धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 271

  1. [मार्क] ततॊ विनिर्याय पुरात कुम्भकर्णः सहानुगः अपश्यत कपिसैन्यं तज जितकाश्य अग्रतः सथितम ॥ 1 ॥

  2. तम अभ्येत्याशु हरयः परिवार्य समन्ततः अभ्यघ्नंश च महाकायैर बहुभिर जगती रुहैः करजैर अतुदंश चान्ये विहाय भयम उत्तमम ॥ 2 ॥

  3. बहुधा युध्यमानास ते युद्धमार्गैः पलवंगमाः नानाप्रहरणैर भीमं राक्षसेन्द्रम अताडयन ॥ 3 ॥

  4. स ताड्यमानः परहसन भक्षयाम आस वानरान पनसं च गवाक्षं च वज्रबाहुं च वानरम ॥ 4 ॥

  5. तद दृष्ट्वा वयथनं कर्म कुम्भकर्णस्य रक्षसः उदक्रॊशन परित्रस्तास तारप्रभृतयस तदा ॥ 5 ॥

  6. तं तारम उच्चैः करॊशन्तम अन्यांश च हरियूथपान अभिदुद्राव सुग्रीवः कुम्भकर्णम अपेतभीः ॥ 6 ॥

  7. ततॊ ऽभिपत्य वेगेन कुम्भकर्णं महामनाः शालेन जघ्निवान मूर्ध्नि बलेन कपिकुञ्जरः ॥ 7 ॥

  8. स महात्मा महावेगः कुम्भकर्णस्य मूर्धनि बिभेद शालं सुग्रीवॊ न चैवाव्यथयत कपिः ॥ 8 ॥

  9. ततॊ विनद्य परहसञ शालस्पर्श विबॊधिथ दॊर्भ्याम आदाय सुग्रीवं कुम्भकर्णॊ ऽहरद बलात ॥ 9 ॥

  10. हरियमाणं तु सुग्रीवं कुम्भकर्णेन रक्षसा अवेक्ष्याभ्यद्रवद वीरः सौमित्रिर मित्रनन्दनः ॥ 10 ॥

  11. सॊ ऽभिपत्य महावेगं रुक्मपुङ्खं महाशरम पराहिणॊत कुम्भकर्णाय लक्ष्मणः परवीरहा ॥ 11 ॥

  12. स तस्य देवावरणं भित्त्वा देहं च सायकः जगाम दारयन भूमिं रुधिरेण समुक्षितः ॥ 12 ॥

  13. तथा स भिन्नहृदयः समुत्सृज्य कपीश्वरम कुम्भकर्णॊ महेष्वासः परगृहीतशिलायुधः अभिदुद्राव सौमित्रिम उद्यम्य महतीं शलाम ॥ 13 ॥

  14. तस्याभिद्रवतस तूर्णं कषुराभ्याम उच्छ्रितौ करौ चिच्छेद निशिताग्राभ्यां स बभूव चतुर्भुजः ॥ 14 ॥

  15. तान अप्य अस्य भुजान सर्वान परगृहीतशिलायुधान कषुरैश चिच्छेद लघ्व अस्त्रं सौमित्रिः परतिदर्शयन ॥ 15 ॥

  16. स बभूवातिकायाश च बहु पादशिरॊ भुजः तं बरह्मास्त्रेण सौमित्रिर ददाहाद्रिचयॊपमम ॥ 16 ॥

  17. स पपात महावीर्यॊ दिव्यास्त्राभिहतॊ रणे महाशनि विनिर्दग्धः पापपॊ ऽङकुरवान इव ॥ 17 ॥

  18. तं दृष्ट्वा वृत्र संकाशं कुम्भकर्णं तरस्विनम गतासुं पतितं भूमौ राक्षसाः पराद्रवन भयात ॥ 18 ॥

  19. तथा तान्द रवतॊ यॊधान दृष्ट्वा तौ दूषणानुजौ अवस्थाप्याथ सौमित्रिं संक्रुद्धाव अभ्यधावताम ॥ 19 ॥

  20. ताव आद्रवन्तौ संक्रुद्धॊ वज्रवेगप्रमाथिनौ परतिजग्राह सौमित्रिर विनद्यॊभौ पतत्रिभिः ॥ 20 ॥

  21. ततः सुतुमुलं युद्धम अभवल लॊमहर्षणम दूषणानुजयॊः पार्थ लक्ष्मणस्य च धीमतः ॥ 21 ॥

  22. महता शरवर्षेण राक्षसौ सॊ ऽभयवर्षत तौ चापि वीरौ संक्रुद्धाव उभौ तौ समवर्षताम ॥ 22 ॥

  23. मुहूर्तम एवम अभवद वज्रवेगप्रमाथिनॊः सौमित्रेश च महाबाहॊः संप्रहारः सुदारुणः ॥ 23 ॥

  24. अथाद्रिशृङ्गम आदाय हनूमान मारुतात्मजः अभिद्रुत्याददे पराणान वज्रवेगस्य रक्षसः ॥ 24 ॥

  25. नीलश च महता गराव्णा दूषणावरजं हरिः परमाथिनम अभिद्रुत्य परममाथ महाबलः ॥ 25 ॥

  26. ततः परावर्तत पुनः संग्रामः कटुकॊदयः रामरावण सैन्यानाम अन्यॊन्यम अभिधावताम ॥ 26 ॥

  27. शतशॊ नैरृतान वन्या जघ्नुर वन्यांश च नैरृताः नैरृतास तत्र वध्यन्ते परायशॊ न तु वानराः ॥ 27 ॥

Reach this point to mark the section finished.

Continue to अध्याय 272

Previous: अध्याय 270