[मार्क] राघवस तु ससौमित्रिः सुग्रीवेणाभिपालितः वसन माल्यवतः पृष्ठे ददर्श विमलं नभः ॥ 1 ॥
स दृष्ट्वा विमले वयॊम्नि निर्मलं शशलक्षणम गरहनक्षत्रताराभिर अनुयातम अमित्रहा ॥ 2 ॥
कुमुदॊत्पल पद्मानां गन्धम आदाय वायुना महीधरस्थः शीतेन सहसा परतिबॊधिथ ॥ 3 ॥
परभाते लक्ष्मणं वीरम अभ्यभाषत दुर्मनाः सीतां संस्मृत्य धर्मात्मा रुद्धां राक्षस वेश्मनि ॥ 4 ॥
गच्छ लक्ष्मण जानीहि किष्किन्धायां कपीश्वरम परमत्तं गराम्यधर्मेषु केतघ्नं सवार्थपण्डितम ॥ 5 ॥
यॊ ऽसौ कुलाधमॊ मूढॊ मया राज्ये ऽभिषेचितः सर्ववानरगॊपुच्छा यम ऋक्षाश च भजन्ति वै ॥ 6 ॥
यदर्थं निहतॊ वाली मया रघुकुलॊद्वह तवया सह महाबाहॊ किष्किन्धॊपवने तदा ॥ 7 ॥
कृतघ्नं तम अहं मन्ये वानरापसदं भुवि यॊ माम एवंगतॊ मूढॊ न जानीते ऽदय लक्ष्मण ॥ 8 ॥
असौ मन्ये न जानीते समयप्रतिपादनम कृतॊपकारं मां नूनम अवमन्याल्पया धिया ॥ 9 ॥
यदि तावद अनुद्युक्तः शेते कामसुखात्मकः नेतव्यॊ वालिमार्गेण सर्वभूतगतिं तवया ॥ 10 ॥
अथापि घटते ऽसमाकम अर्थे वानरपुंगवः तम आदायैहि काकुत्स्थ तवरावान भव माचिरम ॥ 11 ॥
इत्य उक्तॊ लक्ष्मणॊ भरात्रा गुरुवाक्यहिते रतः परतस्थे रुचिरं गृह्य समार्गण गुणं धनुः किष्किन्धा दवारम आसाद्य परविवेशानिवारितः ॥ 12 ॥
सक्रॊध इति तं मत्वा राजा परत्युद्ययौ हरिः तं सदारॊ विनीतात्मा सुग्रीवः पलवगाधिपः पूजया परतिजग्राह परीयमाणस तद अर्हया ॥ 13 ॥
तम अब्रवीद रामवचॊ सौमित्रिर अकुतॊभयः स तत सर्वम अशेषेण शरुत्वा परह्वः कृताञ्जलिः ॥ 14 ॥
सभृत्यदारॊ राजेन्द्र सुग्रीवॊ वानराधिपः इदम आह वचॊ परीतॊ लक्ष्मणं नरकुञ्जरम ॥ 15 ॥
नास्मि लक्ष्मण दुर्मेधा न कृतघ्नॊ न निर्घृणः शरूयतां यः परयत्नॊ मे सीता पर्येषणे कृतः ॥ 16 ॥
दिशः परस्थापिताः सर्वे विनीता हरयॊ मया सर्वेषां च कृतः कालॊ मासेनागमनं पुनः ॥ 17 ॥
यैर इयं सवना साद्रिः सपुरा सागराम्बरा विचेतव्या मही वीर सग्राम नगराकरा ॥ 18 ॥
स मासः पञ्चरात्रेण पूर्णॊ भवितुम अर्हति ततः शरॊष्यसि रामेण सहितः सुमहत परियम ॥ 19 ॥
इत्य उक्तॊ लक्ष्मणस तेन वानरेन्द्रेण धीमता तयक्त्वा रॊषम अदीनात्मा सुग्रीवं परत्यपूजयत ॥ 20 ॥
स रामं सह सुग्रीवॊ माल्यवत पृष्ठम आस्थितम अभिगम्यॊदयं तस्य कार्यस्य परत्यवेदयत ॥ 21 ॥
इत्य एवं वानरेन्द्रास ते समाजग्मुः सहस्रशः दिशस तिस्रॊ विचित्याथ न तु ये दक्षिणां गताः ॥ 22 ॥
आचख्युस ते तु रामाय महीं सागरमेखलाम विचितां न तु वैदेह्या दर्शनं रावणस्य वा ॥ 23 ॥
