धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 281

  1. [मार्क] अथ भार्यासहायः स फलान्य आदाय वीर्यवान कठिनं पूरयाम आस ततः काष्ठान्य अपाटयत ॥ 1 ॥

  2. तस्य पाटयतः काष्ठं सवेदॊ वै समजायत वयायामेन च तेनास्य जज्ञे शिरसि वेदना ॥ 2 ॥

  3. सॊ ऽभिगम्य परियां भार्याम उवाच शरमपीडितः वयायमेन ममानेन जाता शिरसि वेदना ॥ 3 ॥

  4. अङ्गानि चैव सावित्रि हृदयं दूयतीव च अस्वस्थम इव चात्मानं लक्षये मित भाषिणि ॥ 4 ॥

  5. शूलैर इव शिरॊ विद्धम इदं संलक्षयाम्य अहम तत सवप्तुम इच्छे कल्याणि न सथातुं शक्तिर अस्ति मे ॥ 5 ॥

  6. समासाद्याथ सावित्री भर्तारम उपगूह्य च उत्सङ्गे ऽसय शिरॊ कृत्वा निषसाद महीतले ॥ 6 ॥

  7. ततः सा नारद वचॊ विमृशन्ती तपस्विनी तं मुहूर्तं कषणं वेलां दिवसं च युयॊज ह ॥ 7 ॥

  8. मुहूर्ताद इव चापश्यत पुरुषं पीतवाससम बद्धमौलिं वपुष्मन्तम आदित्यसमतेजसम ॥ 8 ॥

  9. शयामावदातं रक्ताक्षं पाशहस्तं भयावहम सथितं सत्यवतः पार्श्वे निरीक्षन्तं तम एव च ॥ 9 ॥

  10. तं दृष्ट्वा सहसॊत्थाय भर्तुर नयस्य शनैः शिरः कृताञ्जलिर उवाचार्ता हृदयेन अप्रवेपता ॥ 10 ॥

  11. दैवतं तवाभिजानामि वपुर एतद धयमानुषम कामया बरूहि मे देवकस तवं किं च चिकीर्षसि ॥ 11 ॥

  12. [यम] पतिव्रतासि सावित्रि तथैव च तपॊऽनविता अतस तवाम अभिभाषामि विद्धि मां तवं शुभे यमम ॥ 12 ॥

  13. अयं ते सत्यवान भर्ता कषीणायुः पार्थिवात्मजः नेष्याम्य एनम अहं बद्ध्वा विद्ध्य एतन मे चिकीर्षितम ॥ 13 ॥

  14. [मार्क] इत्य उक्त्वा पितृराजस तां भगवान सवं चिकीर्षितम यथावत सर्वम आख्यातुं तत्प्रियार्थं परचक्रमे ॥ 14 ॥

  15. अयं हि धर्मसंयुक्तॊ रूपवान गुणसागरः नार्हॊ मत पुरुषैर नेतुम अतॊ ऽसमि सवयम आगतः ॥ 15 ॥

  16. ततः सत्यवतः कायात पाशबद्धं वशंगतम अङ्गुष्ठ मात्रं पुरुषं निश्चकर्ष यमॊ बलात ॥ 16 ॥

  17. ततः समुद्धृतप्राणं गतश्वासं हतप्रभम निर्विचेष्टं शरीरं तद बभूवाप्रियदर्शनम ॥ 17 ॥

  18. यमस तु तं तथा बद्ध्वा परयातॊ दक्षिणामुखः सावित्री चापि दुःखार्ता यमम एवान्वगच्छत नियमव्रतसंसिद्धा महाभागा पतिव्रता ॥ 18 ॥

  19. [यम] निवर्त गच्छ सावित्रि कुरुष्वास्यौर्ध्वदेहिकम कृतं भर्तुस तवयानृण्यं यावद गम्यं गतं तवया ॥ 19 ॥

  20. [सावित्री] यत्र मे नीयते भर्ता सवयं वा यत्र गच्छति मयापि तत्र गन्तव्यम एष धर्मः सनातनः ॥ 20 ॥

