धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 265

  1. [मार्क] ततस तां भर्तृशॊकार्तां दीनां मलिनवाससम मणिशेषाभ्यलंकारां रुदतीं च पतिव्रताम ॥ 1 ॥

  2. राक्षसीभिर उपास्यन्तीं समासीनां शिलातले रावणः कामबाणार्तॊ ददर्शॊपससर्प च ॥ 2 ॥

  3. देवदानवगन्धर्वयक्षकिंपुरुषैर युधि अजितॊ शॊकवनिकां ययौ कन्दर्प मॊहितः ॥ 3 ॥

  4. दिव्याम्बर धरः शरीमान सुमृष्टमणिकुण्डलः विचित्रमाल्यमुकुटॊ वसन्त इव मूर्तिमान ॥ 4 ॥

  5. स कल्पवृक्षसदृशॊ यत्नाद अपि विभूषितः शमशानचैत्यद्रुमवद भूषितॊ ऽपि भयंकरः ॥ 5 ॥

  6. स तस्यास तनुमध्यायाः समीपे रजनीचरः ददृशे रॊहिणीम एत्य शनैश्चर इव गरहः ॥ 6 ॥

  7. स ताम आमन्त्र्य सुश्रॊणीं पुष्पहेतु शराहतः इदम इत्य अब्रवीद बालां तरस्तां रौहीम इवाबलाम ॥ 7 ॥

  8. सीते पर्याप्तम एतावत कृतॊ भर्तुर अनुग्रहः परसादं कुरु तन्व अङ्गि करियतां परिकर्म ते ॥ 8 ॥

  9. भजस्व मां वरारॊहे महार्हाभरणाम्बरा भव मे सर्वनारीणाम उत्तमा वरवर्णिनि ॥ 9 ॥

  10. सन्ति मे देवकन्याश च राजर्षीणां तथाङ्गनाः सन्ति दानव कन्याश च दैत्यानां चापि यॊषितः ॥ 10 ॥

  11. चतुर्दश पिशाचानां कॊट्यॊ मे वचने सथिताः दविस तावत पुरुषादानां रक्षसां भीमकर्मणाम ॥ 11 ॥

  12. ततॊ मे तरिगुणा यक्षा ये मद्वचन कारिणः के चिद एव धनाध्यक्षं भरातरं मे समाश्रिताः ॥ 12 ॥

  13. गन्धर्वाप्सरसॊ भद्रे माम आपानगतं सदा उपतिष्ठन्ति वामॊरु यथैव भरातरं मम ॥ 13 ॥

  14. पुत्रॊ ऽहम अपि विप्रर्षेः साक्षाद विश्रवसॊ मुनेः पञ्चमॊ लॊकपालानाम इति मे परथितं यशः ॥ 14 ॥

  15. दिव्यानि भक्ष्यभॊज्यानि पानानि विविधानि च यथैव तरिदशेशस्य तथैव मम भामिनि ॥ 15 ॥

  16. कषीयतां दुष्कृतं कर्म वनवास कृतं तव भार्या मे भव सुश्रॊणि यथा मन्दॊदरी तथा ॥ 16 ॥

  17. इत्य उक्ता तेन वैदेही परिवृत्य शुभानना तृणम अन्तरतः कृत्वा तम उवाच निशाचरम ॥ 17 ॥

  18. अशिवेनातिवामॊरुर अजस्रं नेत्रवारिणा सतनाव अपतितौ बाला सहिताव अभिवर्षती उवाच वाक्यं तं कषुद्रं वैदेही पतिदेवता ॥ 18 ॥

  19. असकृद वदतॊ वाक्यम ईदृशं राक्षसेश्वर विषादयुक्तम एतत ते मया शरुतम अभाग्यया ॥ 19 ॥

  20. तद भद्र सुखभद्रं ते मानसं विनिवर्त्यताम परदारास्म्य अलभ्या च सततं च पतिव्रता ॥ 20 ॥

  21. न चैवौपयिकी भार्या मानुषी कृपणा तव विवशां धर्षयित्वा च कां तवं परीतिम अवाप्स्यसि ॥ 21 ॥

  22. परजापतिसमॊ विप्रॊ बरह्मयॊनिः पिता तव न च पालयसे धर्मं लॊकपालसमः कथम ॥ 22 ॥

  23. भरातरं राजराजानं महेश्वर सखं परभुम धनेश्वरं वयपदिशन कथं तव इह न लज्जसे ॥ 23 ॥

  24. इत्य उक्त्वा परारुदत सीता कम्पयन्ती पयॊधरौ शिरॊधरां च तन्व अङ्गी मुखं परच्छाद्य वाससा ॥ 24 ॥

  25. तस्या रुदत्या भामिन्या दीर्घा वेणी सुसंयता ददृशे सवसिता सनिग्धा लाकी वयालीव मूर्धनि ॥ 25 ॥

  26. तच छरुत्वा रावणॊ वाक्यं सीतयॊक्तं सुनिष्ठुरम परत्याख्यातॊ ऽपि दुर्मेधाः पुनर एवाब्रवीद वचः ॥ 26 ॥

  27. कामम अङ्गानि मे सीते दुनॊतु मकरध्वजः न तवाम अकामां सुश्रॊणीं समेष्ये चारुहासिनीम ॥ 27 ॥

  28. किं नु शक्यं मया कर्तुं यत तवम अद्यापि मानुषम आहारभूतम अस्माकं रामम एवानुरुध्यसे ॥ 28 ॥

  29. इत्य उक्त्वा ताम अनिन्द्याङ्गीं स राक्षसगणेश्वरः तत्रैवान्तर्हितॊ भूत्वा जगामाभिमतां दिशम ॥ 29 ॥

  30. राक्षसीभिः परिवृता वैदेही शॊककर्शिता सेव्यमाना तरिजटया तत्रैव नयवसत तदा ॥ 30 ॥

Reach this point to mark the section finished.

Continue to अध्याय 266

Previous: अध्याय 264