धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 25

  1. [वै] ततस तेषु परयातेषु कौन्तेयः सत्यसंगरः अभ्यभाषत धर्मात्मा भरातॄन सर्वान युधिष्ठिरः ॥ 1 ॥

  2. दवादशेमाः समास्माभिर वस्तव्यं निर्जने वने समीक्षध्वं महारण्ये देशं बहुमृगद्विजम ॥ 2 ॥

  3. बहुपुष्पफलं रम्यं शिवं पुण्यजनॊचितम यत्रेमाः शरदः सर्वाः सुखं परतिवसेमहि ॥ 3 ॥

  4. एवम उक्ते परत्युवाच धर्मराजं धनंजयः गुरुवन मानव गुरुं मानयित्व मनस्विनम ॥ 4 ॥

  5. [अर] भवान एव महर्षीणां वृद्धानां पर्युपासिता अज्ञातं मानुषे लॊके भवतॊ नास्ति किं चन ॥ 5 ॥

  6. तवया हय उपासिता नित्यं बराह्मणा भरतर्षभ दवैपायनप्रभृतयॊ नारदश च महातपाः ॥ 6 ॥

  7. यः सर्वलॊकद्वाराणि नित्यं संचरते वशी देवलॊकाद बरह्मलॊकं गन्धर्वाप्सरसाम अपि ॥ 7 ॥

  8. सर्वा गतीर विजानासि बराह्मणानां न संशयः परभावांश चैव वेत्थ तवं सर्वेषाम एव पार्थिव ॥ 8 ॥

  9. तवम एव राजञ जानासि शरेयः कारणम एव च यत्रेच्छसि महाराज निवासं तत्र कुर्महे ॥ 9 ॥

  10. इदं दवैतवनं नाम सरः पुण्यजनॊचितम बहुपुष्पफलं रम्यं नानाद्विजनिषेवितम ॥ 10 ॥

  11. अत्रेमा दवादश समा विहरेमेति रॊचये यदि ते ऽनुमतं राजन किं वान्यन मन्यते भवान ॥ 11 ॥

  12. [य] ममाप्य एतन मतं पार्थ तवया यत समुदाहृतम गच्छाम पुण्यं विख्यातं महद दवैतवनं सरः ॥ 12 ॥

  13. [वै] ततस ते परययुः सर्वे पाण्डवा धर्मचारिणः बराह्मणैर बहुभिः सार्धं पुण्यं दवैतवनं सरः ॥ 13 ॥

  14. बराह्मणाः साग्निहॊत्राश च तथैव च निरग्नयः सवाध्यायिनॊ भिक्षवश च सजपा वनवासिनः ॥ 14 ॥

  15. बहवॊ बराह्मणास तत्र परिवव्रुर युधिष्ठिरम तपस्विनः सत्यशीलाः शतशः संशितव्रताः ॥ 15 ॥

  16. ते यात्वा पाण्डवास तत्र बहुभिर बराह्मणैः सह पुण्यं दवैतवनं रम्यं विविशुर भरतर्षभाः ॥ 16 ॥

  17. तच छाल तालाम्र मधूकनीप; कदम्बसर्जार्जुन कर्णिकारैः तपात्यये पुष्पधरैर उपेतं; महावनं राष्ट्रपतिर ददर्श ॥ 17 ॥

  18. महाद्रुमाणां शिखरेषु तस्थुर; मनॊरमां वाचम उदीरयन्तः मयूरदात्यूह चकॊर संघास; तस्मिन वने काननकॊकिलाश च ॥ 18 ॥

  19. करेणुयूथैः सह यूथपानां; मदॊत्कटानाम अचलप्रभाणाम महान्ति यूथानि महाद्विपानां; तस्मिन वने राष्ट्रपतिर ददर्श ॥ 19 ॥

  20. मनॊरमां भॊगवतीम उपेत्य; धृतात्मानं चीरजटा धराणाम तस्मिन वने धर्मभृतां निवासे; ददर्श सिद्धर्षिगणान अनेकान ॥ 20 ॥

  21. ततः स यानाद अवरुह्य राजा; सभ्रातृकः सजनः काननं तत विवेश धर्मात्मवतां वरिष्ठस; तरिविष्टपं शक्र इवामितौजाः ॥ 21 ॥

  22. तं सत्यसंधं सहिताभिपेतुर; दिदृक्षवश चारणसिद्धसंघाः वनौकसश चापि नरेन्द्र सिंहं; मनस्विनं संपरिवार्य तस्थुः ॥ 22 ॥

  23. स तत्र सिद्धान अभिवाद्य सर्वान; परत्यर्चितॊ राजवद देववच च विवेश सर्वैः सहितॊ दविजाग्र्यैः; कृताञ्जलिर धर्मभृतां वरिष्ठः ॥ 23 ॥

  24. स पुण्यशीलः पितृवन महात्मा; तपस्विभिर धर्मपरैर उपेत्य परत्यर्चितः पुष्पधरस्य मूले; महाद्रुमस्यॊपविवेश राजा ॥ 24 ॥

  25. भीमश च कृष्णा च धनंजयश च; यमौ च ते चानुचरा नरेन्द्रम विमुच्य वाहान अवरुह्य सर्वे; तत्रॊपतस्थुर भरत परबर्हाः ॥ 25 ॥

  26. लतावतानावनतः स पाण्डवैर; महाद्रुमः पञ्चभिर उग्रधन्विभिः बभौ निवासॊपगतैर महात्मभिर; महागिरिर वारणयूथपैर इव ॥ 26 ॥

Reach this point to mark the section finished.

Continue to अध्याय 26

Previous: अध्याय 24