धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 263

  1. [मार्क] सखा दशरथस्यासीज जटायुर अरुणात्मजः गृध्रराजॊ महावीर्यः संपातिर यस्य सॊदरः ॥ 1 ॥

  2. स ददर्श तदा सीतां रावणाङ्कगतां सनुषाम करॊधाद अभ्यद्रवत पक्षी रावणं राक्षसेश्वरम ॥ 2 ॥

  3. अथैनम अब्रवीद गृध्रॊ मुञ्च मुञ्चेति मैथिलीम धरियमाणे मयि कथं हरिष्यसि निशाचर न हि मे मॊक्ष्यसे जीवन यदि नॊत्सृजसे वधूम ॥ 3 ॥

  4. उक्त्वैवं राक्षसेन्द्रं तं चकर्त नखरैर भृशम पक्षतुण्डप्रहारैश च बहुशॊ जर्जरीकृतः चक्षार रुधिरं भूरि गिरिः परस्रवणैर इव ॥ 4 ॥

  5. स वध्यमानॊ गृध्रेण रामप्रियहितैषिणा खङ्गम आदाय चिच्छेद भुजौ तस्य पतत्रिणः ॥ 5 ॥

  6. निहत्य गृध्रराजं स छिन्नाभ्र शिखरॊपमम ऊर्ध्वम आचक्रमे सीतां गृहीत्वाङ्केन राक्षसः ॥ 6 ॥

  7. यत्र यत्र तु वैदेही पश्यत्य आश्रममण्डलम सरॊ वा सरितं वापि तत्र मुञ्चति भूषणम ॥ 7 ॥

  8. सा ददर्श गिरिप्रस्थे पञ्चवानरपुंगवान तत्र वासॊ महद दिव्यम उत्ससर्ज मनस्विनी ॥ 8 ॥

  9. तत तेषां वानरेन्द्राणां पपात पवनॊद्धुतम मध्ये सुपीतं पञ्चानां विद्युन मेघान्तरे यथा ॥ 9 ॥

  10. एवं हृतायां वैदेह्यां रामॊ हत्वा महामृगम निवृत्तॊ ददृशे धीमान भरातरं लक्ष्मणं तदा ॥ 10 ॥

  11. कथम उत्सृज्य वैदेहीं वने राक्षससेविते इत्य एवं भरातरं दृष्ट्वा पराप्तॊ ऽसीति वयगर्हयत ॥ 11 ॥

  12. मृगरूपधरेणाथ रक्षसा सॊ ऽपकर्षणम भरातुर आगमनं चैव चिन्तयन पर्यतप्यत ॥ 12 ॥

  13. गर्हयन्न एव रामस तु तवरितस तं समासदत अपि जीवति वैदेही नेति पश्यामि लक्ष्मण ॥ 13 ॥

  14. तस्य तत सर्वम आचख्यौ सीताया लक्ष्मणॊ वचः यद उक्तवत्य असदृशं वैदेही पश्चिमं वचः ॥ 14 ॥

  15. दह्यमानेन तु हृदा रामॊ ऽभयपतद आश्रमम स ददर्श तदा गृध्रं निहतं पर्वतॊपमम ॥ 15 ॥

  16. राक्षसं शङ्कमानस तु विकृष्य बलवद धनुः अभ्यधावत काकुत्स्थस ततस तं सह लक्ष्मणः ॥ 16 ॥

  17. स ताव उवाच तेजस्वी सहितौ रामलक्ष्मणौ गृध्रराजॊ ऽसमि भद्रं वां सखा दशरथस्य ह ॥ 17 ॥

  18. तस्य तद वचनं शरुत्वा संगृह्य धनुर ई शुभे कॊ ऽयं पितरम अस्माकं नाम्नाहेत्य ऊचतुश च तौ ॥ 18 ॥

  19. ततॊ ददृशतुस तौ तं छिन्नपल्ष दवयं तथा तयॊः शशंस गृध्रस तु सीतार्थे रावणाद वधम ॥ 19 ॥

  20. अपृच्छद राघवॊ गृध्रं रावणः कां दिशं गतः तस्य गृध्रः शिरः कम्पैर आचचक्षे ममार च ॥ 20 ॥

  21. दक्षिणाम इति काकुत्स्थॊ विदित्वास्य तद इङ्गितम सस्स्कारं लम्भयाम आस सखायं पूजयन पितुः ॥ 21 ॥

  22. ततॊ दृष्ट्वाश्रमपदं वयपविद्धबृसी घटम विध्वस्तकलशं शून्यं गॊमायुबलसेवितम ॥ 22 ॥

