[मार्क] ततः परहस्तः सहसा समभ्येत्य विभीषणम गदया ताडयाम आस विनद्य रणकर्वशः ॥ 1 ॥
स तयाभिहतॊ धीमान गदया भीमवेगया नाकम्पत महाबाहुर हिमवान इव सुस्थिरः ॥ 2 ॥
ततः परगृह्य विपुलां शतघण्टां विभीषणः अभिमन्त्र्य महाशक्तिं चिक्षेपास्य शिरॊ परति ॥ 3 ॥
पतन्त्या स तया वेगाद राक्षसाशनि नादया हृतॊत्तमाङ्गॊ ददृशे वातरुग्ण इव दरुमः ॥ 4 ॥
तं दृष्ट्वा निहतं संख्ये परहस्तं कषणदाचरम अभिदुद्राव धूम्राक्षॊ वेगेन महता कपीन ॥ 5 ॥
तस्य मेघॊपमं सैन्यम आपतद भीमदर्शनम दृष्ट्वैव सहसा दीर्णा रणे वानरपुंगवाः ॥ 6 ॥
ततस तान सहसा दीर्णान दृष्ट्वा वानरपुंगवान निर्याय कपिशार्दूलॊ हनूमान पर्यवस्थितः ॥ 7 ॥
तं दृष्ट्वावस्थितं संख्ये हरयः पवनात्मजम वेगेन महता राजन संन्यवर्तन्त सर्वशः ॥ 8 ॥
ततः शब्दॊ महान आसीत तुमुलॊ लॊमहर्षणः रामरावण सैन्यानाम अन्यॊन्यम अभिधावताम ॥ 9 ॥
तस्मिन परवृत्ते संग्रामे घॊरे रुधिरकर्दमे धूम्राक्षः कपिसैन्यं तद दरावयाम आस पत्रिभिः ॥ 10 ॥
तं राक्षस महामात्रम आपतन्तं सपत्नजित तरसा परतिजग्राह हनूमान पवनात्मजः ॥ 11 ॥
तयॊर युद्धम अभूद घॊरं हरिराक्षसवीरयॊः जिगीषतॊर युधान्यॊन्यम इन्द्र परह्लादयॊर इव ॥ 12 ॥
गदाभिः परिघैश चैव राक्षसॊ जघ्निवान कपिम कपिश च जघ्निवान रक्षॊ सस्कन्धविटपैर दरुमैः ॥ 13 ॥
ततस तम अतिकायेन साश्वं सरथ सारथिम धूम्राक्षम अवधीद धीमान हनूमान मारुतात्मजः ॥ 14 ॥
ततस तं निहतं दृष्ट्वा धूम्राक्षं राक्षसॊत्तमम हरयॊ जातविस्रम्भा जघ्नुर अभ्येत्य सैनिकान ॥ 15 ॥
ते वध्यमाना बलिभिर हरिभिर जितकाशिभिः राक्षसा भग्नसंकल्पा लङ्काम अभ्यपतद भयात ॥ 16 ॥
ते ऽभिपत्य पुरं भग्ना हतशेषा निशाचराः सर्वं राज्ञे यथावृत्तं रावणाय नयवेदयन ॥ 17 ॥
शरुत्वा तु रावणस तेभ्यः परहस्तं निहतं युधि धूम्राक्षं च महेष्वासं ससैन्यं वानरर्षभैः ॥ 18 ॥
सुदीर्घम इव निःश्वस्य समुत्पत्य वरासनात उवाच कुम्भकर्णस्य कर्मकालॊ ऽयम आगतः ॥ 19 ॥
इत्य एवम उक्त्वा विविधैर वादित्रैः सुमहास्वनैः शयानम अतिनिद्रालुं कुम्भकर्णम अबॊधयत ॥ 20 ॥
परबॊध्य महता चैनं यत्नेनागत साध्वसः सवस्थम आसीनम अव्यग्रं विनिद्रं राक्षसाधिपः ततॊ ऽबरवीद दशग्रीवः कुम्भकर्णं महाबलम ॥ 21 ॥
धन्यॊ ऽसि यस्य ते निद्रा कुम्भकर्णेयम ईदृशी य इमं दारुणं कालं न जानीषे महाभयम ॥ 22 ॥
एष तीर्त्वार्णवं रामः सेतुना हरिभिः सह अवमन्येह नः सर्वान करॊति कदनं महत ॥ 23 ॥
मया हय अपहृता भार्या सीता नामास्य जानकी तां मॊक्षयिषुर आयातॊ बद्ध्वा सेतुं महार्णवे ॥ 24 ॥
तेन चैव परहस्तादिर महान्नः सवजनॊ हतः तस्य नान्यॊ निहन्तास्ति तवदृते शत्रुकर्शन ॥ 25 ॥
स दंशितॊ ऽभिनिर्याय तवम अद्य बलिनां वर रामादीन समरे सर्वाञ जहि शत्रून अरिंदम ॥ 26 ॥
दूषणावरजौ चैव वज्रवेगप्रमाथिनौ तौ तवां बलेन महता सहिताव अनुयास्यतः ॥ 27 ॥
इत्य उक्त्वा राक्षसपतिः कुम्भकर्णं तरस्विनम संदिदेशेतिकर्तव्ये वज्रवेगप्रमाथिनौ ॥ 28 ॥
तथेत्य उक्त्वा तु तौ वीरौ रावणं दूषणानुजौ कुम्भकर्णं पुरस्कृत्य तूर्णं निर्ययतुः पुरात ॥ 29 ॥
वनपर्व · Vana Parva
अध्याय 270
Reach this point to mark the section finished.
Continue to अध्याय 271