धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 267

  1. [मार्क] ततस तत्रैव रामस्य समासीनस्य तैः सह समाजग्मुः कपिश्रेष्ठाः सुग्रीववचनात तदा ॥ 1 ॥

  2. वृतः कॊटिसहस्रेण वानराणां तरस्विनाम शवशुरॊ वालिनः शरीमान सुषेणॊ रामम अभ्ययात ॥ 2 ॥

  3. कॊटीशतवृतौ चापि गजॊ गवय एव च वानरेन्द्रौ महावीर्यौ पृथक्पृथग अदृश्यताम ॥ 3 ॥

  4. षष्टिकॊटिसहस्राणि परकर्षन परत्यदृश्यत गॊलाङ्गूलॊ महाराज गवाक्षॊ भीमदर्शनः ॥ 4 ॥

  5. गन्धमादनवासी तु परथितॊ गन्धमादनः कॊटीसहस्रम उग्राणां हरीणां समकर्षत ॥ 5 ॥

  6. पनसॊ नाम मेधावी वानरः सुमहाबलः कॊटीर दश दवादश च तरिंशत पञ्च परकर्षति ॥ 6 ॥

  7. शरीमान दधिमुखॊ नाम हरिवृद्धॊ ऽपि वीर्यवान परचकर्ष महत सैन्यं हरीणां भीम तेजसाम ॥ 7 ॥

  8. कृष्णानां मुखपुण्डाणाम ऋक्षाणां भीमकर्मणाम कॊटीशतसहस्रेण जाम्बवान परत्यदृश्यत ॥ 8 ॥

  9. एते चान्ये च बहवॊ हरियूथपयूथपाः असंख्येया महाराज समीयू रामकारणात ॥ 9 ॥

  10. शिरीष कुसुमाभानां सिंहानाम इव नर्दताम शरूयते तुमुलः शब्दस तत्र तत्र परधावताम ॥ 10 ॥

  11. गिरिकूट निभाः के चित के चिन महिषसंनिभाः शरद अभ्रप्रतीकाशाः पिष्ट हिङ्गुल काननाः ॥ 11 ॥

  12. उत्पतन्तः पतन्तश च पलवमानाश च वानराः उद्धुन्वन्तॊ ऽपरे रेणून समाजग्मुः समन्ततः ॥ 12 ॥

  13. स वानरमहालॊकः पूर्णसागर संनिभः निवेशम अकरॊत तत्र सुग्रीवानुमते तदा ॥ 13 ॥

  14. ततस तेषु हरीन्द्रेषु समावृत्तेषु सर्वशः तिथौ परशस्ते नक्षत्रे मुहुर्ते चाभिपूजिते ॥ 14 ॥

  15. तेन वयूढेन सैन्येन लॊकान उद्वर्तयन्न इव परययौ राघवः शरीमान सुग्रीवसहितस तदा ॥ 15 ॥

  16. मुखम आसीत तु सैन्यस्य हनूमान मारुतात्मजः जघनं पालयाम आस सौमित्रिर अकुतॊभयः ॥ 16 ॥

  17. बद्धगॊधाङ्गुलि तराणौ राघवौ तत्र रेजतुः वृतौ हरि महामात्रैश चन्द्रसूर्यौ गरहैर इव ॥ 17 ॥

  18. परबभौ हरिसैन्यं तच छाल तालशिलायुधम सुमहच छालि भवनं यथा सूर्यॊदयं परति ॥ 18 ॥

  19. नल नीलाङ्गदक्राथ मैन्द दविरदपालिता ययौ सुमहती सेना राघवस्यार्थसिद्धये ॥ 19 ॥

  20. विधिवत सुप्रशस्तेषु बहुमूलफलेषु च परभूतमधु मांसेषु वारिमत्सु शिवेषु च ॥ 20 ॥

  21. निवसन्ति निराबाधा तथैव गिरिसानुषु उपायाद धरि सेना सा कषारॊदम अथ सागरम ॥ 21 ॥

  22. दवितीय सागरनिभं तद बलं बहुल धवजम वेलावनं समासाद्य निवासम अकरॊत तदा ॥ 22 ॥

  23. ततॊ दाशरथिः शरीमान सुग्रीवं परत्यभाषत मध्ये वानरमुख्यानां पराप्तकालम इदं वचः ॥ 23 ॥

  24. उपायः कॊ नु भवतां महत सागरलङ्घने इयं च महती सेनासागरश चापि दुस्तरः ॥ 24 ॥

  25. तत्रान्ये वयाहरन्ति सम वानराः पटु मानिनः समर्था लङ्घने सिन्धॊर न तु कृत्स्नस्य वानराः ॥ 25 ॥

  26. के चिन नौभिर वयवस्यन्ति केचीच च विविधैः पलवैः नेति रामश च तान सर्वान सान्त्वयन परत्यभाषत ॥ 26 ॥

  27. शतयॊजनविस्तारं न शक्ताः सर्ववानराः करान्तुं तॊयनिधिं वीरा नैषा वॊ नैष्ठिकी मतिः ॥ 27 ॥

  28. नावॊ न सन्ति सेनाया बह्व्यस तारयितुं तथा वणिजाम उपघातं च कथम अस्मद्विधश चरेत ॥ 28 ॥

