[मार्क] ततः करुद्धॊ दशग्रीवः परियपुत्रे निपातिते निर्ययौ रथम आस्थाय हेमरत्नविभूषितम ॥ 1 ॥
संवृतॊ राक्षसैर घॊरैर विविधायुधपाणिभिः अभिदुद्राव रामं स पॊथयन हरियूथपान ॥ 2 ॥
तम आद्रवन्तं संक्रुद्धं मैन्द नीलनलाङ्गदाः हनूमाञ जाम्बुवांश चैव ससैन्याः पर्यवारयन ॥ 3 ॥
ते दशग्रीव सैन्यं तद ऋक्षवानरयूथपाः दरुमैर विध्वंसयां चक्रुर दशग्रीवस्य पश्यतः ॥ 4 ॥
ततः सवसैन्यम आलॊक्य वध्यमानम अरातिभिः मायावी वयदधान मायां रावणॊ राक्षसेश्वरः ॥ 5 ॥
तस्य देहाद विनिष्क्रान्ताः शतशॊ ऽथ सहस्रशः राक्षसाः पत्यदृश्यन्त शरशक्त्यृष्टिपाणयः ॥ 6 ॥
तान रामॊ जघ्निवान सर्वान दिव्येनास्त्रेण राक्षसान अथ भूयॊ ऽपि मायां स वयदधाद राक्षसाधिपः ॥ 7 ॥
कृत्वा रामस्य रूपाणि लक्ष्मणस्य च भारत अभिदुद्राव रामं च लक्ष्मणं च दशाननः ॥ 8 ॥
ततस ते रामम अर्छन्तॊ लक्ष्मणं च कषपाचराः अभिपेतुस तदा राजन परगृहीतॊच्च कार्मुकाः ॥ 9 ॥
तां दृष्ट्वा राक्षसेन्द्रस्य मायाम इक्ष्वाकुनन्दनः उवाच रामं सौमित्रिर असंभ्रान्तॊ बृहद वचः ॥ 10 ॥
जहीमान राक्षसान पापान आत्मनः परतिरूपकान जघान रामस तांश चान्यान आत्मनः परतिरूपकान ॥ 11 ॥
ततॊ हर्यश्व युक्तेन रथेनादित्यवर्चसा उपतस्थे रणे रामं मातलिः शक्रसारथिः ॥ 12 ॥
[मातलि] अयं हर्यश्व युग जैत्रॊ मघॊनः सयन्दनॊत्तमः अनेन शक्रः काकुत्स्थ समरे दैत्यदानवान शतशः पुरुषव्याघ्र रथॊदारेण जघ्निवा ॥ 13 ॥
तद अनेन नरव्याघ्र मया यत तेन संयुगे सयन्दनेन जहि कषिप्रं रावणं माचिरं कृथाः ॥ 14 ॥
इत्य उक्तॊ राघवस तथ्यं वचॊ ऽशङ्कत मातलेः मायेयं राक्षसस्येति तम उवाच विभीषणः ॥ 15 ॥
नेयं माया नरव्याघ्र रावणस्य दुरात्मनः तद आतिष्ठ रथं शीघ्रम इमम ऐन्द्रं महाद्युते ॥ 16 ॥
ततः परहृष्टः काकुत्स्थस तथेत्य उक्त्वा विभीषणम रथेनाभिपपाताशु दशग्रीवं रुषान्वितः ॥ 17 ॥
हाहाकृतानि भूतानि रावणे समभिद्रुते सिंहनादाः सपटहा दिवि दिव्याश च नानदन ॥ 18 ॥
स रामाय महाघॊरं विससर्ज निशाचरः शूलम इन्द्राशनिप्रख्यं बरह्मदण्डम इवॊद्यतम ॥ 19 ॥
तच छूलम अन्तरा रामश चिच्छेद निशितैः शरैः तद दृष्ट्वा दुष्करं कर्म रावणं भयम आविशत ॥ 20 ॥
ततः करुद्धः ससर्जाशु दशग्रीवः शिताञ शरान सहस्रायुतशॊ रामे शस्त्राणि विविधानि च ॥ 21 ॥
ततॊ भुशुण्डीः शूलांश च मुसलानि परश्वधान शक्तीश च विविधाकाराः शतघ्नीश च शितक्षुराः ॥ 22 ॥
तां मायां विकृतां दृष्ट्वा दशग्रीवस्य रक्षसः भयात परदुद्रुवुः सर्वे वानराः सर्वतॊदिशम ॥ 23 ॥
ततः सुपत्रं सुमुखं हेमपुङ्खं शरॊत्तमम तूणाद आदाय काकुत्स्थॊ बरह्मास्त्रेण युयॊज ह ॥ 24 ॥
तं बाणवर्यं रामेण बरह्मास्त्रेणाभिमन्त्रितम जहृषुर देवगन्धर्वा दृष्ट्वा शक्रपुरॊगमाः ॥ 25 ॥
अल्पावशेषम आयुश च ततॊ ऽमन्यन्त रक्षसः बरह्मास्त्रॊदीरणाच छत्रॊर देवगन्धर्वकिंनराः ॥ 26 ॥
ततः ससर्ज तं रामः शरम अप्रतिम ओजसम रावणान्त करं घॊरं बरह्मदण्डम इवॊद्यतम ॥ 27 ॥
स तेन राक्षसश्रेष्ठः सरथः साश्वसारथिः परजज्वाल मजा जवालेनाग्निनाभिपरिष्कृतः ॥ 28 ॥
ततः परहृष्टास तरिदशाः सगन्धर्वाः सचारणाः निहतं रावणं दृष्ट्वा रामेणाक्लिष्टकर्मणा ॥ 29 ॥
तत्यजुस तं महाभागं पञ्च भूतानि रावणम भरंशितः सर्वलॊकेषु स हि बरह्मास्त तेजसा ॥ 30 ॥
शरीरधातवॊ हय अस्य मांसं रुधिरम एव च नेशुर बरह्मास्त्र निर्दग्धा न च भस्माप्य अदृश्यत ॥ 31 ॥
वनपर्व · Vana Parva
अध्याय 274
Reach this point to mark the section finished.
Continue to अध्याय 275