[वै] तत काननं पराप्य नरेन्द्रपुत्राः; सुखॊचिता वासम उपेत्य कृच्छ्रम विजह्रुर इन्द्र परतिमाः शिवेषु; सरस्वती शालवनेषु तेषु ॥ 1 ॥
यतींश च सर्वान स मुनींश च राजा; तस्मिन वने मूलफलैर उदग्रैः दविजातिमुख्यान ऋषभः कुरूणां; संतर्पयाम आस महानुभावः ॥ 2 ॥
इष्टीश च पित्र्याणि तथाग्रियाणि; महावने वसतां पाण्डवानाम पुरॊहितः सर्वसमृद्धतेजाश; चकार धौम्यः पितृवत कुरूणाम ॥ 3 ॥
अपेत्य राष्ट्राद वसतां तु तेषाम; ऋषिः पुराणॊ ऽतिथिर आजगाम तम आश्रमं तीव्रसमृद्धतेजा; मार्कण्डेयः शरीमतां पाण्डवानाम ॥ 4 ॥
स सर्वविद दरौपदीं परेक्ष्य कृष्णां; युधिष्ठिरं भीमसेनार्जुनौ च संस्मृत्य रामं मनसा महात्मा; तपस्विमध्ये ऽसमयतामितौजाः ॥ 5 ॥
तं धर्मराजॊ विमना इवाब्रवीत; सर्वे हरिया सन्ति तपस्विनॊ ऽमी भवान इदं किं समयतीव हृष्टस; तपस्विनां पश्यतां माम उदीक्ष्य ॥ 6 ॥
[मार] न तात हृष्यामि न च समयामि; परहर्षजॊ मां भजते न दर्पः तवापदं तव अद्य समीक्ष्य रामं; सत्यव्रतं दाशरथिं समरामि ॥ 7 ॥
स चापि राजा सह लक्ष्मणेन; वने निवासं पितुर एव शासनात धन्वी चरन पार्थ पुरा मयैव; दृष्टॊ गिरेर ऋष्यमूकस्य सानौ ॥ 8 ॥
सहस्रनेत्र परतिमॊ महात्मा; मयस्य जेत नमुचेश च हन्ता पितुर निदेशाद अनघः सवधर्मं; वनेवासं दाशरथिश चकार ॥ 9 ॥
स चापि शक्रस्य समप्रभावॊ; महानुभावः समरेष्व अजेयः विहाय भॊगान अचरद वनेषु; नेशे बलस्येति चरेद अधर्मम ॥ 10 ॥
नृपाश च नाभाग भगीरथादयॊ; महीम इमां सागरान्तां विजित्य सत्येन ते ऽपय अजयंस तात लॊकान; नेशे बलस्येति चरेद अधर्मम ॥ 11 ॥
अलर्कम आहुर नरवर्य सन्तं; सत्यव्रतं काशिकरूष राजम विहाय रष्ट्राणि वसूनि चैव; नेशे बलस्येति चरेद अधर्मम ॥ 12 ॥
धात्रा विधिर यॊ विहितः पुराणस; तं पूजयन्तॊ नरवर्य सन्तः सप्तर्षयः पार्थ दिवि परभान्ति; नेशे बलस्येति चरेद अधर्मम ॥ 13 ॥
महाबलान पर्वतकूटमात्रान; विषाणिनः पश्य गजान नरेन्द्र सथितान निदेशे नरवर्य धातुर; नेशे बलस्येति चरेद अधर्मम ॥ 14 ॥
सर्वाणि भूतानि नरेन्द्र पश्य; यथा यथावद विहितं विधात्रा सवयॊनितस तत कुरुते परभावान; नेशे बलस्येति चरेद अधर्मम ॥ 15 ॥
सत्येन धर्मेण यथार्ह वृत्त्या; हरिया तथा सर्वभूतान्य अतीत्य यशश च तेजश च तवापि दीप्तं; विभावसॊर भास्करस्येव पार्थ ॥ 16 ॥
यथाप्रतिज्ञं च महानुभाव; कृच्छ्रं वनेवासम इमं निरुष्य ततः शरियं तेजसा सवेन दीप्ताम; आदास्यसे पार्थिव कौरवेभ्यः ॥ 17 ॥
[वै] तम एवम उक्त्वा वचनं महर्षिस; तपस्विमध्ये सहितं सुहृद्भिः आमन्त्र्य धौम्यं सहितांश च पार्थांस; ततः परतस्थे दिशम उत्तरां सः ॥ 18 ॥
वनपर्व · Vana Parva
अध्याय 26
Reach this point to mark the section finished.
Continue to अध्याय 27