  29. विस्तीर्णं चैव नः सैन्यं हन्याच छिद्रेषु वै परः पलवॊडुप परतारश च नैवात्र मम रॊचते ॥ 29 ॥

  30. अहं तव इमं जलनिधिं समारप्स्याम्य उपायतः परतिशेष्याम्य उपवसन दर्शयिष्यति मां ततः ॥ 30 ॥

  31. न चेद दर्शयिता मार्गं धक्ष्याम्य एनम अहं ततः महास्त्रैर अप्रतिहतैर अत्यग्नि पवनॊज्ज्वलैः ॥ 31 ॥

  32. इत्य उक्त्वा सह सौमित्रिर उपस्पृश्याथ राघवः परतिशिश्ये जलनिधिं विधिवत कुशसंस्तरे ॥ 32 ॥

  33. सागरस तु ततः सवप्ने दर्शयाम आस राघवम देवॊ नदनदी भर्ता शरीमान यादॊगणैर वृतः ॥ 33 ॥

  34. कौसल्या मातर इत्य एवम आभाष्य मधुरं वचः इदम इत्य आह रत्नानाम आकरैः शतशॊ वृतः ॥ 34 ॥

  35. बरूहि किं ते करॊम्य अत्र साहाय्यं पुरुषर्षभ इक्ष्वाकुर अस्मि ते जञातिर इति रामस तम अब्रवीत ॥ 35 ॥

  36. मार्गम इच्छामि सैन्यस्य दत्तं नदनदीपते येन गत्वा दशग्रीवं हन्यां पौलस्त्य पांसनम ॥ 36 ॥

  37. यद्य एवं याचतॊ मार्गं न परदास्यति मे भवान शरैस तवां शॊषयिष्यामि दिव्यास्त्रप्रतिमन्त्रितैः ॥ 37 ॥

  38. इत्य एवं बरुवतः शरुत्वा रामस्य वरुणालयः उवाच वयथितॊ वाक्यम इति बद्धाञ्जलिः सथितः ॥ 38 ॥

  39. नेच्छामि परतिघातं ते नास्मि विघ्नकरस तव शृणु चेदं वचॊ राम शरुत्वा कर्तव्यम आचर ॥ 39 ॥

  40. यदि दास्यामि ते मार्गं सैन्यस्य वरजतॊ ऽऽजञया अन्ये ऽपय आज्ञापयिष्यन्ति माम एवं धनुषॊ बलात ॥ 40 ॥

  41. अस्ति तव अत्र नलॊ नाम वानरः शिल्पिसंमतः तवष्टुर देवस्य तनयॊ बलवान विश्वकर्मणः ॥ 41 ॥

  42. स यत काष्ठं तृणं वापि शिलां वा कषेप्स्यते मयि सर्वं तद धारयिष्यामि स ते सेतुर भविष्यति ॥ 42 ॥

  43. इत्य उक्त्वान्तर्हिते तस्मिन रामॊ नलम उवाच ह कुरु सेतुं समुद्रे तवं शक्तॊ हय असि मतॊ मम ॥ 43 ॥

  44. तेनॊपायेन काकुत्स्थः सेतुबन्धम अकारयत दशयॊजनविस्तारम आयतं शतयॊजनम ॥ 44 ॥

  45. नलसेतुर इति खयातॊ यॊ ऽदयापि परथितॊ भुवि रामस्याज्ञां पुरस्कृत्य धार्यते गिरिसंनिभः ॥ 45 ॥

  46. तत्रस्थं स तु धर्मात्मा समागच्छद विभीषणः भराता वै राक्षसेन्द्रस्य चतुर्भिः सचिवैः सह ॥ 46 ॥

  47. परजिजग्राह रामस तं सवागतेन महामनाः सुग्रीवस्य तु शङ्काभूत परणिधिः सयाद इति सम ह ॥ 47 ॥

  48. राघवस तस्य चेष्टाभिः सम्यक च चरितेङ्गितैः यदा तत्त्वेन तुष्टॊ ऽभूत तत एनम अपूजयत ॥ 48 ॥

  49. सर्वराक्षस राज्ये चाप्य अभ्यषिञ्चद विभीषणम चक्रे च मन्त्रानुचरं सुहृदं लक्ष्मणस्य च ॥ 49 ॥

  50. विभीषण मते चैव सॊ ऽतयक्रामन महार्णवम ससैन्यं सेतुना तेन मासेनैव नराधिप ॥ 50 ॥

  51. ततॊ गत्वा समासाद्य लङ्कॊद्यानान्य अनेकशः भेदयाम आस कपिभिर महान्ति च बहूनि च ॥ 51 ॥

  52. तत्रास्तां रावणामात्यौ राक्षसौ शुकसारणौ चारौ वानररूपेण तौ जग्राह विभीषणः ॥ 52 ॥

  53. परतिपन्नौ यदा रूपं राक्षसं तौ निशाचरौ दर्शयित्वा ततः सैन्यं रामः पश्चाद अवासृजत ॥ 53 ॥

  54. निवेश्यॊपवने सैन्यं तच छूरः पराज्ञवानरम परेषयाम आस दौत्येन रावणस्य ततॊ ऽङगदम ॥ 54 ॥

Reach this point to mark the section finished.

Continue to अध्याय 268

Previous: अध्याय 266