धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 268

  1. [मार्क] परभूतान्नॊदके तस्मिन बहुमूलफले वने सेनां निवेश्य काकुत्स्थॊ विधिवत पर्यरक्षत ॥ 1 ॥

  2. रावणश च विधिं चक्रे लङ्कायां शास्त्रनिर्मितम परकृत्यैव दुराधर्षा दृढप्राकारतॊरणा ॥ 2 ॥

  3. अघाध तॊयाः परिखा मीननक्र समाकुलाः बभूवुः सप्त दुर्धर्षाः खादिरैः शङ्कुभिश चिताः ॥ 3 ॥

  4. कर्णाट्ट यन्त्रदुर्धर्षा बभूवुः सहुडॊपलाः साशीविष घटायॊधाः ससर्ज रसपांसवः ॥ 4 ॥

  5. मुसलालात नाराचतॊमरासि परश्वधैः अन्विताश च शतघ्नीभिः समधूच छिष्ट मुद्गराः ॥ 5 ॥

  6. पुरद्वारेषु सर्वेषु गुल्माः सथावरजङ्गमाः बभूवुः पत्तिबहुलाः परभूतगजवाजिनः ॥ 6 ॥

  7. अङ्गदस तव अथ लङ्काया दवारदेशम उपागतः विदितॊ राक्षसेन्द्रस्य परविवेश गतव्यथः ॥ 7 ॥

  8. मध्ये राक्षस कॊटीनां बह्वीनां सुमहाबलः शुशुभे मेघमालाभिर आदित्य इव संवृतः ॥ 8 ॥

  9. स समासाद्य पौलस्त्यम अमात्यैर अभिसंवृतम राम संदेशम आमन्त्र्य वाग्मी वक्तुं परचक्रमे ॥ 9 ॥

  10. आह तवां राघवॊ राजन कॊसलेन्द्रॊ महायशाः पराप्तकालम इदं वाक्यं तद आदत्स्व कुरुष्व च ॥ 10 ॥

  11. अकृतात्मानम आसाद्य राजानम अनये रतम विनश्यन्त्य अनयाविष्टा देशाश च नगराणि च ॥ 11 ॥

  12. तवयैकेनापराद्धं मे सीताम आहरता बलात वधायानपराद्धानाम अन्येषां तद भविष्यति ॥ 12 ॥

  13. ये तवया बलदर्पाभ्याम आविष्टेन वनेचराः ऋषयॊ हिंसिताः पूर्वं देवाश चाप्य अवमानिताः ॥ 13 ॥

  14. राजर्षयश च निहता रुदन्त्यश चाहृताः सत्रियः तद इदं समनुप्राप्तं फलं तस्यानयस्य ते ॥ 14 ॥

  15. हन्तास्मि तवां सहामात्यं युध्यस्व पुरुषॊ भव पश्य मे धनुषॊ वीर्यं मानुषस्य निशाचर ॥ 15 ॥

  16. मुच्यतां जानकी सीता न मे मॊक्ष्यसि कर्हि चित अराक्षसम इमं लॊकं कर्तास्मि निशितैः शरैः ॥ 16 ॥

  17. इति तस्य बरुवाणस्य दूतस्य परुषं वचः शरुत्वा न ममृषे राजा रावणः करॊधमूर्छितः ॥ 17 ॥

  18. इङ्गितज्ञास ततॊ भर्तुश चत्वारॊ रजनीचराः चतुर्ष्व अङ्गेषु जगृहुः शार्दूलम इव पक्षिणः ॥ 18 ॥

  19. तांस तथाङ्गेषु संसक्तान अङ्गदॊ रजनीचरान आदायैव खम उत्पत्य परासादतलम आविशत ॥ 19 ॥

  20. वेगेनॊत्पततस तस्य पेतुस ते रजनीचराः भुवि संभिन्नहृदयाः परहार परिपीडिताः ॥ 20 ॥