  21. तपसा गुरुवृत्त्या च भर्तुः सनेहाद वरतेन च तव चैव परसादेन न मे परतिहता गतिः ॥ 21 ॥

  22. पराहुः सप्त पदं मित्रं बुधास तत्त्वार्थ दर्शिनः मित्रतां च पुरस्कृत्य किं चिद वक्ष्यामि तच छृणु ॥ 22 ॥

  23. नानात्मवन्तस तु वनेचरन्ति; धर्मं च वासं च परिश्रमं च विज्ञानतॊ धर्मम उदाहरन्ति; तस्मात सन्तॊ धर्मम आहुः परधानम ॥ 23 ॥

  24. एकस्य धर्मेण सतां मतेन; सर्वे सम तं मार्गम अनुप्रपन्नाः मा वै दवितीयं मा तृतीयं च वाञ्छे; तस्मात सन्तॊ धर्मम आहुः परधानम ॥ 24 ॥

  25. [यम] निवर्त तुष्टॊ ऽसमि तवानया गिरा; सवराक्षर वयञ्जन हेतुयुक्तया वरं वृणीष्वेह विनास्य जीवितं; ददानि ते सर्वम अनिन्दिते वरम ॥ 25 ॥

  26. [सावित्री] चयुतः सवराज्याद वनवासम आश्रितॊ; विनष्ट चक्षुः शवषुरॊ ममाश्रमे स लब्धचक्षुर बलवान भवेन नृपस; तव परसादाज जवलनार्कसंनिभः ॥ 26 ॥

  27. [यम] ददानि ते सर्वम अनिन्दिते वरं; यथा तवयॊक्तं भविता च तत तथा तवाध्वना गलानिम इवॊपलक्षये; निवर्त गच्छस्व न ते शरमॊ भवेत ॥ 27 ॥

  28. [सावित्री] कुतः शरमॊ भर्तृसमीपतॊ हि मे; यतॊ हि भर्ता मम सा गतिर धरुवा यतः पतिं नेष्यसि तत्र मे गतिः; सुरेश भूयॊ च वचॊ निबॊध मे ॥ 28 ॥

  29. सतां सकृत संगतम ईप्सितं परं; ततः परं मित्रम इति परचक्षते न चाफलं सत्पुरुषेण संगतं; ततः सतां संनिवसेत समागमे ॥ 29 ॥

  30. [यम] मनॊ ऽनुकूलं बुध बुद्धिवर्धनं; तवयाहम उक्तॊ वचनं हिताश्रयम विना पुनः सत्यवतॊ ऽसय जीवितं; वरं दवितीयं वरयस्व भामिनि ॥ 30 ॥

  31. [सावित्री] हृतं पुरा मे शवशुरस्य धीमतः; सवम एव राज्यं स लभेत पार्थिवः जह्यात सवधर्मं न च मे गुरुर; यथा दवितीयम एतं वरयामि ते वरम ॥ 31 ॥

  32. [यम] सवम एव राज्यं परतिपत्स्यते ऽचिरान; न च सवधर्मात परिहास्यते नृपः कृतेन कामेन मया नृपात्मजे; निवर्त गच्छस्व न ते शरमॊ भवेत ॥ 32 ॥

  33. [सावित्री] परजास तवयेमा नियमेन संयता; नियम्य चैता नयसे न कामया अतॊ यमत्वं तव देव विश्रुतं; निबॊध चेमां गिरम ईरितां मया ॥ 33 ॥

  34. अद्रॊहः सर्वभूतेषु कर्मणा मनसा गिरा अनुग्रहश च दानं च सतां धर्मः सनातनः ॥ 34 ॥

  35. एवं परायॊ च लॊकॊ ऽयं मनुष्याः शक्तिपेशलाः सन्तस तव एवाप्य अमित्रेषु दयां पराप्तेषु कुर्वते ॥ 35 ॥

  36. [यम] पिपासितस्येव यथा भवेत पयस; तथा तवया वाक्यम इदं समीरितम विना पुनः सत्यवतॊ ऽसय जीवितं; वरं वृणीष्वेह शुभे यद इच्छसि ॥ 36 ॥

