[मार्क] एवम एतन महाबाहॊ रामेणामिततेजसा पराप्तं वयसनम अत्युग्रं वनवास कृतं पुरा ॥ 1 ॥
मा शुचः पुरुषव्याघ्र कषत्रियॊ ऽसि परंतप बाहुवीर्याश्रये मार्गे वर्तसे दीप्तनिर्णये ॥ 2 ॥
न हि ते वृजिनं किं चिद दृश्यते परम अण्व अपि अस्मिन मार्गे विषीदेयुः सेन्द्रा अपि सुरासुराः ॥ 3 ॥
संहत्य निहतॊ वृत्रॊ मरुद्भिर वज्रपाणिना नमुचिश चैव दुर्धर्षॊ दीर्घजिह्वा च राक्षसी ॥ 4 ॥
सहायवति सर्वार्थाः संतिष्ठन्तीह सर्वशः किं नु तस्याजितं संख्ये भराता यस्य धनंजयः ॥ 5 ॥
अयं च बलिनां शरेष्ठॊ भीमॊ भीमपराक्रमः युवानौ च महेष्वासौ यमौ माद्रवतीसुतौ एभिः सहायैः कस्मात तवं विषीदसि परंतप ॥ 6 ॥
य इमे वज्रिणः सेनां जयेयुः समरुद्गणाम तवम अप्य एभिर महेष्वासैः सहायैर देवरूपिभिः विजेष्यसि रणे सर्वान अमित्रान भरतर्षभ ॥ 7 ॥
इतश च तवम इमां पश्य सैन्धवेन दुरात्मना बलिना वीर्यमत्तेन हृताम एभिर महात्मभिः ॥ 8 ॥
आनीतां दरौपदीं कृष्णां कृत्वा कर्म सुदुष्करम जयद्रथं च राजानं विजितं वशम आगतम ॥ 9 ॥
असहायेन रामेण वैदेही पुनर आहृता हत्वा संखे दशग्रीवं राक्षसं भीमविक्रमम ॥ 10 ॥
यस्य शाखामृगा मित्रा ऋक्षाः कालमुखास तथा जात्यन्तरगता राजन्न एतद बुद्ध्यानुचिन्तय ॥ 11 ॥
तस्मात तवं कुरुशार्दूल माशुचॊ भरतर्षभ तवद्विधा हि महात्मानॊ न शॊचन्ति परंतप ॥ 12 ॥
[वै] एवम आश्वासितॊ राजा मार्कण्डेयेन धीमता तयक्त्वा दुःखम अदीनात्मा पुनर एवेदम अब्रवीत ॥ 13 ॥
वनपर्व · Vana Parva
अध्याय 276
Reach this point to mark the section finished.
Continue to अध्याय 277