धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 275

  1. [मार्क] स हत्वा रावणं कषुद्रं राक्षसेन्द्रं सुरद्विषम बभूव हृष्टः ससुहृद रामः सौमित्रिणा सह ॥ 1 ॥

  2. ततॊ हते दशग्रीवे देवाः सर्षिपुरॊगमाः आशीर्भिर जय युक्ताभिर आनर्चुस तं महाभुजम ॥ 2 ॥

  3. रामं कमलपत्राक्षं तुष्टुवुः सर्वदेवताः गन्धर्वाः पुष्पवर्षैश च वाग भिश च तरिदशालयाः ॥ 3 ॥

  4. पूजयित्वा यथा रामं परतिजग्मुर यथागतम तन महॊत्सव संकाशम आसीद आकाशम अच्युत ॥ 4 ॥

  5. ततॊ हत्वा दशग्रीवं लङ्कां रामॊ मया यशाः विभीषणाय परददौ परभुः परपुरंजयः ॥ 5 ॥

  6. ततः सीतां पुरस्कृत्य विभीषणपुरस्कृताम अविन्ध्यॊ नाम सुप्रज्ञॊ वृद्धामात्यॊ विनिर्ययौ ॥ 6 ॥

  7. उवाच च महात्मानं काकुत्स्थं दैन्यम आस्थितम परतीच्छ देवीं सद्वृत्तां महात्मञ जानकीम इति ॥ 7 ॥

  8. एतच छरुत्वा वचस तस्माद अवतीर्य रथॊत्तमात बाष्पेणापिहितां सीतां ददर्शेक्ष्वाकुनन्दनः ॥ 8 ॥

  9. तां दृष्ट्वा चारुसर्वाङ्गीं जटिलां कृष्णवाससम मलॊपचितसर्वाङ्गीं जटिलां कृष्णवाससम ॥ 9 ॥

  10. उवाच रामॊ वैदेहीं परामर्शविशङ्कितः गच्छ वैदेहि मुक्ता तवं यत कार्यं तन मया कृतम ॥ 10 ॥

  11. माम आसाद्य पतिं भद्रे न तवं राक्षस वेश्मनि जरां वरजेथा इति मे निहतॊ ऽसौ निशाचरः ॥ 11 ॥

  12. कथं हय अस्मद्विधॊ जातु जानन धर्मविनिश्चयम परहस्तगतां नारीं मुहूर्तम अपि धारयेत ॥ 12 ॥

  13. सुवृत्ताम असुवृत्तां वाप्य अहं तवाम अद्य मैथिलि नॊत्सहे परिभॊगाय शवावलीढं हविर यथा ॥ 13 ॥

  14. ततः सा सहसा बाला तच छरुत्वा दारुणं वचः पपात देवी वयथिता निकृत्ता कदली यथा ॥ 14 ॥

  15. यॊ हय अस्या हर्षसंभूतॊ मुखरागस तदाभवत कषणेन स पुनर भरष्टॊ निःश्वासाद इव दर्पणे ॥ 15 ॥

  16. ततस ते हरयः सर्वे तच छरुत्वा राम भाषितम गतासुकल्पा निश्चेष्टा बभूवुः सह लक्ष्मणाः ॥ 16 ॥

  17. ततॊ देवॊ विशुद्धात्मा विमानेन चतुर्मुखः पितामहॊ जगत सरष्टा दर्शयाम आस राघवम ॥ 17 ॥

  18. शक्रश चाग्निश च वायुश च यमॊ वरुण एव च यक्षाधिपश च भगवांस तथा सप्तर्षयॊ ऽमलाः ॥ 18 ॥

  19. राजा दशरथश चैव दिव्यभास्वरमूर्तिमान विमानेन महार्हेण हंसयुक्तेन भास्वता ॥ 19 ॥

  20. ततॊ ऽनतरिक्षं तत सर्वं देवगन्धर्वसंकुलम शुशुभे तारका चित्रं शरदीव नभस्तलम ॥ 20 ॥

  21. तत उत्थाय वैदेहि तेषां मध्ये यशस्विनी उवाच वाक्यं कल्याणी रामं पृथुल वक्षसम ॥ 21 ॥

  22. राजपुत्र न ते कॊपं करॊमि विदिता हि मे गतिः सत्रीणां नराणां च शृणु चेदं वचॊ मम ॥ 22 ॥

  23. अन्तश चरति भूतानां मातरिश्वा सदागतिः स मे विमुञ्चतु पराणान यदि पापं चराम्य अहम ॥ 23 ॥

