[मार्क] एतस्मिन्न एव काले तु दयुमत्सेनॊ महावने लब्धचक्षुः परसन्नात्मा दृष्ट्या सर्वं ददर्श ह ॥ 1 ॥
[मार्क] तस्यां रात्र्यां वयतीतायाम उदिते सूर्यमण्डले ॥ 1 ॥
स सर्वान आश्रमान गत्वा शैब्यया सह भार्यया पुत्र हेतॊः पराम आर्तिं जगाम मनुजर्षभ ॥ 2 ॥
ताव आश्रमान नदीश चैव वनानि च सरांसि च तांस तान देशान विचिन्वन्तौ दम्पती परिजग्मतुः ॥ 3 ॥
शरुत्वा शब्दं तु यत किं चिद उन्मुखौ सुत शङ्कया सावित्री सहितॊ ऽभयेति सत्यवान इत्य अधावताम ॥ 4 ॥
भिन्नैश च परुषैः पादैः सव्रणैः शॊणितौक्षितैः कुशकण्टकविद्धाङ्गाव उन्मत्ताव इव धावतः ॥ 5 ॥
ततॊ ऽभिसृत्य तैर विप्रैः सर्वैर आश्रमवासिभिः परिवार्य समाश्वास्य समानीतौ सवम आश्रमम ॥ 6 ॥
तत्र भार्या सहायः स वृतॊ वृद्धैर तपॊधनैः आश्वासितॊ विचित्रार्थैः पूर्वराज्ञां कथाश्रयैः ॥ 7 ॥
ततस तौ पुनर आश्वस्तौ वृद्धौ पुत्र दिदृक्षया बाल्ये वृत्तानि पुत्रस्य समरन्तौ भृशदुःखितौ ॥ 8 ॥
पुनर उक्त्वा च करुणां वाचं तौ शॊककर्शितौ हा पुत्र हा साध्वि वधूः कवासि कवासीत्य अरॊदताम ॥ 9 ॥
[सुवर्चस] यथास्य भार्या सावित्री तपसा च दमेन च आचारेण च संयुक्ता तथा जीवति सत्यवान ॥ 10 ॥
[गौतम] वेदाः साङ्गा मयाधीतास तपॊ मे संचितं महत कौमारं बरह्मचर्यं मे गुरवॊ ऽगनिश च तॊषिताः ॥ 11 ॥
समाहितेन चीर्णानि सर्वाण्य एव वरतानि मे वायुभक्षॊपवासश च कुशलानि च यानि मे ॥ 12 ॥
अनेन तपसा वेद्मि सर्वं परिचिकीर्षितम सत्यम एतन निबॊध तवं धरियते सत्यवान इति ॥ 13 ॥
[षिस्य] उपाध्यायस्य मे वक्त्राद यथा वाक्यं विनिःसृतम नैतज जातु भवेन मिथ्या तथा जीवति सत्यवान ॥ 14 ॥
[रसयह] यथास्य भार्या सावित्री सर्वैर एव सुलक्षणैः अवैधव्य करैर युक्ता तथा जीवति सत्यवान ॥ 15 ॥
[भारद्वाज] यथास्य भार्या सावित्री तपसा च दमेन च आचारेण च संयुक्ता तथा जीवति सत्यवान ॥ 16 ॥
[दाल्भ्य] यथादृष्टिः परवृत्ता ते सावित्र्याश च यथा वरतम गताहारम अकृत्वा च तथा जीवति सत्यवान ॥ 17 ॥
[माण्डव्य] यथा वदन्ति शान्तायां दिशि वै मृगपक्षिणः पार्थिवी च परवृत्तिस ते तथा जीवति सत्यवान ॥ 18 ॥
[धौम्य] सर्वैर गुणैर उपेतस ते यथा पुत्रॊ जनप्रियः दीर्घायुर लक्षणॊपेतस तथा जीवति सत्यवान ॥ 19 ॥
[मार्क] एवम आश्वासितस तैस तु सत्यवाग्भिस तपस्विभिः तांस तान विगणयन्न अर्थान अवस्थित इवाभवत ॥ 20 ॥
ततॊ मुहूर्तात सावित्री भर्त्रा सत्यवता सह आजगामाश्रमं रात्रौ परहृष्टा परविवेश ह ॥ 21 ॥
[बराह्मणाह] पुत्रेण संगतं तवाद्य चक्षुर मन्तं निरीक्ष्य च सर्वे वयं वै पृच्छामॊ वृद्धिं ते पृथिवीपते ॥ 22 ॥
