[वै] संतिष्ठत परहरत तूर्णं विपरिधावत इति सम सैधवॊ राजा चॊदयाम आस तान नृपान ॥ 1 ॥
ततॊ घॊरतरः शब्दॊ रणे समभवत तदा भीमार्जुनयमान दृष्ट्वा सैन्यानां सयुधिष्ठिरान ॥ 2 ॥
शिबिसिन्धुत्रिगर्तानां विषादश चाप्य अजायत तान दृष्ट्वा पुरुषव्याघ्रान वयाघ्रान इव बलॊत्कटान ॥ 3 ॥
हेमचित्रसमुत्सेधां सर्वशैक्यायसीं गदाम परगृह्याभ्यद्रवद भीमः सैन्धवं कालचॊदितम ॥ 4 ॥
तदन्तरम अथावृत्य कॊटिकाश्यॊ ऽभयहारयत महता रथवंशेन परिवार्य वृकॊदरम ॥ 5 ॥
शक्तितॊमरनाराचैर वीरबाहुप्रचॊदितैः कीर्यमाणॊ ऽपि बहुभिर न सम भीमॊ ऽभयकम्पत ॥ 6 ॥
गजं तु सगजारॊहं पदातींश च चतुर्दश जघान गदया भीमः सैन्धव धवजिनीमुखे ॥ 7 ॥
पार्थः पञ्चशताञ शूरान पार्वतीयान महारथान परीप्समानः सौवीरं जघान धवजिनीमुखे ॥ 8 ॥
राजा सवयं सुवीराणां परवराणां परहारिणाम निमेष मात्रेण शतं जघान समरे तदा ॥ 9 ॥
ददृशे नकुलस तत्र रथात परस्कन्द्य खड्गधृक सिरांसि पादरक्षाणां बीजवत परवपन मुहुः ॥ 10 ॥
सहदेवस तु संयाय रथेन जग यॊधिनः पातयाम आस नाराचैर दरुमेभ्य इव बर्हिणः ॥ 11 ॥
ततस तरिगर्गः सधनुर अवतीर्य महारथात गदया चतुरॊ वाहान राज्ञस तस्य तदावधीत ॥ 12 ॥
तम अभ्याशगतं राजा पदातिं कुन्तिनन्दनः अर्धचन्द्रेण बाणेन विव्याधॊरसि धर्मराट ॥ 13 ॥
स भिन्नहृदयॊ वीरॊ वक्त्राच छॊणितम ऊद्वमन पपाताभिमुखः पार्थं छिन्नमूल इव दरुमः ॥ 14 ॥
इन्द्रसेन दवितीयस तु रथात परस्कन्द्य धर्मराज हताश्वः सहदेवस्य परतिपेदे महारथम ॥ 15 ॥
नकुलं तव अभिसंधाय कषेमं करमहामुखौ उभाव उभयतस तीक्ष्णैः शरवर्षैर अवर्षताम ॥ 16 ॥
तौ शरैर अभिवर्षन्तौ जीमूताव इव वार्षिकौ एकैकेन विपाठेन जघ्ने माद्रवतीसुतः ॥ 17 ॥
तरिगर्तराजः सुरथस तस्याथ रथधूर गतः रथम आक्षेपयाम आस गजेन गजयानवित ॥ 18 ॥
नकुलस तव अपभीस तस्माद रथाच चर्मासि पाणिमान उद्भ्रान्तं सथानम आस्थाय तस्थौ गिरिर इवाचलः ॥ 19 ॥
सुरथस तं गजवरं वधाय नकुलस्य तु परेषयाम आस सक्रॊधम अभ्युच्छ्रितकरं ततः ॥ 20 ॥
नकुलस तस्य नागस्य समीपपरिवर्तिनः सविषाणं भुजं मूले खड्गेन निरकृन्तत ॥ 21 ॥
स विनद्य महानादं जगः कङ्कण भूषणः पतन्न अवाक्शिरा भूमौ हस्त्यारॊहान अपॊथयत ॥ 22 ॥
स तत कर्म महत कृत्वा शूरॊ माद्रवतीसुतः भीमसेनरथं पराप्य शर्म लेभे महारथः ॥ 23 ॥
भीमस तव आपततॊ राज्ञः कॊटिकाश्यस्य संगरे सूतस्य नुदतॊ वाहान कषुरेणापाहरच छिरः ॥ 24 ॥
न बुबॊध हतं सूतं स राजा बाहुशालिना तस्याश्वा वयद्रवन संख्ये हतसूतास ततस ततः ॥ 25 ॥
