[जनम] किं तद गुह्यं न चाख्यातं कर्णायेहॊष्ण रश्मिना कीदृशे कुण्डले ते च कवचं चैव कीदृशम ॥ 1 ॥
कुतश च कवचं तस्य कुण्डले चैव सत्तम एतद इच्छाम्य अहं शरॊतुं तन मे बरूहि तपॊधन ॥ 2 ॥
[वषम्पायन] अयं राजन बरवीम्य एतद यत तद गुह्यं विभावसॊः यादृशे कुण्डले चैव कवचं चैव यादृशम ॥ 3 ॥
कुन्तिभॊजं पुरा राजन बराह्मणः समुपस्थितः तिग्मतेजा महाप्रांशुः शमश्रुदण्डजटा धरः ॥ 4 ॥
दर्शनीयॊ ऽनवद्याङ्गस तेजसा परज्वलन्न इव मधु पिङ्गॊ मधुरवाक तपः सव्याध्याय भूषणः ॥ 5 ॥
स राजानं कुन्तिभॊजम अब्रवीत सुमहातपाः भिक्षाम इच्छाम्य अहं भॊक्तुं तव गेहे विमत्सर ॥ 6 ॥
न मे वयलीकं कर्तव्यं तवया वा तव चानुगैः एवं वत्स्यामि ते गेहे यदि ते रॊचते ऽनघ ॥ 7 ॥
यथाकामं च गच्छेयम आगच्छेयं तथैव च शय्यासने च मे राजन नापराध्येत कश चन ॥ 8 ॥
तम अब्रवीत कुन्तिभॊजः परीतियुक्तम इदं वचः एवम अस्तु परं चेति पुनश चैनम अथाब्रवीत ॥ 9 ॥
मम कन्या महाब्रह्मन पृथा नाम यशस्विनी शीलवृत्तान्विता साध्वी नियता न च मानिनी ॥ 10 ॥
उपस्थास्यति सा तवां वै पूजयानवमन्य च तस्याश च शीलवृत्तेन तुष्टिं समुपयास्यसि ॥ 11 ॥
एवम उक्त्वा तु तं विप्रम अभिपूज्य यथाविधि उवाच कन्याम अभ्येत्य पृथां पृथुल लॊचनाम ॥ 12 ॥
अयं वत्से महाभागॊ बराह्मणॊ वस्तुम इच्छति मम गेहे मया चास्य तथेत्य एवं परतिश्रुतम ॥ 13 ॥
तवयि वत्से पराश्वस्य बराह्मणस्याभिराधनम तन मे वाक्यं न मिथ्या तवं कर्तुम अर्हसि कर्हि चित ॥ 14 ॥
अयं तपस्वी भगवान सवाध्यायनियतॊ दविजः यद यद बरूयान महातेजास तत तद देयम अमत्सरात ॥ 15 ॥
बराह्मणा हि परं तेजॊ बराह्मणा हि परंतपः बराह्मणानां नमः कारैर सूर्यॊ दिवि विराजते ॥ 16 ॥
अमानयन हि मानार्हान वातापिश च महासुरः निहतॊ बरह्मदण्डेन तालजङ्घस तथैव च ॥ 17 ॥
सॊ ऽयं वत्से महाभार आहितस तवयि सांप्रतम तवं सदा नियता कुर्या बराह्मणस्याभिराधनम ॥ 18 ॥
जानामि परणिधानं ते बाल्यात परभृति नन्दिनि बराह्मणेष्व इह सर्वेषु गुरु बन्धुषु चैव ह ॥ 19 ॥
तथा परेष्येषु सर्वेषु मित्र संबन्धिमातृषु मयि चैव यथावत तवं सर्वम आदृत्य वर्तसे ॥ 20 ॥
न हय अतुष्टॊ जनॊ ऽसतीह परे चान्तःपुरे च ते सम्यग्वृत्त्यानवद्याङ्गि तव भृत्यजनेष्व अपि ॥ 21 ॥
संदेष्टव्यां तु मन्ये तवां दविजातिं कॊपनं परति पृथे बालेति कृत्वा वै सुता चासि ममेति च ॥ 22 ॥
वृष्णीनां तवं कुले जाता शूरस्य दयिता सुता दत्ता परीतिमता मह्यं पित्रा बाला पुरा सवयम ॥ 23 ॥
वसुदेवस्य भगिनी सुतानां परवरा मम अग्र्यम अग्रे परतिज्ञाय तेनासि दुहिता मम ॥ 24 ॥
तादृशे हि कुले जाता कुले चैव विवर्धिता सुखात सुखम अनुप्राप्ता हरदाद धरदम इवागता ॥ 25 ॥
दौष्कुलेया विशेषेण कथं चित परग्रहं गताः बालभावाद विकुर्वन्ति परायशः परमदाः शुभे ॥ 26 ॥
पृथे राजकुले जन्म रूपं चाद्भुतदर्शनम तेन तेनासि संपन्ना समुपेता च भामिनी ॥ 27 ॥
सा तवं दर्पं परित्यज्य दम्भं मानं च भामिनि आराध्य वरदं विप्रं शरेयसा यॊक्ष्यसे पृथे ॥ 28 ॥
एवं पराप्स्यसि कल्याणि कल्याणम अनघे धरुवम कॊपिते तु दविजश्रेष्ठे कृत्स्नं दह्येत मे कुलम ॥ 29 ॥
वनपर्व · Vana Parva
अध्याय 287
Reach this point to mark the section finished.
Continue to अध्याय 288