  21. स मुक्तॊ हर्म्यशिखरात तस्मात पुनर अवापतत लङ्घयित्वा पुरीं लङ्कां सवबलस्य समीपतः ॥ 21 ॥

  22. कॊसलेन्द्रम अथाभ्येत्य सर्वम आवेद्य चाङ्गदः विशश्राम स तेजस्वी राघवेणाभिनन्दितः ॥ 22 ॥

  23. ततः सर्वाभिसारेण हरीणां वातरंहसाम भेदयाम आस लङ्कायाः पराकारं रघुनन्दनः ॥ 23 ॥

  24. विभीषणर्क्षाधिपती पुरस्कृत्याथ लक्ष्मणः दक्षिणं नगरद्वारम अवामृद्नाद दुरासदम ॥ 24 ॥

  25. करभारुण गात्राणां हरीणां युद्धशालिनाम कॊटीशतसहस्रेण लङ्काम अभ्यपतत तदा ॥ 25 ॥

  26. उत्पतद्भिः पतद भिश च निपतद भिश च वानरैः नादृश्यत तदा सूर्यॊ रजसा नाशित परभः ॥ 26 ॥

  27. शालिप्रसून सदृशैः शिरीष कुसुमप्रभैः तरुणादित्यसदृशैः शरगौरैश च वानरैः ॥ 27 ॥

  28. पराकारं ददृशुस ते तु समन्तात कपिली कृतम राक्षसा विस्मिता राजन सस्त्री वृद्धाः समन्ततः ॥ 28 ॥

  29. विभिदुस ते मणिस्तम्भान कर्णाट्ट शिखराणि च भग्नॊन्मथित वेगानि यन्त्राणि च विचिक्षिपुः ॥ 29 ॥

  30. परिगृह्य शतघ्नीश च सचक्राः सहुडॊपलाः चिक्षिपुर भुजवेगेन लङ्का मध्ये महाबलाः ॥ 30 ॥

  31. पराकारस्थाश च ये के चिन निशाचरगणास तदा परदुद्रुवुस ते शतशः कपिभिः समभिद्रुताः ॥ 31 ॥

  32. ततस तु राजवचनाद राक्षसाः कामरूपिणः निर्ययुर विकृताकाराः सहस्रशतसंघशः ॥ 32 ॥

  33. शस्त्रवर्षाणि वर्षन्तॊ दरावयन्तॊ वनौकसः पराकारं शॊधयन्तस ते परं विक्रमम आस्थिताः ॥ 33 ॥

  34. स माषराशिसदृशैर बभूव कषणदाचरैः कृतॊ निर्वानरॊ भूयः पराकारॊ भीमदर्शनैः ॥ 34 ॥

  35. पेतुः शूलविभिन्नाङ्गा बहवॊ वानरर्षभाः सतम्भतॊरण भग्नाश च पेतुस तत्र निशाचराः ॥ 35 ॥

  36. केशा केश्य अभवद युद्धं रक्षसां वानरैः सह नखैर दन्तैश च वीराणां खादतां वै परस्परम ॥ 36 ॥

  37. निष्टनन्तॊ हय अभयतस तत्र वानरराक्षसाः हता निपतिता भूमौ न मुञ्चन्ति परस्परम ॥ 37 ॥

  38. रामस तु शरजालानि ववर्ष जलदॊ यथा तानि लङ्कां समासाद्य जघ्नुस तान रजनीचरान ॥ 38 ॥

  39. सौमित्रिर अपि नाराचैर दृढधन्वा जितक्लमः आदिश्यादिश्य दुर्गस्थान पातयाम आस राक्षसान ॥ 39 ॥

  40. ततः परत्यवहारॊ ऽभूत सैन्यानां राघवाज्ञया कृते विमर्दे लङ्कायां लब्धलक्षॊ जयॊत्तरः ॥ 40 ॥

Reach this point to mark the section finished.

Continue to अध्याय 269

Previous: अध्याय 267