गतास तु दक्षिणाम आशां ये वै वानरपुंगवाः आशावांस तेषु काकुत्स्थः परानान आर्तॊ ऽपय अधारयत ॥ 24 ॥
दविमासॊपरमे काले वयतीते पलवगास ततः सुग्रीवम अभिगम्येदं तवरिता वाक्यम अब्रुवन ॥ 25 ॥
रक्षितं वालिना यत तत सफीतं मधुवनं महत तवया च पलवगश्रेष्ठ तद भुङ्क्ते पवनात्मजः ॥ 26 ॥
वालिपुत्रॊ ऽङगदश चैव ये चान्ये पलवगर्षभाः विचेतुं दक्षिणाम आशां राजन परस्थापितास तवया ॥ 27 ॥
तेषां तं परणयं शरुत्वा मेने स कृतकृत्यताम कृतार्थानां हि भृत्यानाम एतद भवति चेष्टितम ॥ 28 ॥
स तद रामाय मेधावी शशंस पलवगर्षभः रामश चाप्य अनुमानेन मेने दृष्टां तु मैथिलीम ॥ 29 ॥
हनूमत्प्रमुखाश चापि विश्रान्तास ते पलवंगमाः अभिजग्मुर हरीन्द्रं तं रामलक्ष्मणसंनिधौ ॥ 30 ॥
गतिं च मुखवर्णं च दृष्ट्वा रामॊ हनूमतः अगमत परत्ययं भूयॊ दृष्टा सीतेति भारत ॥ 31 ॥
हनूमत्प्रमुखास ते तु वानराः पूर्णमानसाः परणेमुर विधिवद रामं सुग्रीवं लक्ष्मणं तथा ॥ 32 ॥
तान उवाचागतान रामः परगृह्य सशरं धनुः अपि मां जीवयिष्यध्वम अपि वः कृतकृत्यता ॥ 33 ॥
अपि राज्यम अयॊध्यायां कारयिष्याम्य अहं पुनः निहत्य समरे शत्रून आहृत्य जनकात्मजाम ॥ 34 ॥
अमॊक्षयित्वा वैदेहीम अहत्वा च रिपून रणे हृतदारॊ ऽवधूतश च नाहं जीवितुम उत्सहे ॥ 35 ॥
इत्य उक्तवचनं रामं परत्युवाचानिलात्मजः परियम आख्यामि ते राम दृष्टा सा जानकी मया ॥ 36 ॥
विचित्य दक्षिणाम आशां सपर्वतवनाकराम शरान्ताः काले वयतीते सम दृष्टवन्तॊ महागुहाम ॥ 37 ॥
परविशामॊ वयं तां तु बहुयॊजनम आयताम अन्धकारां सुविपिनां गहनां कीट सेविताम ॥ 38 ॥
गत्वा सुमहद अध्वानम आदित्यस्य परभां ततः दृष्टवन्तः सम तत्रैव भवनं दिव्यम अन्तरा ॥ 39 ॥
मयस्य किल दैत्यस्य तदासीद वेश्म राघव तत्र परभावती नाम तपॊ ऽतप्यत तापसी ॥ 40 ॥
तया दत्तानि भॊज्यानि पानानि विविधानि च भुक्त्वा लब्धबलाः सन्तस तयॊक्तेन पथा ततः ॥ 41 ॥
निर्याय तस्माद उद्देशात पश्यामॊ लवणाम्भसः समीपे सह्यमलयौ दर्दुरं च महागिरिम ॥ 42 ॥
ततॊ मलयम आरुह्य पश्यन्तॊ वरुणालयम विषण्णा वयथिताः खिन्ना निराशा जीविते भृशम ॥ 43 ॥
अनेकशतविस्तीर्णं यॊजनानां महॊदधिम तिमिनक्र झषावासं चिन्तयन्तः सुदुःखिताः ॥ 44 ॥
तत्रानशन संकल्पं कृत्वासीना वयं तदा ततः कथान्ते गृध्रस्य जटायॊर अभवत कथा ॥ 45 ॥
ततः पर्वतशृङ्गाभं घॊररूपं भयावहम पक्षिणं दृष्टवन्तः सम वैनतेयम इवापरम ॥ 46 ॥
सॊ ऽसमान अतर्कयद भॊक्तुम अथाभ्येत्य वचॊ ऽबरवीत भॊः क एष मम भरातुर जटायॊः कुरुते कथाम ॥ 47 ॥
