धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 264

  1. [मार्क] ततॊ ऽविदूरे नलिनीं परभूतकमलॊत्पलाम सीताहरणदुःखार्तः पम्पां रामः समासदत ॥ 1 ॥

  2. मारुतेन सुशीतेन सुखेनामृत गन्धिना सेव्यमानॊ वने तस्मिञ जगाम मनसा परियाम ॥ 2 ॥

  3. विललाप स राजेन्द्रस तत्र कान्ताम अनुस्मरन कामबाणाभिसंतप्तः सौमित्रिस तम अथाब्रवीत ॥ 3 ॥

  4. न तवाम एवंविधॊ भावः सप्रष्टुम अर्हति मानद आत्मवन्तम इव वयाधिः पुरुषं वृद्धशीलिनम ॥ 4 ॥

  5. परवृत्तिर उपलब्धा ते वैदेह्या रावणस्य च तां तवं पुरुषकारेण बुद्ध्या चैवॊपपादय ॥ 5 ॥

  6. अभिगच्छाव सुग्रीवं शैलस्थं हरिपुंगवम मयि शिष्ये च भृत्ये च सहाये च समाश्वस ॥ 6 ॥

  7. एवं बहुविधैर वाक्यैर लक्ष्मणेन सराघवः उक्तः परकृतिम आपेदे कार्ये चानन्तरॊ ऽभवत ॥ 7 ॥

  8. निषेव्य वारि पम्पायास तर्पयित्वा पितॄन अपि परतस्थतुर उभौ वीरौ भरातरौ रामलक्ष्मणौ ॥ 8 ॥

  9. ताव ऋश्यमूकम अभ्येत्य बहुमूलफलं गिरिम गिर्यग्रे वानरान पञ्च वीरौ ददृशतुस तदा ॥ 9 ॥

  10. सुग्रीवः परेषयाम आस सचिवं वानरं तयॊः बुद्धिमन्तं हनूमन्तं हिमवन्तम इव सथितम ॥ 10 ॥

  11. तेन संभाष्य पूर्वं तौ सुग्रीवम अभिजग्मतुः सख्यं वानरराजेन चक्रे रामस ततॊ नृप ॥ 11 ॥

  12. तद वासॊ दर्शयाम आसुर तस्य कार्ये निवेदिते वानराणां तु यत सीता हरियमाणाभ्यवासृजत ॥ 12 ॥

  13. तत परत्ययकरं लब्ध्वा सुग्रीवं पलवगाधिपम पृथिव्यां वानरैश्वर्ये सवयं रामॊ ऽभयषेचयत ॥ 13 ॥

  14. परतिजज्ञे च काकुत्स्थः समरे वालिनॊ वधम सुग्रीवश चापि वैदेह्याः पुनर आनयनं नृप ॥ 14 ॥

  15. इत्य उक्त्वा समयं कृत्वा विश्वास्य च परस्परम अभ्येत्य सर्वे किष्किन्धां तस्थुर युद्धाभिकाङ्क्षिणः ॥ 15 ॥

  16. सुग्रीवः पराप्य किष्किन्धां ननादौघनिभस्वनः नास्य तन ममृषे बाली तं तारा परत्यषेधयत ॥ 16 ॥

  17. यथा नदति सुग्रीवॊ बलवान एष वानरः मन्ये चाश्रयवान पराप्तॊ न तवं निर्गन्तुम अर्हसि ॥ 17 ॥

  18. हेममाली ततॊ वाली तारां ताराधिपाननाम परॊवाच वचनं वाग्मी तां वानरपतिः पतिः ॥ 18 ॥

  19. सर्वभूतरुतज्ञा तवं पश्य बुद्ध्या समन्विता केनापाश्रयवान पराप्तॊ ममैष भरातृगन्धिकः ॥ 19 ॥

  20. चिन्तयित्वा मुहूर्तं तु तारा ताराधिपप्रभा पतिम इत्य अब्रवीत पराज्ञा शृणु सर्वं कपीश्वर ॥ 20 ॥

  21. हृतदारॊ महासत्त्वॊ रामॊ दशरथात्मजः तुल्यारि मित्रतां पराप्तः सुग्रीवेण धनुर्धरः ॥ 21 ॥

  22. भराता चास्य महाबाहुः सौमित्रिर अपराजितः लक्ष्मणॊ नाम मेधावी सथितः कार्यार्थसिद्धये ॥ 22 ॥

  23. मैन्दश च दविविदश चैव हनूमांश चानिलात्मजः जाम्बवान ऋक्षराजश च सुग्रीवसचिवाः सथिताः ॥ 23 ॥

  24. सर्व एते महात्मानॊ बुद्धिमन्तॊ महाबलाः अलं तव विनाशाय राम वीर्यव्यपाश्रयात ॥ 24 ॥

  25. तस्यास तद आक्षिप्य वचॊ हितम उक्तं कपीष्वरः पर्यशङ्कत ताम ईर्षुः सुग्रीव गतमानसाम ॥ 25 ॥