  37. [सावित्री] ममानपत्यः पृथिवीपतिः पिता; भवेत पितुः पुत्रशतं ममौरसम कुलस्य संतानकरं च यद भवेत; तृतीयम एतं वरयामि ते वरम ॥ 37 ॥

  38. [यम] कुलस्य संतानकरं सुवर्चसं; शतं सुतानां पितुर अस्तु ते शुभे कृतेन कामेन नराधिपात्मजे; निवर्त दूरं हि पथस तवम आगता ॥ 38 ॥

  39. [सावित्री] न दूरम एतन मम भर्तृसंनिधौ; मनॊ हि मे दूरतरं परधावति तथा वरजन्न एव गिरं समुद्यतां; मयॊच्यमानां शृणु भूय एव च ॥ 39 ॥

  40. विवस्वतस तवं तनयः परतापवांस; ततॊ हि वैवस्वत उच्यसे बुधैः शमेन धर्मेण च रञ्जिताः परजास; ततस तवेहेश्वर धर्मराजता ॥ 40 ॥

  41. आत्मन्य अपि न विश्वासस तावान भवति सत्सु यः तस्मात सत्सु विशेषेण सर्वः परणयम इच्छति ॥ 41 ॥

  42. सौहृदात सर्वभूतानां विश्वासॊ नाम जायते तस्मात सत्सु विशेषेण विश्वासं कुरुते जनः ॥ 42 ॥

  43. [यम] उदहृतं ते वचनं यद अङ्गने; शुभे न तादृक तवदृते मया शरुतम अनेन तुष्टॊ ऽसमि विनास्य जीवितं; वरं चतुर्थं वरयस्व गच्छ च ॥ 43 ॥

  44. [सावित्री] ममात्मजं सत्यवतस तथौरसं; भवेद उभाभ्याम इह यत कुलॊद्वहम शतं सुतानां बलवीर्यशालिनाम; इदं चतुर्थं वरयामि ते वरम ॥ 44 ॥

  45. [यम] शतं सुतानां बलवीर्यशालिनां; भविष्यति परीतिकरं तवाबले परिश्रमस ते न भवेन नृपात्मजे; निवर्त दूरं हि पथस तवम आगता ॥ 45 ॥

  46. [सावित्री] सतां सदा शाश्वती धर्मवृत्तिः; सन्तॊ न सीदन्ति न च वयथन्ति सतां सद्भिर नाफलः संगमॊ ऽसति; सद भयॊ भयं नानुवर्तन्ति सन्तः ॥ 46 ॥

  47. सन्तॊ हि सत्येन नयन्ति सूर्यं; सन्तॊ भूमिं तपसा धारयन्ति सन्तॊ गतिर भूतभव्यस्य राजन; सतां मध्ये नावसीदन्ति सन्तः ॥ 47 ॥

  48. आर्य जुष्टम इदं वृत्तम इति विज्ञाय शाश्वतम सन्तः परार्थं कुर्वाणा नावेक्षन्ते परतिक्रियाम ॥ 48 ॥

  49. न च परसादः सत्पुरुषेषु मॊघॊ; न चाप्य अर्थॊ नश्यति नापि मानः यस्माद एतन नियतं सत्सु नित्यं; तस्मात सन्तॊ रक्षितारॊ भवन्ति ॥ 49 ॥

  50. [यम] यथा यथा भाषसि धर्मसंहितं; मनॊ ऽनुकूलं सुपदं महार्थवत तथा तथा मे तवयि भक्तिर उत्तमा; वरं वृणीष्वाप्रतिमं यतव्रते ॥ 50 ॥

  51. [सावित्री] न ते ऽपवर्गः सुकृताद विनाकृतस; तथा यथान्येषु वरेषु मानद वरं वृणे जीवतु सत्यवान अयं; यथा मृता हय एवम अहं विना पतिम ॥ 51 ॥

