धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 256

  1. [वै] जयद्रथस तु संप्रेक्ष्य भरातराव उद्यतायुधौ पराद्रवत तूर्णम अव्यग्रॊ जीवितेप्सुः सुदुःखितः ॥ 1 ॥

  2. तं भीमसेनॊ धावन्तम अवतीर्य रथाद बली अभिद्रुत्य निजग्राह केशपक्षे ऽतयमर्षणः ॥ 2 ॥

  3. समुद्यम्य च तं रॊषान निष्पिपेष महीतले गले गृहीत्वा राजानं ताडयाम आस चैव ह ॥ 3 ॥

  4. पुनः संजीवमानस्य तस्यॊत्पतितुम इच्छतः पदा मूर्ध्नि महाबाहुः पराहरद विलपिष्यतः ॥ 4 ॥

  5. तस्य जानुं ददौ भीमॊ जघ्ने चैनम अरत्निना स मॊहम अगमद राजा परहार वरपीडितः ॥ 5 ॥

  6. विरॊषं भीमसेनं तु वारयाम आस फल्गुनः दुःशलायाः कृते राजा यत तद आहेति कौरव ॥ 6 ॥

  7. [भीमसेन] नायं पापसमाचारॊ मत्तॊ जीवितुम अर्हति दरौपद्यास तद अनर्हायाः परिक्लेष्टा नराधमः ॥ 7 ॥

  8. किं नु शक्यं मया कर्तुं यद राजा सततं घृणी तवं च बालिशया बुद्ध्या सदैवास्मान परबाधसे ॥ 8 ॥

  9. एवं कुत्वा सटास तस्य पञ्च चक्रे वृकॊदरः अर्धचन्द्रेण बाणेन किं चिद अब्रुवतस तदा ॥ 9 ॥

  10. विकल्पयित्वा राजानं ततः पराह वृकॊदरः जीवितुं चेच्छसे मूढ हेतुं मे गदतः शृणु ॥ 10 ॥

  11. दासॊ ऽसमीति तवया वाच्यं संसत्सु च सभासु च एवं ते जीवितं दद्याम एष युद्धजितॊ विधिः ॥ 11 ॥

  12. एवम अस्त्व इति तं राजा कृच्छ्रप्राणॊ जयद्रथः परॊवाच पुरुषव्याघ्रं भीमम आहवशॊभिनम ॥ 12 ॥

  13. तत एनं विचेष्टन्तं बद्ध्वा पार्थॊ वृकॊदरः रथम आरॊपयाम आस विसंज्ञं पांसुगुण्ठितम ॥ 13 ॥

  14. ततस तं रथम आस्थाय भीमः पार्थानुगस तदा अभ्येत्याश्रममध्यस्थम अभ्यगच्छद युधिष्ठिरम ॥ 14 ॥

  15. दर्शयाम आस भीमस तु तदवस्थं जयद्रथम तं राजा पराहसद दृष्ट्वा मुच्यताम इति चाब्रवीत ॥ 15 ॥

  16. राजानं चाब्रवीद भीमॊ दरौपद्यै कथयेति वै दासभावं गतॊ हय एष पाण्डूनां पापचेतनः ॥ 16 ॥

  17. तम उवाच ततॊ जयेष्ठॊ भराता संप्रणयं वचः मुञ्चैनम अधमाचारं परमाणं यदि ते वयम ॥ 17 ॥

  18. दरौपदी चाब्रवीद भीमम अभिप्रेक्ष्य युधिष्ठिरम दासायं मुच्यतां राज्ञस तवया पञ्च सटः कृतः ॥ 18 ॥

  19. स मुक्तॊ ऽभयेत्य राजानम अभिवाद्य युधिष्ठिरम ववन्दे विह्वलॊ राजा तांश च सर्वान मुनींस तदा ॥ 19 ॥

  20. तम उवाच घृणी राजा धर्मपुत्रॊ युधिष्ठिरः तथा जयद्रथं दृष्ट्वा गृहीतं सव्यसाचिना ॥ 20 ॥

  21. अदासॊ गच्छ मुक्तॊ ऽसि मैवं कार्षीः पुनः कव चित सत्री कामुक धिग अस्तु तवां कषुद्रः कषुद्रसहायवान एवंविधं हि कः कुर्यात तवदन्यः पुरुषाधमः ॥ 21 ॥

  22. गतसत्त्वम इव जञात्वा कर्तारम अशुभस्य तम संप्रेक्ष्य भरतश्रेष्ठः कृपां चक्रे नराधिपः ॥ 22 ॥

  23. धर्मे ते वर्धतां बुद्धिर मा चाधर्मे मनॊ कृथाः साश्वः सरथ पादातः सवस्ति गच्छ जयद्रथ ॥ 23 ॥

  24. एवम उक्तस तु सव्रीडं तूष्णीं किं चिद अवाङ्मुखः जगाम राजा दुःखार्तॊ गङ्गा दवाराय भारत ॥ 24 ॥

  25. स देवं शरणं गत्वा विरूपाक्षम उमापतिम तपॊ चचार विपुलं तस्य परीतॊ वृषध्वजः ॥ 25 ॥

  26. बलिं सवयं परत्यगृह्णात परीयमाणस तरिलॊचनः वरं चास्मै ददौ देवः स च जग्राह तच छृणु ॥ 26 ॥

  27. समस्तान सरथान पञ्च जयेयं युधि पाण्डवान इति राजाब्रवीद देवं नेति देवस तम अब्रवीत ॥ 27 ॥

  28. अजय्यांश चाप्य अवध्यांश च वारयिष्यसि तान युधि ऋते ऽरजुनं महाबाहुं देवैर अपि दुरासदम ॥ 28 ॥

  29. यम आहुर अजितं देवं शङ्खचक्रगदाधरम परधानः सॊ ऽसत्रविदुषां तेन कृष्णेन रक्ष्यते ॥ 29 ॥

  30. एवम उक्तस तु नृपतिः सवम एव भवनं ययौ पाण्डवाश च वने तस्मिन नयवसन काम्यके तदा ॥ 30 ॥

Reach this point to mark the section finished.

Continue to अध्याय 257

Previous: अध्याय 255