[मार्क] ताव उभौ पतितौ दृष्ट्वा भरातराव अमितौजसौ बबन्ध रावणिर भूयॊ शरैर दत्तवरैस तदा ॥ 1 ॥
तौ वीरौ शरजालेन बद्धाव इन्द्रजिता रणे रेजतुः पुरुषव्याघ्रौ शकुन्ताव इव पञ्जरे ॥ 2 ॥
तौ दृष्ट्वा पतितौ भूमौ शतशः सायकैश चितौ सुग्रीवः कपिभिः सार्धं परिवार्य ततः सथितः ॥ 3 ॥
सुषेण मैन्दद्विविदैः कुमुदेनाङ्गदेन च हनूमन नीलतारैश च नलेन च कपीश्वरः ॥ 4 ॥
ततस तं देशम आगम्य कृतकर्मा विभीषणः बॊधयाम आस तौ वीरौ परज्ञास्त्रेण परबॊधितौ ॥ 5 ॥
विशल्यौ चापि सुग्रीवः कषणेनॊभौ चकार तौ विशल्यया महौषध्या दिव्यमन्त्रप्रयुक्तया ॥ 6 ॥
तौ लब्धसंज्ञौ नृवरौ विशल्याव उदतिष्ठताम गततन्द्री कलमौ चास्तां कषणेनॊभौ महारथौ ॥ 7 ॥
ततॊ विभीषणः पार्थ रामम इक्ष्वाकुनन्दनम उवाच विज्वरं दृष्ट्वा कृताञ्जलिर इदं वचः ॥ 8 ॥
अयम अम्भॊ गृहीत्वा तु राजराजस्य शासनात गुह्यकॊ ऽभयागतः शवेतात तवत्सकाशम अरिंदम ॥ 9 ॥
इदम अम्भॊ कुबेरस ते महाराजः परयच्छति अन्तर्हितानां भूतानां दर्शनार्थं परंतप ॥ 10 ॥
अनेन सपृष्टनयनॊ भूतान्य अन्तर्हितान्य उत भवान दरक्ष्यति यस्मै च भवान एतत परदास्यति ॥ 11 ॥
तथेति रामस तद वारि परतिगृह्याथ सत्कृतम चकार नेत्रयॊः शौचं लक्ष्मणश च महामनाः ॥ 12 ॥
सुग्रीव जाम्बवन्तौ च हनूमान अङ्गदस तथा मैन्दद्विविद नीलाश च परायॊ परवगसत्तमाः ॥ 13 ॥
तथा समभवच चापि यद उवाच विभीषणः कषणेनातीन्द्रियाण्य एषां चक्षूंष्य आसन युधिष्ठिर ॥ 14 ॥
इन्द्रजित कृतकर्मा तु पित्रे कर्म तदात्मनः निवेद्य पुनर आगच्छत तवयराजि शिरॊ परति ॥ 15 ॥
तम आपतन्तं संक्रुद्धं पुनर एव युयुत्सया अभिदुद्राव सौमित्रिर विभीषण मते सथितः ॥ 16 ॥
अकृताह्निकम एवैनं जिघांसुर जितकाशिनम शरैर जघान संक्रुद्धः कृतसंज्ञॊ ऽथ लक्ष्मणः ॥ 17 ॥
तयॊः समभवद युद्धं तदान्यॊन्यं जिगीषतॊः अतीव चित्रम आश्चर्यं शक्र परह्लादयॊर इव ॥ 18 ॥
अविध्यद इन्द्रजित तीक्ष्णैः सौमित्रिं मर्मभेदिभिः सौमित्रिश चानल सपर्शैर अविध्यद रावणिं शरैः ॥ 19 ॥
सौमित्रिशरसंस्पर्शाद रावणिः करॊधमूर्छितः असृजल लक्ष्मणायाष्टौ शरान आशीविषॊपमान ॥ 20 ॥
तस्यासून पावकस्पर्शैः सौमित्रिः पत्रिभिस तरिभिः यथा निरहरद वीरस तन मे निगदतः शृणु ॥ 21 ॥
एकेनास्य धनुर मन्तं बाहुं देहाद अपातयत दवितीयेन सनाराचं भुजं भूमौ नयपातयत ॥ 22 ॥
तृतीयेन तु बाणेन पृथु धारेण भास्वता जहार सुनसं चारु शिरॊ भराजिष्णु कुण्डलम ॥ 23 ॥
विनिकृत्तभुजस्कन्धं कबन्धं भीमदर्शनम तं हत्वा सूतम अप्य अस्त्रैर जघान बलिनां वरः ॥ 24 ॥
लङ्कां परवेशयाम आसुर वाजिनस तं रथं तदा ददर्श रावणस तं च रथं पुत्र विनाकृतम ॥ 25 ॥
सपुत्रं निहतं दृष्ट्वा तरासात संभ्रान्तलॊचनः रावणः शॊकमॊहार्तॊ वैदेहीं हन्तुम उद्यतः ॥ 26 ॥
अशॊकवनिकास्थां तां रामदर्शनलालसाम खड्गम आदाय दुष्टात्मा जवेनाभिपपात ह ॥ 27 ॥
तं दृष्ट्वा तस्य दुर्बुद्धेर अविन्ध्यः पापनिश्चयम शमयाम आस संक्रुद्धं शरूयतां येन हेतुना ॥ 28 ॥
महाराज्ये सथितॊ दीप्ते न सत्रियं हन्तुम अर्हसि हतैवैषा यदा सत्री च बन्धनस्था च ते गृहे ॥ 29 ॥
न चैषा देहभेदेन हता सयाद इति मे मतिः जहि भर्तारम एवास्या हते तस्मिन हता भवेत ॥ 30 ॥
न हि ते विक्रमे तुल्यः साक्षाद अपि शतक्रतुः असकृद धि तवया सेन्द्रास तरासितास तरिदशा युधि ॥ 31 ॥
एवं बहुविधैर वाक्यैर अविन्ध्यॊ रावणं तदा करुद्धं संशमयाम आस जगृहे च स तद वचः ॥ 32 ॥
निर्याणे स मतिं कृत्वा निधायासिं कषपाचरः आज्ञापयाम आस तदा रथॊ मे कल्प्यताम इति ॥ 33 ॥
वनपर्व · Vana Parva
अध्याय 273
Reach this point to mark the section finished.
Continue to अध्याय 274