  26. तारां परुषम उक्त्वा स निर्जगाम गुहा मुखात सथितं माल्यवतॊ ऽभयाशे सुग्रीवं सॊ ऽभयभाषत ॥ 26 ॥

  27. असकृत तवं मया मूढ निर्जितॊ जीवितप्रियः मुक्तॊ जञातिर इति जञात्वा का तवरा मरणे पुनः ॥ 27 ॥

  28. इत्य उक्तः पराह सुग्रीवॊ भरातरं हेतुमद वचः पराप्तकालम अमित्रघ्नॊ रामं संबॊधयन्न इव ॥ 28 ॥

  29. हृतदारस्य मे राजन हृतराज्यस्य च तवया किं नु जीवितसामर्थ्यम इति विद्धि समागतम ॥ 29 ॥

  30. एवम उक्त्वा बहुविधं ततस तौ संनिपेततुः समरे वालिसुग्रीवौ शालतालशिलायुधौ ॥ 30 ॥

  31. उभौ जघ्नतुर अन्यॊन्यम उभौ भूमौ निपेततुः उभौ ववल्गतुश चित्रं मुष्टिभिश च निजघ्नतुः ॥ 31 ॥

  32. उभौ रुधिरसंसिक्तौ नखदन्त परिक्षतौ शुशुभाते तदा वीरौ पिश्पिताव इव किंशुकौ ॥ 32 ॥

  33. न विशेषस तयॊर युद्धे तदा कश चन दृश्यते सुग्रीवस्य तदा मालां हनूमान कण्ठ आसजत ॥ 33 ॥

  34. स मालया तदा वीरः शुशुभे कण्ठसक्तया शरीमान इव महाशैलॊ मलयॊ मेघमालया ॥ 34 ॥

  35. कृतचिह्नं तु सुग्रीवं रामॊ दृष्ट्वा महाधनुः विचकर्ष धनुःश्रेष्ठं वालिम उद्दिश्य लक्ष्यवत ॥ 35 ॥

  36. विस्फारस तस्य धनुषॊ यन्त्रस्येव तदा बभौ वितत्रास तदा वाली शरेणाभिहतॊ हृदि ॥ 36 ॥

  37. स भिन्नमर्माभिहतॊ वक्त्राच छॊणितम उद्वमन ददर्शावस्थितं रामम आरात सौमित्रिणा सह ॥ 37 ॥

  38. गर्हयित्वा स काकुत्स्थं पपात भुवि मूर्छितः तारा ददर्श तं भूमौ तारापतिम इव चयुतम ॥ 38 ॥

  39. हते वालिनि सुग्रीवः किष्किन्धां परत्यपद्यत तां च तारापतिमुखीं तारां निपतितेश्वराम ॥ 39 ॥

  40. रामस तु चतुरॊ मासान पृष्ठे माल्यवतः शुभे निवासम अकरॊद धीमान सुग्रीवेणाभ्युपस्थितः ॥ 40 ॥

  41. रावणॊ ऽपि पुरीं गत्वा लङ्कां कामबलात कृतः सीतां निवेशयाम आस भवने नन्दनॊपमे अशॊकवनिकाभ्याशे तापसाश्रमसंनिभे ॥ 41 ॥

  42. भर्तृस्मरण तन्व अङ्गी तापसी वेषधारिणी उपवासतपः शीला तत्र सा पृथुलेक्षणा उवास दुःखवसतीः फलमूलकृताशना ॥ 42 ॥

  43. दिदेश राक्षसीस तत्र रक्षणे राक्षसाधिपः परासासिशूलपरशु मुद्गरालात धारिणीः ॥ 43 ॥

  44. दव्यक्षीं तर्यक्षीं ललाटाक्षीं दीर्घजिह्वाम अजिह्विकाम तरिस्तनीम एकपादां च तरिजटाम एकलॊचनाम ॥ 44 ॥

  45. एताश चान्याश च दीप्ताक्ष्यः करभॊत्कट मूर्धजाः परिवार्यासते सीतां दिवारात्रम अतन्द्रिताः ॥ 45 ॥

  46. तास तु ताम आयतापाङ्गीं पिशाच्यॊ दारुणस्वनाः तर्जयन्ति सदा रौद्राः परुषव्यञ्जनाक्षराः ॥ 46 ॥

  47. खादाम पाटयामैनां तिलशः परविभज्य ताम येयं भर्तारम अस्माकम अवमन्येह जीवति ॥ 47 ॥

  48. इत्य एवं परिभर्त्सन्तीस तरास्यमाना पुनः पुनः भर्तृशॊकसमाविष्टा निःश्वस्येदम उवाच ताः ॥ 48 ॥

  49. आर्याः खादत मां शीघ्रं न मे लॊभॊ ऽसति जीविते विना तं पुन्दरीकाक्षं नीलकुञ्चित मूर्धजम ॥ 49 ॥