  52. न कामये भर्तृविनाकृता सुखं; न कामये भर्तृविनाकृता दिवम न कामये भर्तृविनाकृता शरियं; न भर्तृहीना वयवसामि जीवितुम ॥ 52 ॥

  53. वरातिसर्गः शतपुत्रता मम; तवयैव दत्तॊ हरियते च मे पतिः वरं वृणे जीवतु सत्यवान अयं; तवैव सत्यं वचनं भविष्यति ॥ 53 ॥

  54. [मार्क] तथेत्य उक्त्वा तु तान पाशान मुक्त्वा वैवस्वतॊ यमः धर्मराजः परहृष्टात्मा सावित्रीम इदम अब्रवीत ॥ 54 ॥

  55. एष भद्रे मया मुक्तॊ भर्ता ते कुलनन्दिनि अरॊगस तव नेयश च सिद्धार्थश च भविष्यति ॥ 55 ॥

  56. चतुर्वर्ष शतं चायुस तवया सार्धम अवाप्स्यति इष्ट्वा यज्ञैश च धर्मेण खयातिं लॊके गमिष्यति ॥ 56 ॥

  57. तवयि पुत्रशतं चैव सत्यवाञ जनयिष्यति ते चापि सर्वे राजानः कषत्रियाः पुत्रपौत्रिणः खयातास तवन नामधेयाश च भविष्यन्तीह शाश्वताः ॥ 57 ॥

  58. पितुश च ते पुत्रशतं भविता तव मातरि मालव्यां मालवा नाम शाश्वताः पुत्रपौत्रिणः भरातरस ते भविष्यन्ति कषत्रियास तरिदशॊपमाः ॥ 58 ॥

  59. एवं तस्यै वरं दत्त्वा धर्मराजः परतापवान निवर्तयित्वा सावित्रीं सवम एव भवनं ययौ ॥ 59 ॥

  60. सावित्र्य अपि यमे याते भर्तारं परतिलभ्य च जगाम तत्र यत्रास्या भर्तुः शावं कलेवरम ॥ 60 ॥

  61. सा भूमौ परेक्ष्य भर्तारम उपसृत्यॊपगूह्य च उत्सङ्गे शिर आरॊप्य भूमाव उपविवेश ह ॥ 61 ॥

  62. संज्ञां च सत्यवाँल लब्ध्वा सावित्रीम अभ्यभाषत परॊष्यागत इव परेम्णा पुनः पुनर उदीक्ष्य वै ॥ 62 ॥

  63. [सत्यवान] सुचिरं बत सुप्तॊ ऽसमि किमर्थं नावबॊधितः कव चासौ पुरुषः शयामॊ यॊ ऽसौ मां संचकर्ष ह ॥ 63 ॥

  64. [सावित्री] सुचिरं बत सुप्तॊ ऽसि ममाङ्के पुरुषर्षभ गतः स भगवान देवः परजा संयमनॊ यमः ॥ 64 ॥

  65. विश्रान्तॊ ऽसि महाभाग विनिद्रश च नृपात्मज यदि शक्यं समुत्तिष्ठ विगाढां पश्य शर्वरीम ॥ 65 ॥

  66. [मार्क] उपलभ्य ततः संज्ञां सुखसुप्त इवॊत्थितः दिशः सर्वा वनान्तांश च निरीक्ष्यॊवाच सत्यवान ॥ 66 ॥

  67. फलाहारॊ ऽसमि निष्क्रान्तस तवया सह सुमध्यमे ततः पाटयतः काष्ठं शिरसॊ मे रुजाभवत ॥ 67 ॥

  68. शिरॊ ऽभिताप संतप्तः सथातुं चिरम अशक्नुवन तवॊत्सङ्गे परसुप्तॊ ऽहम इति सर्वं समरे शुभे ॥ 68 ॥

  69. तवयॊपगूढस्य च मे निद्रयापहृतं मनः ततॊ ऽपश्यं तमॊ घॊरं पुरुषं च महौजसम ॥ 69 ॥

  70. तद यदि तवं विजानासि किं तद बरूहि सुमध्यमे सवप्नॊ मे यदि वा दृष्टॊ यदि वा सत्यम एव तत ॥ 70 ॥