  24. अगिर आपस तथाकाशं पृथिवी वायुर एव च विमुञ्चन्तु मम पराणान यदि पापं चराम्य अहम ॥ 24 ॥

  25. ततॊ ऽनतरिक्षे वाग आसीत सर्वा विश्रावयन दिशः पुण्या संहर्षणी तेषां वानराणां महात्मनाम ॥ 25 ॥

  26. [वायु] भॊ भॊ राघव सत्यं वै वायुर अस्मि सदागतिः अपापा मैथिली राजन संगच्छ सह भार्यया ॥ 26 ॥

  27. [अग्निर] अहम अन्तः शरीरस्थॊ भूतानां रघुनन्दन सुसूक्ष्मम अपि काकुत्स्थ मैथिली नापराध्यति ॥ 27 ॥

  28. [वरुण] रसा वै मत्प्रसूता हि भूतदेहेषु राघव अहं वै तवां परब्रवीमि मैथिली परतिगृह्यताम ॥ 28 ॥

  29. [बरह्मा] पुत्र नैतद इहाश्चर्यं तवयि राजर्षिधर्मिणि साधॊ सद्वृत्तमार्गस्थे शृणु चेदं वचॊ मम ॥ 29 ॥

  30. शत्रुर एष तवया वीर देवगन्धर्वभॊगिनाम यक्षाणां दानवानां च महर्षीणां च पातितः ॥ 30 ॥

  31. अवध्यः सर्वभूतानां मत्प्रसादात पुराभवत कस्माच चित कारणात पापः कं चित कालम उपेक्षितः ॥ 31 ॥

  32. वधार्थम आत्मनस तेन हृता सीता दुरात्मना नलकूबर शापेन रक्षा चास्याः कृता मया ॥ 32 ॥

  33. यदि हय अकामाम आसेवेत सत्रियम अन्याम अपि धरुवम शतधास्य फलेद देह इत्य उक्तः सॊ ऽभवत पुरा ॥ 33 ॥

  34. नात्र शङ्का तवया कार्या परतीछेमां महाद्युते कृतं तवया महत कार्यं देवानाम अमरप्रभ ॥ 34 ॥

  35. [दषरथ] परीतॊ ऽसमि वत्स भद्रं ते पिता दरशथॊ ऽसमि ते अनुजानामि राज्यं च परशाधि पुरुषॊत्तम ॥ 35 ॥

  36. [राम] अभिवादये तवां राजेन्द्र यदि तवं जनकॊ मम गमिष्यामि पुरीं रम्याम अयॊध्यां शासनात तव ॥ 36 ॥

  37. [मार्क] तम उवाच पिता भूयॊ परहृष्टॊ मनुजाधिप गच्छायॊध्यां परशाधि तवं राम रक्तान्तलॊचन ॥ 37 ॥

  38. ततॊ देवान नमस्कृत्य सुहृद्भिर अभिनन्दितः महेन्द्र इव पौलॊम्या भार्यया स समेयिवान ॥ 38 ॥

  39. ततॊ वरं ददौ तस्मै अविन्ध्याय परंतपः तरिजटां चार्थमानाभ्यां यॊजयाम आस राक्षसीम ॥ 39 ॥

  40. तम उवाच ततॊ बरह्मा देवैः शक्र मुखैर वृतः कौसल्या मातर इष्टांस ते वरान अद्य ददानि कान ॥ 40 ॥

  41. वव्रे रामः सथितिं धर्मे शत्रुभिश चापराजयम राक्षसैर निहतानां च वानराणां समुद्भवम ॥ 41 ॥

  42. ततस ते बरह्मणा परॊक्ते तथेति वचने तदा समुत्तस्थुर महाराज वानरा लब्धचेतसः ॥ 42 ॥

  43. सिता चापि महाभागा वरं हनुमते ददौ राम कीर्त्या समं पुत्र जीवितं ते भविष्यति ॥ 43 ॥

  44. दिव्यास तवाम उपभॊगाश च मत्प्रसाद कृताः सदा उपस्थास्यन्ति हनुमन्न इति सम हरिलॊचन ॥ 44 ॥

  45. ततस ते परेक्षमाणानां तेषाम अक्लिष्टकर्मणाम अन्तर्धानं ययुर देवाः सर्वे शक्रपुरॊगमाः ॥ 45 ॥

  46. दृष्ट्वा तु रामं जानक्या समेतं शक्रसारथिः उवाच परमप्रीतः सुहृन्मध्य इदं वचः ॥ 46 ॥

