धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 280

  1. [मार्क] ततः काले बहुतिथे वयतिक्रान्ते कदा चन पराप्तः स कालॊ मर्तव्यं यत्र सत्यवता नृप ॥ 1 ॥

  2. गणयन्त्याश च सावित्र्या दिवसे दिवसे गते तद वाक्यं नारदेनॊक्तं वर्तते हृदि नित्यशः ॥ 2 ॥

  3. चतुर्थे ऽहनि मर्तव्यम इति संचिन्त्य भामिनी वरतं तरिरात्रम उद्दिश्य दिवारात्रं सथिताभवत ॥ 3 ॥

  4. तं शरुत्वा नियमं दुःखं वध्वा दुःखान्वितॊ नृपः उत्थाय वाक्यं सावित्रीम अब्रवीत परिसान्त्वयन ॥ 4 ॥

  5. अतितीव्रॊ ऽयम आरम्भस तवयारब्धॊ नृपात्मजे तिसृणां वसतीनां हि सथानं परमदुष्करम ॥ 5 ॥

  6. [सावित्री] न कार्यस तात संतापः पारियिष्याम्य अहं वरतम वयवसायकृतं हीदं वयवसायश च कारणम ॥ 6 ॥

  7. [दयुमत्सेन] वरतं भिन्धीति वक्तुं तवां नास्मि शक्तः कथं चन पारयस्वेति वचनं युक्तम अस्मद्विधॊ वदेत ॥ 7 ॥

  8. [मार्क] एवम उक्त्वा दयुमत्सेनॊ विरराम महामनाः तिष्ठन्ती चापि सावित्री काष्ठभूतेव लक्ष्यते ॥ 8 ॥

  9. शवॊभूते भर्तृमरणे सावित्र्या भरतर्षभ दुःखान्वितायास तिष्ठन्त्याः सा रात्रिर वयत्यवर्तत ॥ 9 ॥

  10. अद्य तद दिवसं चेति हुत्वा दीप्तं हुताशनम युगमात्रॊदिते सूर्ये कृत्वा पौर्वाह्णिकाः करियाः ॥ 10 ॥

  11. ततः सर्वान दविजान वृद्धाञ शवश्रूं शवशुरम एव च अभिवाद्यानुपूर्व्येण पराञ्जलिर नियता सथिता ॥ 11 ॥

  12. अवैधव्याशिर अस ते तु सावित्र्य अर्थं हिताः शुभाः ऊचुस तपस्विनः सर्वे तपॊवननिवासिनः ॥ 12 ॥

  13. एवम अस्त्व इति सावित्री धयानयॊगपरायणा मनसा ता गिरः सर्वाः परत्यगृह्णात तपस्विनाम ॥ 13 ॥

  14. तं कालं चमुहूर्तं च परतीक्षन्ती नृपात्मजा यथॊक्तं नारद वचॊ चिन्तयन्ती सुहुःखिता ॥ 14 ॥

  15. ततस तु शवश्रू शवशुराव ऊचतुस तां नृपात्मजाम एकान्तस्थम इदं वाक्यं परीत्या भरतसत्तम ॥ 15 ॥

  16. [षवष्रौ] वरतॊ यथॊपदिष्टॊ ऽयं यथावत पारितस तवया आहारकालः संप्राप्तः करियतां यद अनन्तरम ॥ 16 ॥

  17. [सावित्री] अस्तं गते मयादित्ये भॊक्तव्यं कृतकामया एष मे हृदि संकल्पः समयश च कृतॊ मया ॥ 17 ॥

  18. [मार्क] एवं संभाषमाणायाः सावित्र्या भॊजनं परति सकन्धे परशुम आदाय सत्यवान परस्थितॊ वनम ॥ 18 ॥

  19. सावित्री तव आह भर्तारं नैकस तवं गन्तुम अर्हसि सह तवयागमिष्यामि न हि तवां हातुम उत्सहे ॥ 19 ॥

  20. [सत्यवान] वनं न गतपूर्वं ते दुःखः पन्थाश च भामिनि वरतॊपवासक्षामा च कथं पद्भ्यां गमिष्यसि ॥ 20 ॥

  21. [सावित्री] उपवासान न मे गलानिर नास्ति चापि परिश्रमः गमने च कृतॊत्साहां परतिषेद्धुं न मार्हसि ॥ 21 ॥

  22. [सत्यवान] यदि ते गमनॊत्साहः करिष्यामि तव परियम मम तव आमन्त्रय गुरून न मां दॊषः सपृशेद अयम ॥ 22 ॥

  23. [मार्क] साटभिग्म्याब्रवीच छवश्रूं शवशुरं च महाव्रता अयं गच्छति मे भर्ता फलाहारॊ महावनम ॥ 23 ॥

  24. इच्छेयम अभ्यनुज्ञातुम आर्यया शवशुरेण च अनेन सह निर्गन्तुं न हि मे विरहः कषमः ॥ 24 ॥

  25. गुर्व अग्निहॊत्रार्थ कृते परस्थितश च सुतस तव न निवार्यॊ निवार्यः सयाद अन्यथा परस्थितॊ वनम ॥ 25 ॥

  26. संवत्सरः किं चिद ऊनॊ न निष्क्रान्ताहम आश्रमात वनं कुसुमितं दरष्टुं परं कौतूहरं हि मे ॥ 26 ॥

  27. [दयुमत्सेन] यतः परभृति सावित्री पित्रा दत्तस्नुषा मम नानयाभ्यर्थना युक्तम उक्तपूर्वं समराम्य अहम ॥ 27 ॥

  28. तद एषा लभतां कामं यथाभिलषितं वधूः अप्रमादश च कर्तव्यः पुत्रि सत्यवतः पथि ॥ 28 ॥

  29. [मार्क] उभाभ्याम अभ्यनुज्ञाता सा जगाम यशस्विनी सह भर्त्रा हसन्तीव हृदयेन विदूयता ॥ 29 ॥

  30. सा वनानि विचित्राणि रमणीयानि सर्वशः मयूररव घुष्टानि ददर्श विपुलेक्षणा ॥ 30 ॥

  31. नदीः पुण्यवहाश चैव पुष्पितांश च नगॊत्तमान सत्यवान आह पश्येति सावित्रीं मधुराक्षरम ॥ 31 ॥

  32. निरीक्षमाणा भर्तारं सर्वावस्थम अनिन्दिता मृतम एव हि तं मेने काले मुनिवचॊ समरन ॥ 32 ॥

  33. अनुवर्तती तु भर्तारं जगाम मृदु गामिनी दविधेव हृदयं कृत्वा तं च कालम अवेक्षती ॥ 33 ॥

Reach this point to mark the section finished.

Continue to अध्याय 281

Previous: अध्याय 279