  71. तम उवाचाथ सावित्री रजनी वयवगाहते शवस्ते सर्वं यथावृत्तम आख्यास्यामि नृपात्मज ॥ 71 ॥

  72. उत्थिष्ठॊत्तिष्ठ भद्रं ते पितरौ पश्य सुव्रत विगाढा रजनी चेयं निवृत्तश च दिवाकरः ॥ 72 ॥

  73. नक्तंचराश चरन्त्य एते हृष्टाः करूराभिभाषिणः शरूयन्ते पर्णशब्दाश च मृगाणां चरतां वने ॥ 73 ॥

  74. एताः शिवा घॊरनादा दिशं दक्षिणपश्चिमाम आस्थाय विरुवन्त्य उग्राः कम्पयन्त्यॊ मनॊ मम ॥ 74 ॥

  75. [सत्यवान] वनं परतिभयाकारं घनेन तमसा वृतम न विज्ञास्यसि पन्थानं गन्तुं चैव न शक्ष्यसि ॥ 75 ॥

  76. [साविती] अस्मिन्न अद्य वने दग्धे शुष्कवृक्षः सथितॊ जवलन वायुना धम्यमानॊ ऽगनिर दृश्यते ऽतर कव चित कव चित ॥ 76 ॥

  77. ततॊ ऽगनिम आनयित्वेह जवालयिष्यामि सर्वतः काष्ठानीमानि सन्तीह जहि संतापम आत्मनः ॥ 77 ॥

  78. यदि नॊत्सहसे गन्तुं सरुजं तवाभिलक्षये न च जञास्यसि पन्थानं तमसा संवृते वने ॥ 78 ॥

  79. शवःप्रभाते वने दृश्ये यास्यावॊ ऽनुमते तव वसावेह कषपाम एतां रुचितं यदि ते ऽनघ ॥ 79 ॥

  80. [सत्यवान] शिरॊ रुजा निवृत्ता मे सवस्थान्य अङ्गानि लक्षये माता पितृभ्याम इच्छामि संगमं तवत्प्रसादजम ॥ 80 ॥

  81. न कदा चिद विकाले हि गतपूर्वॊ मयाश्रमः अनागतायां संध्यायां माता मे पररुणद्धि माम ॥ 81 ॥

  82. दिवापि मयि निष्क्रान्ते संतप्येते गुरू मम विचिनॊति च मां तातः सहैवाश्रमवासिभिः ॥ 82 ॥

  83. मात्रा पित्रा च सुभृशं दुःखिताभ्याम अहं पुरा उपालब्धः सुबहुशश चिरेणागच्छसीति ह ॥ 83 ॥

  84. का तव अवस्था तयॊर अद्य मदर्थम इति चिन्तये तयॊर अदृश्ये मयि च महद दुःखं भविष्यति ॥ 84 ॥

  85. पुरा माम ऊचतुश चैव रात्राव अस्रायमाणकौ भृशं सुदुःखितौ वृद्धौ बहुशः परीतिसंयुतौ ॥ 85 ॥

  86. तवया हीनौ न जीवाव मुहूर्तम अपि पुत्रक यावद धरिष्यसे पुत्र तावन नौ जीवितं धरुवम ॥ 86 ॥

  87. वृद्धयॊर अन्धयॊर यष्टिस तवयि वंशः परतिष्ठितः तवयि पिण्डश च कीर्तिश च संतानं चावयॊर इति ॥ 87 ॥

  88. माता वृद्धा पिता वृद्धस तयॊर यष्टिर अहं किल तौ रात्रौ माम अपश्यन्तौ काम अवस्थां गमिष्यतः ॥ 88 ॥

  89. निद्रायाश चाभ्यसूयामि यस्या हेतॊः पिता मम माता च संशयं पराप्ता मत्कृते ऽनपकारिणी ॥ 89 ॥