समागमेन पुत्रस्य सावित्र्या दर्शनेन च चक्षुषॊ चात्मनॊ लाभात तरिभिर दिष्ट्या विवर्धसे ॥ 23 ॥
सर्वैर अस्माभिर उक्तं यत तथा तन नात्र संशयः भूयॊ भूयॊ च वृत्थिस ते कषिप्रम एव भविष्यति ॥ 24 ॥
[मार्क] ततॊ ऽगनिं तत्र संज्वाल्य दविजास ते सर्व एव हि उपासां चक्रिरे पार्थ दयुमत्सेनं महीपतिम ॥ 25 ॥
शैब्या च सत्यवांश चैव सावित्री चैकतः सथिताः सर्वैस तैर अभ्यनुज्ञाता विशॊकाः समुपाविशन ॥ 26 ॥
ततॊ राज्ञा सहासीनाः सर्वे ते वनवासिनः जातकौतूहलाः पार्थ पप्रच्छुर नृपतेः सुतम ॥ 27 ॥
पराग एव नागतं कस्मात सभार्येण तवया विभॊ विरात्रे चागतं कस्मात कॊ ऽनुबन्धश च ते ऽभवत ॥ 28 ॥
संतापितः पिता माता वयं चैव नृपात्मज नाकस्माद इति जानीमस तत सर्वं वक्तुम अर्हसि ॥ 29 ॥
[सत्यवान] पित्राहम अभ्यनुज्ञातः सावित्री सहितॊ गतः अथ मे ऽभूच छिरॊदुःखं वने काष्ठानि भिन्दतः ॥ 30 ॥
सुप्तश चाहं वेदनया चिरम इत्य उपलक्षये तावत कालं च न मया सुप्त पूर्वं कदा चन ॥ 31 ॥
सर्वेषाम एव भवतां संतापॊ मा भवेद इति अतॊ विरात्रागमनं नान्यद अस्तीह कारणम ॥ 32 ॥
[गौतम] अकस्माच चक्षुर अः पराप्तिर दयुमत्सेनस्य ते पितुः नास्य तवं कारणं वेत्थ सावित्री वक्तुम अर्हति ॥ 33 ॥
शरॊतुम इच्छामि सावित्रि तवं हि वेत्थ परावरम तवां हि जानामि सावित्रि सावित्रीम इव तेजसा ॥ 34 ॥
तवम अत्र हेतुं जानीषे तस्मात सत्यं निरुच्यताम रहस्यं यदि ते नास्ति किं चिद अत्र वदस्व नः ॥ 35 ॥
[सावित्री] एवम एतद यथा वेत्थ संकल्पॊ नान्यथा हि वः न च किं चिद रहस्यं मे शरूयतां तथ्यम अत्र यत ॥ 36 ॥
मृत्युर मे भर्तुर आख्यातॊ नारदेन महात्मना स चाद्य दिवसः पराप्तस ततॊ नैनं जहाम्य अहम ॥ 37 ॥
सुप्तं चैनं यमः साक्षाद उपागच्छत सकिंकरः स एनम अनयद बद्ध्वा दिशं पितृनिषेविताम ॥ 38 ॥
अस्तौषं तम अहं देवं सत्येन वचसा विभुम पञ्च वै तेन मे दत्ता वराः शृणुत तान मम ॥ 39 ॥
चक्षुर ई च सवराज्यं च दवौ वरौ शवशुरस्य मे लब्धं पितुः पुत्रशतं पुत्राणाम आत्मनः शतम ॥ 40 ॥
चतुर्वर्ष शतायुर मे भर्ता लब्धश च सत्यवान भर्तुर हि जीवितार्थं तु मया चीर्णं सथिरं वरतम ॥ 41 ॥
एतत सत्यं मयाख्यातं कारणं विस्तरेण वः यथावृत्तं सुखॊदर्कम इदं दुःखं महन मम ॥ 42 ॥
[रसयह] निमज्जमानं वयसनैर अभिद्रुतं; कुलं नरेन्द्रस्य तमॊ मये हरदे तवया सुशीले धृतधर्मपुण्यया; समुद्धृतं साध्वि पुनः कुलीनया ॥ 43 ॥
[मार्क] तथा परशस्य हय अभिपूज्य चैव ते; वरस्त्रियं ताम ऋषयः समागताः नरेन्द्रम आमन्द्र्य सपुत्रम अञ्जसा; शिवेन जग्मुर मुदिताः सवम आलयम ॥ 44 ॥
वनपर्व · Vana Parva
अध्याय 282
Reach this point to mark the section finished.
Continue to अध्याय 283