संपातिर नाम तस्याहं जयेष्ठॊ भराता खगाधिपः अन्यॊन्यस्पर्धयारूढाव आवाम आदित्यसंसदम ॥ 48 ॥
ततॊ दग्धाव इमौ पक्षौ न दग्धौ तु जटायुषः तदा मे चिरदृष्टः स भराता गृध्रपतिः परियः निर्दग्धपक्षः पतितॊ हय अहम अस्मिन महागिरौ ॥ 49 ॥
तस्यैवं वदतॊ ऽसमाभिर हतॊ भराता निवेदितः वयसनं भवतश चेदं संक्षेपाद वै निवेदितम ॥ 50 ॥
स संपातिस तदा राजञ शरुत्वा सुमहद अप्रियम विषण्णचेताः पप्रच्छ पुनर अस्मान अरिंदम ॥ 51 ॥
कः स रामः कथं सीता जटायुश च कथं हतः इच्छामि सर्वम एवैतच छरॊतुं पलवगसत्तमाः ॥ 52 ॥
तस्याहं सर्वम एवैतं भवतॊ वयसनागमम परायॊपवेशने चैव हेतुं विस्तरतॊ ऽबरुवम ॥ 53 ॥
सॊ ऽसमान उत्थापयाम आस वाक्येनानेन पक्षिराज रावणॊ विदितॊ मह्यं लङ्का चास्य महापुरी ॥ 54 ॥
दृष्टा पारे समुद्रस्य तरिकूटगिरिकन्दरे भवित्री तत्र वैदेही न मे ऽसत्य अत्र विचारणा ॥ 55 ॥
इति तस्य वचॊ शरुत्वा वयम उत्थाय सत्वराः सागरप्लवने मन्त्रं मन्त्रयामः परंतप ॥ 56 ॥
नाध्यवस्यद यदा कश चित सागरस्य विलङ्घने ततः पितरम आविश्य पुप्लुवे ऽहं महार्णवम शतयॊजनविस्तीर्णं निहत्य जलराक्षसीम ॥ 57 ॥
तत्र सीता मया दृष्टा रावणान्तःपुरे सती उपवासतपः शीला भर्तृदर्शनलालसा जटिला मलदिग्धाङ्गी कृशा दीना तपस्विनी ॥ 58 ॥
निमित्तैस ताम अहं सीताम उपलभ्य पृथग्विधैः उपसृत्याब्रुवं चार्याम अभिगम्य रहॊगताम ॥ 59 ॥
सीते रामस्य दूतॊ ऽहं वानरॊ मारुतात्मजः तवद्दर्शनम अभिप्रेप्सुर इह पराप्तॊ विहायसा ॥ 60 ॥
राजपुत्रौ कुशलिनौ भरातरौ रामलक्ष्मणौ सर्वशाखा मृगेन्द्रेण सुग्रीवेणाभिपालितौ ॥ 61 ॥
कुशलं तवाब्रवीद रामः सीते सौमित्रिणा सह सखिभावाच च सुग्रीवः कुशलं तवानुपृच्छति ॥ 62 ॥
कषिप्रम एष्यति ते भर्ता सर्वशाका मृगैः सह परत्ययं कुरु मे देवि वानरॊ ऽसमि न राक्षसः ॥ 63 ॥
मुहूर्तम इव च धयात्वा सीता मां परत्युवाच ह अवैमि तवां हनूमन्तम अविन्ध्य वचनाद अहम ॥ 64 ॥
अविन्ध्यॊ हि महाबाहॊ राक्षसॊ वृद्धसंमतः कथितस तेन सुग्रीवस तवद्विधैः सचिवैर वृतः ॥ 65 ॥
गम्यताम इति चॊक्त्वा मां सीता परादाद इमं मणिम धारिता येन वैदेही कालम एतम अनिन्दिता ॥ 66 ॥
परत्ययार्थं कथां चेमां कथयाम आस जानकी कषिप्राम इषीकां काकस्य चित्रकूटे महागिरौ भवता पुरुषव्याघ्र परत्यभिज्ञान कारणात ॥ 67 ॥
शरावयित्वा तदात्मानं ततॊ दग्ध्वा च तां पुरीम संप्राप्त इति तं रामः परियवादिनम अर्चयत ॥ 68 ॥
वनपर्व · Vana Parva
अध्याय 266
Reach this point to mark the section finished.
Continue to अध्याय 267