  90. अहं च संशयं पराप्तः कृच्छ्राम आपदम आस्थितः माता पितृभ्यां हि विना नाहं जीवितुम उत्सहे ॥ 90 ॥

  91. वयक्तम आकुलया बुद्ध्या परज्ञा चक्षुः पिता मम एकैकम अस्यां वेलायां पृच्छत्य आश्रमवासिनम ॥ 91 ॥

  92. नात्मानम अनुशॊचामि यथाहं पितरं शुभे भर्तारं चाप्य अनुगतां मातरं परिदुर्बलाम ॥ 92 ॥

  93. मत्कृतेन हि ताव अद्य संतापं परम एष्यतः जीवन्ताव अनुजीवामि भर्तव्यौ तौ मयेति ह तयॊः परियं मे कर्तव्यम इति जीवामि चाप्य अहम ॥ 93 ॥

  94. [मार्क] एवम उक्त्वा स धर्मात्मा गुरुवर्ती गुरुप्रियः उच्छ्रित्य बाहू दुःखार्तः सस्वरं पररुरॊद ह ॥ 94 ॥

  95. ततॊ ऽबरवीत तथा दृष्ट्वा भर्तारं शॊककर्शितम परमृज्याश्रूणि नेत्राभ्यां सावित्री धर्मचारिणी ॥ 95 ॥

  96. यदि मे ऽसति तपस तप्तं यदि दत्तं हुतं यदि शवश्रू शवशुर भर्तॄणां मम पुण्यास तु शर्वरी ॥ 96 ॥

  97. न समराम्य उक्तपूर्वां वै सवैरेष्व अप्य अनृतां गिरम तेन सत्येन ताव अद्य धरियेतां शवशुरौ मम ॥ 97 ॥

  98. [सत्यवान] कामये दर्शनं पित्रॊर याहि सावित्रि माचिरम पुरा मातुः पितुर वापि यदि पश्यामि विप्रियम न जीविष्ये वरारॊहे सत्येनात्मानम आलभे ॥ 98 ॥

  99. यदि धर्मे च ते बुद्धिर मां चेज जीवन्तम इच्छसि मम परियं वा कर्तव्यं गच्छस्वाश्रमम अन्तिकात ॥ 99 ॥

  100. [मार्क] सावित्री तत उत्थाय केशान संयम्य भामिनी पतिम उत्थापयाम आस बाहुभ्यां परिगृह्य वै ॥ 100 ॥

  101. उत्थाय सत्यवांश चापि परमृज्याङ्गानि पाणिना दिशः सर्वाः समालॊक्य कठिने दृष्टिम आदधे ॥ 101 ॥

  102. तम उवाचाथ सावित्री शवः फलानीह नेष्यसि यॊगक्षेमार्थम एतत ते नेष्यामि परशुं तव अहम ॥ 102 ॥

  103. कृत्वा कठिन भारं सा वृक्षशाखावलम्बिनम गृहीत्वा परशुं भर्तुः सकाशं पुनर आगमत ॥ 103 ॥

  104. वामे सकन्धे तु वामॊरुर भर्तुर बाहुं निवेश्य सा दक्षिणेन परिष्वज्य जगाम मृदु गामिनी ॥ 104 ॥

  105. [सत्यवान] अभ्यासगमनाद भीरु पन्थानॊ विदिता मम वृक्षान्तरालॊकितया जयॊत्स्नया चापि लक्षये ॥ 105 ॥

  106. आगतौ सवः पथा येन फलान्य अवचितानि च यथागतं शुभे गच्छ पन्थानं मा विचारय ॥ 106 ॥

  107. पलाशषण्डे चैतस्मिन पन्था वयावर्तते दविधा तस्यॊत्तरेण यः पन्थास तेन गच्छ तवरस्व च सवस्थॊ ऽसमि बलवान अस्मि दिदृक्षुः पितराव उभौ ॥ 107 ॥

  108. [मार्क] बरुवन्न एवं तवरायुक्तः स परायाद आश्रमं परति ॥ 108 ॥

Reach this point to mark the section finished.

Continue to अध्याय 282

Previous: अध्याय 280