धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 277

  1. [य] नात्मानम अनुशॊचामि नेमान भरातॄन महामुने हरणं चापि राज्यस्य यथेमां दरुपदात्मजाम ॥ 1 ॥

  2. दयूते दुरात्मभिः कलिष्टाः कृष्णया तारिता वयम जयद्रथेन च पुनर वनाद अपहृता बलात ॥ 2 ॥

  3. अस्ति सीमन्तिनी का चिद दृष्टपूर्वाथ वा शरुता पतिव्रता महाभागा यथेयं दरुपदात्मजा ॥ 3 ॥

  4. [मार्क] शृणु राजन कुलस्त्रीणां महाभाग्यं युधिष्ठिर सर्वम एतद यथा पराप्तं सावित्र्या राजकन्यया ॥ 4 ॥

  5. आसीन मद्रेषु धर्मात्मा राजा परमधार्मिकः बरह्मण्यश च शरण्यश च सत्यसंधॊ जितेन्द्रियः ॥ 5 ॥

  6. यज्वा दानपतिर दक्षः पौरजानपद परियः पाथिवॊ ऽशवपतिर नाम सर्वभूतहिते रतः ॥ 6 ॥

  7. कषमावान अनपत्यश च सत्यवाग विजितेन्द्रियः अतिक्रान्तेन वयसा संतापम उपजग्मिवान ॥ 7 ॥

  8. अपत्यॊत्पादनार्थं स तीव्रं नियमम आस्थितः काले परिमिताहारॊ बरह्म चारी जितेन्द्रियः ॥ 8 ॥

  9. हुत्वा शतसहस्रं स सावित्र्या राजसत्तम षष्ठे षष्ठे तदा काले बभूव मित भॊजनः ॥ 9 ॥

  10. एतेन नियमेनासीद वर्षाण्य अष्टादशैव तु पूर्णे तव अष्टादशे वर्षे सावित्री तुष्टिम अभ्यगात सवरूपिणी तदा राजन दर्शयाम आस तं नृपम ॥ 10 ॥

  11. अग्निहॊत्रात समुत्थाय हर्षेण महतान्विता उवाच चैनं वरदा वचनं पार्थिवं तदा ॥ 11 ॥

  12. बरह्मचर्येण शुद्धेन दमेन नियमेन च सर्वात्मना च मद्भक्त्या तुष्टास्मि तव पार्थिव ॥ 12 ॥

  13. वरं वृणीष्वाश्वपते मद्रा राजयथेप्सितम न परमादश च धर्मेषु कर्तव्यस ते कथं चन ॥ 13 ॥

  14. [अष्वपति] अपत्यार्थः समारम्भः कृतॊ धर्मेप्सया मया पुत्रा मे बहवॊ देवि भवेयुः कुलभावनाः ॥ 14 ॥

  15. तुष्टासि यदि मे देवि कामम एतं वृणॊम्य अहम संतानं हि परॊ धर्म इत्य आहुर मां दविजातयः ॥ 15 ॥

  16. [सावित्री] पूर्वम एव मया राजन्न अभिप्रायम इमं तव जञात्वा पुत्रार्थम उक्तॊ वै तव हेतॊः पितामहः ॥ 16 ॥

  17. परसादाच चैव तस्मात ते सवयम्भुविहिताद भुवि कन्या तेजस्विनी सौम्य कषिप्रम एव भविष्यति ॥ 17 ॥

  18. उत्तरं च न ते किं चिद वयाहर्तव्यं कथं चन पितामह निसर्गेण तुष्टा हय एतद बरवीमि ते ॥ 18 ॥

  19. [मार्क] स तथेति परतिज्ञाय सावित्र्या वचनं नृपः परसादयाम आस पुनः कषिप्रम एवं भवेद इति ॥ 19 ॥

  20. अन्तर्हितायां सावित्र्यां जगाम सवगृहं नृपः सवराज्ये चावसत परीतः परजा धर्मेण पालयन ॥ 20 ॥

  21. कस्मिंश चित तु गते काले स राजा नियतव्रतः जयेष्ठायां धर्मचारिण्यां महिष्यां गर्भम आदधे ॥ 21 ॥

