[वै] वसत्स्व अथ दवैतवने पाण्डवेषु महात्मसु अनुकीर्णं महारण्यं बराह्मणैः समपद्यत ॥ 1 ॥
ईर्यमाणेन सततं बरह्मघॊषेण सर्वतः बरह्मलॊकसमं पुण्यम आसीद दवैतवनं सरः ॥ 2 ॥
यजुषाम ऋचां च साम्नां च गद्यानां चैव सर्वशः आसीद उच्चार्यमाणानां निस्वनॊ हृदयंगमः ॥ 3 ॥
जयाघॊषः पाण्ववेयानां बरह्मघॊषश च धीमताम संसृष्टं बरह्मणा कषत्रं भूय एव वयरॊचत ॥ 4 ॥
अथाब्रवीद बकॊ दाल्भ्यॊ धर्मराजं युधिष्ठिरम संध्यां कौन्तेयम आसीनम ऋषिभिः परिवारितम ॥ 5 ॥
पश्य दवैतवने पार्थ बराह्मणानां तपस्विनाम हॊमवेलां कुरुश्रेष्ठ संप्रज्वलित पावकाम ॥ 6 ॥
चरन्ति धर्मं पुण्ये ऽसमिंस तवया गुप्ता धृतव्रताः भृगवॊ ऽङगिरसश चैव वासिष्ठाः काश्यपैः सह ॥ 7 ॥
आगस्त्याश च महाभागा आत्रेयाश चॊत्तमव्रताः सर्वस्य जगतः शरेष्ठा बराह्मणाः संगतास तवया ॥ 8 ॥
इदं तु वचनं पार्थ शृण्व एकाग्रमना मम भरातृभिः सह कौन्तेय यत तवां वक्ष्यामि कौरव ॥ 9 ॥
बरह्मक्षत्रेण संसृष्टं कषत्रं च बरह्मणा सह उदीर्णौ दहतः शत्रून वनानीवाग्निमारुतौ ॥ 10 ॥
नाब्राह्मणस तात चिरं बुभूषेद; इच्छान्न इमं लॊकम अमुं च जेतुम विनीतधर्मार्थम अपेतमॊहं; लब्ध्वा दविजं नुदति नृपः सपत्नान ॥ 11 ॥
चरन नैःश्रेयसं धर्मं परजापालनकारितम नाध्यगच्छद बलिर लॊके तीर्थम अन्यत्र वै दविजात ॥ 12 ॥
अनूनम आसीद असुरस्य कामैर; वैरॊचनेः शरीर अपि चाक्षयासीत लब्ध्वा महीं बराह्मण संप्रयॊगात; तेष्व आचरन दुष्टम अतॊ वयनश्यत ॥ 13 ॥
नाब्राह्मणं भूमिर इयं सभूतिर; वर्णं दवितीयं भजते चिराय समुद्रनेमिर नमते तु तस्मै; यं बराह्मणः शास्ति नयैर विनीतः ॥ 14 ॥
कुञ्जरस्येव संग्रामे ऽपरिगृह्याङ्कुश गरहम बराह्मणैर विप्रहीणस्य कषत्रस्य कषीयते बलम ॥ 15 ॥
बरह्मण्य अनुपमा दृष्टिः कषात्रम अप्रतिमं बलम तौ यदा चरतः सार्धम अथ लॊकः परसीदति ॥ 16 ॥
यथा हि सुमहान अग्निः कक्षं दहति सानिलः तथा दहति राजन्यॊ बराह्मणेन समं रिपून ॥ 17 ॥
बराह्मणेभ्यॊ ऽथ मेधावी बुद्धिर पर्येषणं चरे अलब्धस्यच लाभाय लब्धस्य च विवृद्धये ॥ 18 ॥
अलब्धलाभाय च लब्धवृद्धये; यथार्ह तीर्थप्रतिपादनाय यशस्विनं वेदविदं विपश्चितं; बहुश्रुतं बराह्मणम एव वासय ॥ 19 ॥
बराह्मणेषूत्तमा वृत्तिस तव नित्यं युधिष्ठिर तेन ते सर्वलॊकेषु दीप्यते परथितं यशः ॥ 20 ॥
ततस ते बराह्मणाः सर्वे बकं दाल्भ्यम अपूजयन युधिष्ठिरे सतूयमाने भूयः सुमनसॊ ऽभवन ॥ 21 ॥
दवैपायनॊ नारदश च जामदग्न्यः पृथुश्रवाः इन्द्र दयुम्नॊ भालुकिश च कृतचेताः सहस्रपात ॥ 22 ॥
कर्ण शरवाश च मुञ्जश च लवणाश्वश च काश्यपः हारीतः सथूण कर्णश च अग्निवेश्यॊ ऽथ शौनकः ॥ 23 ॥
ऋतवाक च सुवाक चैव बृहदश्व ऋता वसुः ऊर्ध्वरेता वृषामित्रः सुहॊत्रॊ हॊत्रवाहनः ॥ 24 ॥
एते चान्ये च बहवॊ बराह्मणाः संशितव्रताः अजातशत्रुम आनर्चुः पुरंदरम इवर्षयः ॥ 25 ॥
वनपर्व · Vana Parva
अध्याय 27
Reach this point to mark the section finished.
Continue to अध्याय 28