[मार्क] ततॊ निविशमानांस तान सैनिकान रावणानुगाः अभिजग्मुर गणान एके पिशाचक्षुद्ररक्षसाम ॥ 1 ॥
पर्वणः पूतनॊ जम्भः खरः करॊधवशॊ हरिः पररुजश चारुजश चैव परघसश चैवम आदयः ॥ 2 ॥
ततॊ ऽभिपततां तेषाम अदृश्यानां दुरात्मनाम अन्तर्धानवधं तज्ज्ञश चकार स विभीषणः ॥ 3 ॥
ते दृश्यमाना हरिभिर बलिभिर दूरपातिभिः निहताः सर्वशॊ राजन महीं जग्मुर गतासवः ॥ 4 ॥
अमृष्यमाणः सबलॊ रावणॊ निर्ययाव अथ वयूह्य चौशनसं वयूहं हरीन सर्वान अहारयत ॥ 5 ॥
राघवस तव अभिनिर्याय वयूढानीकं दशाननम बार्हस्पत्यं विधिं कृत्वा परत्यव्यूहन निशाचरम ॥ 6 ॥
समेत्य युयुधे तत्र ततॊ रामेण रावणः युयुधे लक्ष्मणश चैव तथैवेन्द्र जिता सह ॥ 7 ॥
विरूपाक्षेण सुग्रीवस तारेण च निखर्वटः तुण्डेन च नलस तत्र पटुशः पनसेन च ॥ 8 ॥
विषह्यं यं हि यॊ मेने स स तेन समेयिवान युयुधे युद्धवेलायां सवबाहुबलम आश्रिथ ॥ 9 ॥
स संप्रहारॊ ववृधे भीरूणां भयवर्धनः लॊम संहर्षणॊ घॊरः पुरा देवासुरे यथा ॥ 10 ॥
रावणॊ रामम आनर्च्छच छक्ति शूलासिवृष्टिभिः निशितैर आयसैस तीक्ष्णै रावणं चापि राघवः ॥ 11 ॥
तथैवेन्द्र जितं यत्तं लक्ष्मणॊ मर्मभेदिभिः इन्द्रजिच चापि सौमित्रिं बिभेद बहुभिः शरैः ॥ 12 ॥
विभीषणः परहस्तं च परहस्तश च विभीषणम खगपत्रैः शरैस तीक्ष्णैर अभ्यवर्षद गतव्यथः ॥ 13 ॥
तेषां बलवताम आसीन महास्त्राणां समागमः विव्यथुः सकला येन तरयॊ लॊकाश चराचराः ॥ 14 ॥
वनपर्व · Vana Parva
अध्याय 269
Reach this point to mark the section finished.
Continue to अध्याय 270