धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 279

  1. [मार्क] अथ कन्याप्रदाने स तम एवार्थं विचिन्तयन समानिन्ये च तत सर्वं भाण्डं वैवाहिकं नृपः ॥ 1 ॥

  2. ततॊ वृद्धान दविजान सर्वान ऋत्विजः सपुरॊहितान समाहूय तिथौ पुण्ये परययौ सह कन्यया ॥ 2 ॥

  3. मेध्यारण्यं स गत्वा च दयुमत्सेनाश्रमं नृपः पद्भ्याम एव दविजैः सार्धं राजर्षिं तम उपागमत ॥ 3 ॥

  4. तत्रापश्यन महाभागं शालवृक्षम उपाश्रितम कौश्यां बृस्यां समासीनं चक्षुर हीनं नृपं तदा ॥ 4 ॥

  5. स राजा तस्य राजर्षेः कृत्वा पूजां यथार्हतः वाचा सुनियतॊ भूत्वा चकारात्म निवेदनम ॥ 5 ॥

  6. तस्यार्घ्यम आसनं चैव गां चावेद्य स धर्मवित किम आगमनम इत्य एवं राजा राजानम अब्रवीत ॥ 6 ॥

  7. तस्य सर्वम अभिप्रायम इतिकर्तव्यतां च ताम सत्यवन्तं समुद्दिश्य सर्वम एव नयवेदयत ॥ 7 ॥

  8. [अष्वपति] सावित्री नाम राजर्षे कन्येयं मम शॊभना तां सवधर्मेण धर्मज्ञ सनुषार्थे तवं गृहाण मे ॥ 8 ॥

  9. चयुताः सम राज्याद वनवासम आश्रिताश; चराम धर्मं नियतास तपस्विनः कथं तव अनर्हा वनवासम आश्रमे; सहिष्यते कलेशम इमं सुता तव ॥ 9 ॥

  10. [अष्वपति] सुखं च दुःखं च भवाभवात्मकं; यदा विजानाति सुताहम एव च न मद्विधे युज्यति वाक्यम ईदृशं; विनिश्चयेनाभिगतॊ ऽसमि ते नृप ॥ 10 ॥

  11. आशां नार्हसि मे हन्तुं सौहृदाद रणयेन च अभितश चागतं परेम्णा परत्याख्यातुं न मार्हसि ॥ 11 ॥

  12. अनुरूपॊ हि संयॊगे तवं ममाहं तवापि च सनुषां परतीच्छ मे कन्यां भार्यां सत्यवतः सुताम ॥ 12 ॥

  13. [दयुमत्सेन] पूर्वम एवाभिलषितः संभन्धॊ मे तवया सह भरष्टराज्यस तव अहम इति तत एतद विचारितम ॥ 13 ॥

  14. अभिप्रायस तव अयं यॊ मे पूर्वम एवाभिकाङ्क्षितः स निर्वर्ततु मे ऽदयैव काङ्क्षितॊ हय असि मे ऽतिथिः ॥ 14 ॥

  15. [मार्क] ततः सर्वान समानीय दविजान आश्रमवासिनः यथाविधि समुद्वाहं कारयाम आसतुर नृपौ ॥ 15 ॥

  16. दत्त्वा तव अश्वपतिः कन्यां यथार्हं च परिच्छदम ययौ सवम एव भवनं युक्तः परमया मुदा ॥ 16 ॥

  17. सत्यवान अपि भार्यां तां लब्ध्वा सर्वगुणान्विताम मुमुदे सा च तं लब्ध्वा भर्तारं मनसेप्सितम ॥ 17 ॥

  18. गते पितरि सर्वाणि संन्यस्याभरणानि सा जगृहे वल्कलान्य एव वस्त्रं काषायम एव च ॥ 18 ॥

  19. परिचारैर गुणैश चैव परश्रयेण दमेन च सर्वकामक्रियाभिश च सर्वेषां तुष्टिम आवहत ॥ 19 ॥

  20. शवश्रूं शरीरसत्कारैः सर्वैर आछादनादिभिः शवशुरं देवकार्यैश च वाचः संयमनेन च ॥ 20 ॥

  21. तथैव परियवादेन नैपुणेन शमेन च रहॊ चैवॊपचारेण भर्तारं पर्यतॊषयत ॥ 21 ॥

  22. एवं तत्राश्रमे तेषां तदा निवसतां सताम कालस तपस्यतां कश चिद अतिचक्राम अभारत ॥ 22 ॥

  23. सावित्र्यास तु शयानायास तिष्ठन्त्याश च दिवानिशम नारदेन यद उक्तं तद वाक्यं मनसि वर्तते ॥ 23 ॥

Reach this point to mark the section finished.

Continue to अध्याय 280

Previous: अध्याय 278