धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 285

  1. [सूर्य] माहितं कर्ण कार्षीस तवम आत्मनः सुहृदां तथा पुत्राणाम अथ भार्याणाम अथॊ मातुर अथॊ पितुः ॥ 1 ॥

  2. शरीरस्याविरॊधेन पराणिनां पराणभृद वर इष्यते यशसः पराप्तिः कीर्तिश च तरिदिवे सथिरा ॥ 2 ॥

  3. यस तवं पराणविरॊधेन कीर्तिम इच्छसि शाश्वतीम सा ते पराणान समादाय गमिष्यति न संशयः ॥ 3 ॥

  4. जीवतां कुरुते कार्यं पिता माता सुतास तथा ये चान्ये बान्धवाः के चिल लॊके ऽसमिन पुरुषर्षभ राजानश च नरव्याघ्र पौरुषेण निबॊध तत ॥ 4 ॥

  5. कीर्तिश च जीवतः साध्वी पुरुषस्य महाद्युते मृतस्य कीर्त्या किं कार्यं भस्मीभूतस्य देहिनः मृतः कीर्तिं न जानाति जीवन कीर्तिं समश्नुते ॥ 5 ॥

  6. मृतस्य कीर्तिर मर्त्यस्य यथा माला गतायुर अः अहं तु तवां बरवीम्य एतद भक्तॊ ऽसीति हितेप्सया ॥ 6 ॥

  7. भक्तिमन्तॊ हि मे रक्ष्या इत्य एतेनापि हेतुना भकॊ ऽयं परया भक्त्या माम इत्य एव महाभुज ममापि भक्तिर उत्पन्ना स तवं कुरु वचॊ मम ॥ 7 ॥

  8. अस्ति चात्र परं किं चिद अध्यात्मं देवनिर्मितम अतश च तवां बरवीम्य एतत करियताम अविशङ्कया ॥ 8 ॥

  9. देव गुह्यं तवया जञातुं न शक्यं पुरुषर्षभ तस्मान नाख्यामि ते गुह्यं काले वेत्स्यति तद भवान ॥ 9 ॥

  10. पुनर उक्तं च वक्ष्यामि तवं राधेय निबॊध तत मास्मै ते कुण्डले दद्या भिक्षवे वज्रपाणये ॥ 10 ॥

  11. शॊभसे कुण्डलाभ्यां हि रुचिराभ्यां महाद्युते विशाखयॊर मध्यगतः शशीव विमलॊ दिवि ॥ 11 ॥

  12. कीर्तिश च जीवतः साध्वी पुरुषस्येति विद्धि तत परत्याख्येयस तवया तात कुण्डलार्थे पुरंदरः ॥ 12 ॥

  13. शक्या बहुविधैर वाक्यैः कुण्डलेप्सा तवयानघ विहन्तुं देवराजस्य हेतुयुक्तैः पुनः पुनः ॥ 13 ॥

  14. उपपत्त्युपपन्नार्थैर माधुर्यकृतभूषणैः पुरंदरस्य कर्ण तवं बुद्धिम एताम अपानुद ॥ 14 ॥

  15. तव हि नित्यं नरव्याघ्र सपर्धसे सव्यसाचिना सव्यसाची तवया चैव युधि शूरः समेष्यति ॥ 15 ॥

  16. न तु तवाम अर्जुनः शक्तः कुण्डलाभ्यां समन्वितम विजेतुं युधि यद्य अस्य सवयम इन्द्रः शरॊ भवेत ॥ 16 ॥

  17. तस्मान न देये शक्राय तवयैते कुण्डले शुभे संग्रामे यदि निर्जेतुं कर्ण कामयसे ऽरजुनम ॥ 17 ॥

Reach this point to mark the section finished.

Continue to अध्याय 286

Previous: अध्याय 284