  23. दुःखशॊकसमाविष्टौ वैदेही हरणार्दितौ जग्मतुर दण्डकारण्यं दक्षिणेन परंतपौ ॥ 23 ॥

  24. वने महति तस्मिंस तु रामः सौमित्रिणा सह ददर्श मृगयूथानि दरवमाणानि सर्वशः शब्दं च घॊरं सत्त्वानां दावाग्नेर इव वर्धतः ॥ 24 ॥

  25. अपश्येतां मुहूर्ताच च कबन्धं घॊरदर्शनम मेघपर्वत संकाशं शालस्कन्धं महाभुजम उरॊगतविशालाक्षं महॊदरमहामुखम ॥ 25 ॥

  26. यदृच्छयाथ तद रक्षॊ करे जग्राह लक्ष्मणम विषादम अगमत सद्यॊ सौमित्रिर अथ भारत ॥ 26 ॥

  27. स रामम अभिसंप्रेक्ष्य कृष्यते येन तन्मुखम विषण्णश चाब्रवीद रामं पश्यावस्थाम इमां मम ॥ 27 ॥

  28. हरणं चैव वैदेह्या मम चायम उपप्लवः राज्यभ्रंशश च भवतस तातस्य मरणं तथा ॥ 28 ॥

  29. नाहं तवां सह वैदेह्या समेतं कॊसला गतम दरक्ष्यामि पृथिवी राज्ये पितृपैतामहे सथितम ॥ 29 ॥

  30. दरक्ष्यन्त्य आर्यस्य धन्या ये कुश लाज शमी लवैः अभिषिक्तस्य वदनं सॊमं साभ्र लवं यथा ॥ 30 ॥

  31. एवं बहुविधं धीमान विललाप स लक्ष्मणः तम उवाचाथ काकुत्स्थः संभ्रमेष्व अप्य असंभ्रमः ॥ 31 ॥

  32. मा विषादनरव्याघ्र नैष कश चिन मयि सथिते छिन्ध्य अस्य दक्षिणं बाहुं छिन्नः सव्यॊ मया भुजः ॥ 32 ॥

  33. इत्य एवं वदता तस्य भुजॊ रामेण पातितः खङ्गेन भृशतीक्ष्णेन निकृत्तस तिलकाण्डवत ॥ 33 ॥

  34. ततॊ ऽसय दक्षिणं बाहुं खङ्गेनाजघ्निवान बली सौमित्रिर अपि संप्रेक्ष्य भरातरं राघवं सथितम ॥ 34 ॥

  35. पुनर अभ्याहनत पार्श्वे तद रक्षॊ लक्ष्मणॊ भृशम गतासुर अपतद भूमौ कबन्धः सुमहांस ततः ॥ 35 ॥

  36. तस्य देहाद विनिःसृत्य पुरुषॊ दिव्यदर्शनः ददृशे दिवम आस्थाय दिवि सूर्य इव जवलन ॥ 36 ॥

  37. पप्रच्छ रामस तं वाग्मी कस तवं परब्रूहि पृच्छतः कामया किम इदं चित्रम आश्चर्यं परतिभाति मे ॥ 37 ॥

  38. तस्याचचक्षे गन्धर्वॊ विश्वावसुर अहं नृप पराप्तॊ बरह्मानुशापेन यॊनिं राक्षससेविताम ॥ 38 ॥

  39. रावणेन हृता सीता राज्ञा लङ्कानिवासिना सुग्रीवम अभिगच्छस्व स ते साह्यं करिष्यति ॥ 39 ॥

  40. एषा पम्पा शिवजला हंसकारण्ड वायुता ऋश्यमूकस्य शैलस्य संनिकर्षे तटाकिनी ॥ 40 ॥

  41. संवसत्य अत्र सुग्रीवश चतुर्भिः सचिवैः सह भराता वानरराजस्य वालिनॊ मेह मालिनः ॥ 41 ॥

  42. एतावच छक्यम अस्माभिर वक्तुं दरष्टासि जानकीम धरुवं वानरराजस्य विदितॊ रावणालयः ॥ 42 ॥

  43. इत्य उक्त्वान्तर्हितॊ दिव्यः पुरुषः स महाप्रभः विस्मयं जग्मतुश चॊभौ तौ वीरौ रामलक्ष्मणौ ॥ 43 ॥

Reach this point to mark the section finished.

Continue to अध्याय 264

Previous: अध्याय 262