  47. देवगन्धर्वयक्षाणां मानुषासुरभॊगिनाम अपनीतं तवया दुःखम इदं सत्यपराक्रम ॥ 47 ॥

  48. सदेवासुरगन्धर्वा यक्षराक्षस पन्नगाः कथयिष्यन्ति लॊकास तवां यावद भूमिर धरिष्यति ॥ 48 ॥

  49. इत्य एवम उक्त्वानुज्ञाप्य रामं शस्त्रभृतां वरम संपूज्यापाक्रमत तेन रथेनादित्यवर्चसा ॥ 49 ॥

  50. ततः सीतां पुरस्कृत्य रामः सौमित्रिणा सह सुग्रीव परमुखैर्श चैव सहितः सर्ववानरैः ॥ 50 ॥

  51. विधाय रक्षां लङ्कायां विभीषणपुरस्कृतः संततार पुनस तेन सेतुना मकरालयम ॥ 51 ॥

  52. पुष्पकेण विमानेन खेचरेण विराजता कामगेन यथामुख्यैर अमात्यैः संवृतॊ वशी ॥ 52 ॥

  53. ततस तीरे समुद्रस्य यत्र शिश्ये स पार्थिवः तत्रैवॊवास धर्मात्मा सहितः सर्ववानरैः ॥ 53 ॥

  54. अथैनां राघवः काले समानीयाभिपूज्य च विसर्जयाम आस तदा रत्नैः संतॊष्य सर्वशः ॥ 54 ॥

  55. गतेषु वानरेन्द्रेषु गॊपुच्छर्क्षेषु तेषु च सुग्रीवसहितॊ रामः किष्किन्धां पुनर आगमत ॥ 55 ॥

  56. विभीषणेनानुगतः सुग्रीवसहितस तदा पुष्पकेण विमानेन वैदेह्या दर्शयन वनम ॥ 56 ॥

  57. किष्किन्धां तु समासाद्य रामः परहरतां वरः अङ्गदं कृतकर्माणं यौव राज्ये ऽभिषेचयत ॥ 57 ॥

  58. ततस तैर एव सहितॊ रामः सौमित्रिणा सह यथागतेन मार्गेण परययौ सवपुरं परति ॥ 58 ॥

  59. अयॊध्यां स समासाद्य पुरीं राष्ट्रपतिस ततः भरताय हनूमन्तं दूतं परस्थापयत तदा ॥ 59 ॥

  60. लक्षयित्वेङ्गितं सर्वं परियं तस्मै निवेद्य च वायुपुत्रे पुनः पराप्ते नन्दिग्रामम उपागमत ॥ 60 ॥

  61. स तत्र मलदिग्धाङ्गं भरतं चीरवाससम अग्रतः पादुके कृत्वा ददर्शासीनम आसने ॥ 61 ॥

  62. समेत्य भरतेनाथ शत्रुघ्नेन च वीर्यवान राघवः सह सौमित्रिर मुमुदे भरत रषभ ॥ 62 ॥

  63. तथा भरतशत्रुघ्नौ समेतौ गुरुणा तदा वैदेह्या दर्शनेनॊभौ परहर्षं समवापतुः ॥ 63 ॥

  64. तस्मै तद भरतॊ राज्यम आगतायाभिसत्कृतम नयासं निर्यातयाम आस युक्तः परमया मुदा ॥ 64 ॥

  65. ततस तं वैष्णवं शूरं नक्षत्रे ऽभिमते ऽहनि वसिष्ठॊ वामदेवश च सहिताव अभ्यषिञ्चताम ॥ 65 ॥

  66. सॊ ऽभिषिक्तः कपिश्रेष्ठं सुग्रीवं ससुहृज्जनम विभीषणं च पौलस्त्यम अन्वजानाद गृहान परति ॥ 66 ॥

  67. अभ्यर्च्य विविधै रत्नैः परीतियुक्तौ मुदा युतौ समाधायेतिकर्तव्यं दुःखेन विससर्ज ह ॥ 67 ॥

  68. पुष्पकं च विमानं तत पूजयित्वा सराघवः परादाद वैश्रवणायैव परीत्या स रघुनन्दनः ॥ 68 ॥

  69. ततॊ देवर्षिसहितः सरितं गॊमतीम अनु दशाश्वमेधान आजह्रे जारूथ्यान स निरर्गलान ॥ 69 ॥

Reach this point to mark the section finished.

Continue to अध्याय 276

Previous: अध्याय 274