ॥ 16 ॥

  17. [कुन्ती] यदि पुत्रॊ मम भवेत तवत्तः सर्वतमॊ ऽपह कुण्डली कवची शूरॊ महाबाहुर महाबलः ॥ 17 ॥

  18. [सूर्य] भविष्यति महाबाहुः कुण्डली दिव्यवर्म भृत उभयं चामृतमयं तस्य भद्रे भविष्यति ॥ 18 ॥

  19. [कुन्ती] यद्य एतद अमृताद अस्ति कुण्डले वर्म चॊत्तमम मम पुत्रस्य यं वै तवं मत्त उत्पाद्ययिष्यसि ॥ 19 ॥

  20. अस्तु मे संगमॊ देव यथॊक्तं भगवंस तवया तवद्वीर्यरूपसत्त्वौजा धर्मयुक्तॊ भवेत स च ॥ 20 ॥

  21. [सूर्य] अदित्या कुण्डले राज्ञि दत्ते मे मत्तकाशिनि ते ऽसय दास्यामि वै भीरु वर्म चैवेदम उत्तमम ॥ 21 ॥

  22. [पृथा] परमं भवगन देव संगमिष्ये तवया सह यदि पुत्रॊ भवेद एवं यथा वदसि गॊपते ॥ 22 ॥

  23. [वै] तथेत्य उक्त्वा तु तां कुन्तीम आविशेष विहंगमः सवर्भानु शत्रुर यॊगात्मा नाभ्यां पस्पर्श चैव ताम ॥ 23 ॥

  24. ततः सा विह्वलेवासीत कन्या सूर्यस्य तेजसा पपाताथ च सा देवी शयने मूढ चेतना ॥ 24 ॥

  25. [सूर्य] साधयिष्यामि सुश्रॊणि पुत्रं वै जनयिष्यसि सर्वशस्त्रभृतां शरेष्ठं कन्या चैव भविष्यसि ॥ 25 ॥

  26. [वै] ततः सा वरीडिता बाला तदा सूर्यम अथाब्रवीत एवम अस्त्व इति राजेन्द्रप्रस्थितं भूरि वर्चसम ॥ 26 ॥

  27. इति समॊक्ता कुन्ति राजात्मजा सा; विवस्वन्तं याचमाना सलज्जा तस्मिन पुण्ये शयनीये पपात; मॊहाविष्टा भज्यमाना लतेव ॥ 27 ॥

  28. तां तिग्मांशुस तेजसा मॊहयित्वा; यॊगेनाविष्यात्म संस्थां चकार न चैवैनां दूषयाम आस भानुः; संज्ञां लेभे भूय एवाथ बाला ॥ 28 ॥

Reach this point to mark the section finished.

Continue to अध्याय 292

Previous: अध्याय 290