  50. अप्य एवाहं निराहारा जीवितप्रियवर्जिता शॊषयिष्यामि गात्राणि वयाली तालगता यथा ॥ 50 ॥

  51. न तव अन्यम अभिगच्छेयं पुमांसं राघवाद ऋते इति जानीत सत्यं मे करियतां यद अनन्तरम ॥ 51 ॥

  52. तस्यास तद वचनं शरुत्वा राक्षस्यस ताः खरस्वनाः आख्यातुं राक्षसेन्द्राय जग्मुस तत सर्वम आदितः ॥ 52 ॥

  53. गतासुतासु सर्वासु तरिजटा नाम राक्षसी सान्त्वयाम आस वैदेहीं धर्मज्ञा परियवादिनी ॥ 53 ॥

  54. सीते वक्ष्यामि ते किं चिद विश्वासं कुरु मे सखि भयं ते वयेतु वामॊरु शृणु चेदं वचॊ मम ॥ 54 ॥

  55. अविन्ध्यॊ नाम मेधावी वृद्धॊ राक्षसपुंगवः स रामस्य हितान्वेषी तवदर्थे हि स मावदत ॥ 55 ॥

  56. सीता मद्वचनाद वाच्या समाश्वास्य परसाद्य च भर्ता ते कुशली रामॊ लक्ष्मणानुगतॊ बली ॥ 56 ॥

  57. सख्यं वानरराजेन शक्र परतिमतेजसा कृतवान राघवः शरीमांस तवदर्थे च समुद्यतः ॥ 57 ॥

  58. मा च ते ऽसतु भयं भीरु रावणाल लॊकगर्हितात नलकूबर शापेन रक्षिता हय अस्य अनिन्दिते ॥ 58 ॥

  59. शप्तॊ हय एष पुरा पापॊ वधूं रम्भां परामृशन न शक्तॊ विवशां नारीम उपैतुम अजितेन्द्रियः ॥ 59 ॥

  60. कषिप्रम एष्यति ते भर्ता सुग्रीवेणाभिरक्षितः सौमित्रिसहितॊ धीमांस तवां चेतॊ मॊक्षयिष्यति ॥ 60 ॥

  61. सवप्ना हि सुमहाघॊरा दृष्टा मे ऽनिष्ट दर्शनाः विनाशायास्य दुर्बुद्धेः पौलस्त्य कुलघातिनः ॥ 61 ॥

  62. दारुणॊ हय एष दुष्टात्मा कषुद्रकर्मा निशाचरः सवभावाच छील दॊषेण सर्वेषां भयवर्धनः ॥ 62 ॥

  63. सपर्धते सर्वदेवैर यः कालॊपहतचेतनः मया विनाशलिङ्गानि सवप्ने दृष्टानि तस्य वै ॥ 63 ॥

  64. तैलाभिषिक्तॊ विकचॊ मज्जन पङ्के दशाननः असकृत खरयुक्ते तु रथे नृत्यन्न इव सथितः ॥ 64 ॥

  65. कुम्भकर्णादयश चेमे नग्नाः पतितमूर्धजाः कृष्यन्ते दक्षिणाम आशां रक्तमाल्यानुलेपनाः ॥ 65 ॥

  66. शवेतातपत्रः सॊष्णीषः शुक्लमाल्यविभूषणः शवेतपर्वतम आरूढ एक एव विभीषणः ॥ 66 ॥

  67. सचिवाश चास्य चत्वारः शुक्लमाल्यानुलेपनाः शवेतपर्वतम आरूढा मॊक्ष्यन्ते ऽसमान महाभयात ॥ 67 ॥

  68. रामस्यास्त्रेण पृथिवी परिक्षिप्ता ससागरा यशसा पृथिवीं कृत्स्नां पूरयिष्यति ते पतिः ॥ 68 ॥

  69. अस्थि संचयम आरूढॊ भुञ्जानॊ मधु पायसम लक्ष्मणश च मया दृष्टॊ निरीक्षन सर्वतॊदिशः ॥ 69 ॥

  70. रुदती रुधिरार्द्राङ्गी वयाघ्रेण परिरक्षिता असकृत तवं मया दृष्टा गच्छन्ती दुशम उत्तराम ॥ 70 ॥

  71. हर्षम एष्यसि वैदेहि कषिप्रं भर्तृसमन्विता राघवेण सह भरात्रा सीते तवम अचिराद इव ॥ 71 ॥

  72. इति सा मृगशावाक्षी तच छरुत्वा तरिजटा वचः बभूवाशावती बाला पुनर भर्तृसमागमे ॥ 72 ॥

  73. यावद अभ्यागता रौद्राः पिशाच्यस ताः सुदारुणाः ददृशुस तां तरिजटया सहासीनां यथा पुरा ॥ 73 ॥

Reach this point to mark the section finished.

Continue to अध्याय 265

Previous: अध्याय 263