  22. राजपुत्र्यां तु गर्भः स मालव्यां भरतर्षभ वयवर्धत यथा शुक्ले तारापतिर इवाम्बरे ॥ 22 ॥

  23. पराप्ते काले तु सुषुवे कन्यां राजीवलॊचनाम करियाश च तस्या मुदितश चक्रे स नृपतिस तदा ॥ 23 ॥

  24. सावित्र्या परीतया दत्ता सावित्र्या हुतया हय अपि सावित्रीत्य एव नामास्याश चक्रुर विप्रास तथा पिता ॥ 24 ॥

  25. सा विग्रहवतीव शरीर वयवर्धत नृपात्मजा कालेन चापि सा कन्या यौवनस्था बभूव ह ॥ 25 ॥

  26. तां सुमध्यां पृथुश्रॊणीं परतिमां काञ्चनीम इव पराप्तेयं देवकन्येति दृष्ट्वा संमेनिरे जनाः ॥ 26 ॥

  27. तां तु पद्मपलाशाक्षीं जवलन्तीम इव तेजसा न कश चिद वरयाम आस तेजसा परतिवारितः ॥ 27 ॥

  28. अथॊपॊष्य शिरःस्नाता दैवतान्य अभिगम्य सा हुत्वाग्निं विधिवद विप्रान वाचयाम आस पर्वणि ॥ 28 ॥

  29. ततः सुमनसः शेषाः परतिगृह्य महात्मनः पितुः सकाशम अगमद देवी शरीर इव रूपिणी ॥ 29 ॥

  30. साभिवाद्य पितुः पादौ शेषाः पूर्वं निवेद्य च कृताञ्जलिर वरारॊहा नृपतेः पार्श्वतः सथिता ॥ 30 ॥

  31. यौवनस्थां तु तां दृष्ट्वा सवां सुतां देवरूपिणीम अयाच्यमानां च वरैर नृपतिर दुःखितॊ ऽभवत ॥ 31 ॥

  32. [राजा] पुत्रि परदानकालस ते न च कश चिद वृणॊति माम सवयम अन्विच्छ भर्तारं गुणैः सदृशम आत्मनः ॥ 32 ॥

  33. परार्थितः पुरुषॊ यश च स निवेद्यस तवया मम विमृश्याहं परदास्यामि वरय तवं यथेप्सितम ॥ 33 ॥

  34. शरुतं हि धर्मशास्त्रे मे पठ्यमानं दविजातिभिः तथा तवम अपि कल्याणि गदतॊ मे वचः शृणु ॥ 34 ॥

  35. अप्रदाता पिता वाच्यॊ वाच्यश चानुपयन पतिः मृते भर्तरि पुत्रश च वाच्यॊ मातुर अरक्षिता ॥ 35 ॥

  36. इदं मे वचनं शरुत्वा भर्तुर अन्वेषणे तवर देवतानां यथा वाच्यॊ न भवेयं तथा कुरु ॥ 36 ॥

  37. [मार्क] एवम उक्त्वा दुहितरं तथा वृद्धांश चमन्त्रिणः वयादिदेशानुयात्रं च गम्यताम इत्य अचॊदयत ॥ 37 ॥

  38. साभिवाद्य पितुः पादौ वरीडितेव मनस्विनी पितुर वचनम आज्ञाय निर्जगामाविचारितम ॥ 38 ॥

  39. सा हैमं रथम आस्थाय सथविरैः सचिवैर वृता तपॊवनानि रम्याणि राजर्षीणां जगाम अह ॥ 39 ॥

  40. मान्यानां तत्र वृद्धानां कृत्वा पादाभिवन्दनम वनानि करमशस तात सर्वाण्य एवाभ्यगच्छत ॥ 40 ॥

  41. एवं सर्वेषु तीर्थेषु धनॊत्सर्गं नृपात्मजा कुर्वती दविजमुख्यानां तं तं देशं जगाम अह ॥ 41 ॥

Reach this point to mark the section finished.

Continue to अध्याय 278

Previous: अध्याय 276