धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 286

  1. [कर्ण] भगवन्तम अहं भक्तॊ यथा मां वेत्थ गॊपते तथा परमतिग्मांशॊ नान्यं देवं कथं चन ॥ 1 ॥

  2. न मे दारा न मे पुत्रा न चात्मा सुहृदॊ न च तथेष्टा वै सदा भक्त्या यथा तवं गॊपते मम ॥ 2 ॥

  3. इष्टानां च महात्मानॊ भक्तानां च न संशयः कुर्वन्ति भक्तिम इष्टां च जानीषे तवं च भास्कर ॥ 3 ॥

  4. इष्टॊ भक्तिश च मे कर्णॊ न चान्यद दैवतं दिवि जानीत इति वै कृत्वा भगवान आह मद धितम ॥ 4 ॥

  5. भूयॊ च शिरसा याचे परसाद्य च पुनः पुनः इति बरवीमि तिग्मांशॊ तवं तु मे कषन्तुम अर्हसि ॥ 5 ॥

  6. बिभेमि न तथा मृत्यॊर यथा बिभ्ये ऽनृताद अहम विशेषेण दविजातीनां सर्वेषां सर्वदा सताम परदाने जिवितस्यापि न मे ऽतरास्ति विचारणा ॥ 6 ॥

  7. यच च माम आत्थ देव तवं पाण्डवं फल्गुनं परति वयेतु संतापजं दुःखं तव भास्करमानसम अर्जुनं परति मां चैव विजेष्यामि रणे ऽरजुनम ॥ 7 ॥

  8. तवापि विदितं देव ममाप्य अस्त्रबलं महत जामदग्न्याद उपात्तं यत तथा दरॊणान महात्मनः ॥ 8 ॥

  9. इदं तवम अनुजानीहि सुरश्रेष्ठ वरतं मम भिक्षते वज्रिणे दद्याम अपि जीवितम आत्मनः ॥ 9 ॥

  10. [सूर्य] यदि तात ददास्य एते वज्रिणे कुण्डले शुभे तवम अप्य एनम अथॊ बरूया विजयार्थं महाबल ॥ 10 ॥

  11. नियमेन परदद्यास तवं कुण्डले वै शतक्रतॊः अवध्यॊ हय असि भूतानां कुण्डलाभ्यां समन्वितः ॥ 11 ॥

  12. अर्जुनेन विनाशं हि तव दानव सूदनः परार्थयानॊ रणे वत्स कुण्डले ते जिहीर्षति ॥ 12 ॥

  13. स तवम अप्य एनम आराध्य सूनृताभिः पुनः पुनः अभ्यर्थयेथा देवेशम अमॊघार्थं पुरंदरम ॥ 13 ॥

  14. अमॊघां देहि मे शक्तिम अमित्रविनिबर्हिणीम दास्यामि ते सहस्राक्ष कुण्डले वर्म चॊत्तमम ॥ 14 ॥

  15. इत्य एवं नियमेन तवं दद्याः शक्राय कुण्डले तया तवं कर्ण संग्रामे हनिष्यसि रणे रिपून ॥ 15 ॥

  16. नाहत्वा हि महाबाहॊ शत्रून एति करं पुनः सा शक्तिर देवराजस्य शतशॊ ऽथ सहस्रशः ॥ 16 ॥

  17. [वै] एवम उक्त्वा सहस्रांशुः सहसान्तरधीयत ततः सूर्याय जप्यान्ते कर्णः सवप्नं नयवेदयत ॥ 17 ॥

  18. यथादृष्टं यथातत्त्वं यथॊक्तम उभयॊर निशि तत सर्वम आनुपूर्व्येण शशंसास्मै वृषस तदा ॥ 18 ॥

  19. तच छरुत्वा भगवान देवॊ भानुः सवर्भानु सूदनः उवाच तं तथेत्य एव कर्णं सूर्यः समयन्न इव ॥ 19 ॥

  20. ततस तत्त्वम इति जञात्वा राधेयः परवीरहा शक्तिम एवाभिकाङ्क्षन वै वासवं परत्यपालयत ॥ 20 ॥

Reach this point to mark the section finished.

Continue to अध्याय 287

Previous: अध्याय 285