[मार्क] अथ मद्राधिपॊ राजा नारदेन समागतः उपविष्टः सभामध्ये कथा यॊगेन भारत ॥ 1 ॥
ततॊ ऽभिगम्य तीर्थानि सर्वाण्य एवाश्रमांस तथा आजगाम पितुर वेश्म सावित्री सह मन्त्रिभिः ॥ 2 ॥
नारदेन सहासीनं दृष्ट्वा सा पितरं शुभा उभयॊर एव शिरस चक्रे पादाभिवन्दनम ॥ 3 ॥
[नारद] कव गताभूत सुतेयं ते कुतश चैवागता नृप किमर्थं युवतीं भर्त्रे न चैनां संप्रयच्छसि ॥ 4 ॥
[अष्वपति] कार्येण खल्व अनेनैव परेषिताद्यैव चागता तद अस्याः शृणु देवर्षे भर्तारं यॊ ऽनया वृतः ॥ 5 ॥
[मार्क] सा बरूहि विस्तरेणेति पित्रा संचॊदिता शुभा दैवतस्येव वचनं परतिगृह्येदम अब्रवीत ॥ 6 ॥
आसीच छाल्वेषु धर्मात्मा कषत्रियः पृथिवीपतिः दयुमत्सेन इति खयातः पश्चाद अन्धॊ बभूव ह ॥ 7 ॥
विनष्ट चक्षुर अस तस्य बाल पुत्रस्य धीमतः सामीप्येन हृतं राज्यं छिद्रे ऽसमिन पूर्ववैरिणा ॥ 8 ॥
स बालवत्सया सार्धं भार्यया परस्थितॊ वनम महारण्यगतश चापि तपस तेपे महाव्रतः ॥ 9 ॥
तस्य पुत्रः पुरे जातः संवृद्धश च तपॊवने सत्यवान अनुरूपॊ मे भर्तेति मनसा वृतः ॥ 10 ॥
[नारद] अहॊ बत महत पापं सावित्र्या नृपते कृतम अजानन्त्या यद अनया गुणवान सत्यवान वृतः ॥ 11 ॥
सत्यं वदत्य अस्य पिता सत्यं माता परभाषते ततॊ ऽसय बराह्मणाश चक्रुर नामैतत सत्यवान इति ॥ 12 ॥
बालस्यावाः परियाश चास्य करॊत्य अश्वांश च मृन मयान चित्रे ऽपि च लिखत्य अश्वांश चित्राश्व इति चॊच्यते ॥ 13 ॥
[राजा] अपीदानीं स तेजस्वी बुद्धिमान वा नृपात्मजः कषमावान अपि वा शूरः सत्यवान पितृनन्दनः ॥ 14 ॥
[नारद] विवस्वान इव तेजस्वी बृहस्पतिसमॊ मतौ महेन्द्र इव शूरश च वसुधेव कषमान्वितः ॥ 15 ॥
[अष्वपति] अपि राजात्मजॊ दाता बरह्मण्यॊ वापि सत्यवान रूपवान अप्य उदारॊ वाप्य अथ वा परियदर्शनः ॥ 16 ॥
[नारद] साङ्कृते रन्तिदेवस्य स शक्त्या दानतः समः बरह्मण्यः सत्यवादी च शिबिर औशीनरॊ यथा ॥ 17 ॥
ययातिर इव चॊदारः सॊमवत परियदर्शनः रूपेणान्यतमॊ ऽशविभ्यां दयुमत्सेनसुतॊ बली ॥ 18 ॥
स दान्तः स मृदुः शूरः स सत्यः स जितेन्द्रियः स मैत्रः सॊ ऽनसूयश च स हरीमान धृतिमांश च सः ॥ 19 ॥
नित्यशश चार्जवं तस्मिन सथितिस तस्यैव च धरुवा संप्षेपतस तपॊवृद्धैः शीलवृद्धैश च कथ्यते ॥ 20 ॥
[अष्वपति] गुणैर उपेतं सर्वैस तं भगवन परब्रवीषि मे दॊषान अप्य अस्य मे बरूहि यदि सन्तीह के चन ॥ 21 ॥
[नारद] एकॊ दॊषॊ ऽसय नान्यॊ ऽसति सॊ ऽदय परभृति सत्यवान संवत्सरेण कषीणायुर देहन्यासं करिष्यति ॥ 22 ॥
[राजा] एहि सावित्रि गच्छ तवम अन्यं वरय शॊभने तस्य दॊषॊ महान एकॊ गुणान आक्रम्य तिष्ठति ॥ 23 ॥
यथा मे भगवान आह नारदॊ देवसत्कृतः संवत्सरेण सॊ ऽलपायुर देहन्यासं करिष्यति ॥ 24 ॥
[सावित्री] सकृद अंशॊ निपतति सकृत कन्या परदीयते सकृद आह ददानीति तरीण्य एतानि सकृत सकृत ॥ 25 ॥
दीर्घायुर अथ वाल्पायुः सगुणॊ निर्गुणॊ ऽपि वा सकृद वृतॊ मया भर्ता न दवितीयं वृणॊम्य अहम ॥ 26 ॥
मनसा निश्चयं कृत्वा ततॊ वाचाभिधीयते करियते कर्मणा पश्चात परमाणं मे मनस ततः ॥ 27 ॥
[नारद] सथिरा बुद्धिर नरश्रेष्ठ सावित्र्या दुहितुस तव नैषा चालयितुं शक्या धर्माद अस्मात कथंचनन ॥ 28 ॥
नान्यस्मिन पुरुषे सन्ति ये सत्यवति वै गुणाः परदानम एव तस्मान मे रॊचते दुहितुस तव ॥ 29 ॥
[राजा] अविचार्यम एतद उक्तं हि तथ्यं भगवता वचः करिष्याम्य एतद एवं च गुरुर हि भगवान मम ॥ 30 ॥
[नारद] अविघ्नम अस्तु सावित्र्याः परदाने दुहितुस तव साधयिष्यामहे तावत सर्वेषां भद्रम अस्तु वः ॥ 31 ॥
[मार्क] एवम उक्त्वा खम उत्पत्य नारदस तरिदिवं गतः राजापि दुहितुः सर्वं वैवाहिकम अकारयत ॥ 32 ॥
वनपर्व · Vana Parva
अध्याय 278
Reach this point to mark the section finished.
Continue to अध्याय 279