विमुखं हतसूतं तं भीमः परहरतां वरः जघान तलयुक्तेन परासेनाभ्येत्य पाण्डवः ॥ 26 ॥
दवादशानां तु सर्वेषां सौवीराणां धनंजयः चकर्त निषितैर भल्लैर धनूंषि च शिरांसि च ॥ 27 ॥
शिबीन इक्ष्वाकुमुख्यांश च तरिगर्तान सैधवान अपि जघानातिरथः संख्ये बाणगॊचरम आगतान ॥ 28 ॥
सादिताः परत्यदृश्यन्त बहवः सव्यसाचिना सपताकाश च मातङ्गाः साद्वजाश च महारथाः ॥ 29 ॥
परच्छाद्य पृथिवीं तस्थुः सर्वम आयॊधनं परति शरीराण्य अशिरस्कानि विदेहानि शिरांसि च ॥ 30 ॥
शवगृध्रकङ्ककाकॊल भासगॊमायुवायसाः अतृप्यंस तत्र वीराणां हतानां मांसशॊणितैः ॥ 31 ॥
हतेषु तेषु वीरेषु सिन्धुराजॊ जयद्रथः विमुच्य कृष्णां संत्रस्तः पलायनपरॊ ऽभवत ॥ 32 ॥
स तस्मिन संकुले सैन्ये दरौपदीम अवतार्य वै पराणप्रेप्सुर उपाधावद वनं येन नराधमः ॥ 33 ॥
दरौपदीं धर्मराजस तु दृष्ट्वा धौम्य पुरस्कृताम माद्रीपुत्रेण वीरेण रथम आरॊपयत तदा ॥ 34 ॥
ततस तद विद्रुतं सैन्यम अपयाते जयद्रथे आदिश्यादिश्य नाराचैर आजघान वृकॊदरः ॥ 35 ॥
सव्यसाची तु तं दृष्ट्वा पलायन्तं जयद्रथम वारयाम आस निघ्नन्तं भीमं सैन्धव सैनिकान ॥ 36 ॥
[अर्ज] यस्यापचारात पराप्तॊ ऽयम अस्मान कलेशॊ दुरासदः तम अस्मिन समरॊद्देशे न पश्यामि जयद्रथम ॥ 37 ॥
तम एवान्विष भद्रं ते किं ते यॊधैर निपातितैः अनामिषम इदं कर्म कथं वा मन्यते भवान ॥ 38 ॥
[वै] इत्य उक्तॊ भीमसेनस तु गुडाकेशेन धीमता युधिष्ठिरम अभिप्रेक्ष्य वाग्मी वचनम अब्रवीत ॥ 39 ॥
हतप्रवीरा रिपवॊ भूयिष्ठं विद्रुता दिशः गृहीत्वा दरौपदीं राजन निवर्ततु भवान इतः ॥ 40 ॥
यमाभ्यां सह राजेन्द्र धौम्येन च महात्मना पराप्याश्रमपदं राजन दरौपदीं परिसान्त्वय ॥ 41 ॥
न हि मे मॊक्ष्यते जीवन मूढः सैन्धवकॊ नृपः पातालतलसंस्थॊ ऽपि यदि शक्रॊ ऽसय सारथिः ॥ 42 ॥
[य] न हन्तव्यॊ महाबाहॊ दुरात्मापि स सैन्धवः उःशलाम अभिसंस्मृत्य गान्धारीं च यशस्विनीम ॥ 43 ॥
[वै] तच छरुत्वा दरौपदी भीमम उवाच वयाकुलेन्द्रिया कुपिता हरीमती पराज्ञा पती भीमार्जुनाव उभौ ॥ 44 ॥
कर्तव्यं चेत परियं मह्यं वध्यः स पुरुषाधमः सैन्धवापसदः पापॊ दुर्मतिः कुलपांसनः ॥ 45 ॥
भार्याभिहर्ता निर्वैरॊ यश च राज्यहरॊ रिपुः याचमानॊ ऽपि संग्रामे न स जीवितुम अर्हति ॥ 46 ॥
इत्य उक्तौ तौ नरव्याघ्रौ ययतुर यत्र सैन्धवः राजा निववृते कृष्णाम आदाय सपुरॊहितः ॥ 47 ॥
स परविश्याश्रमपदं वयपविद्धबृसी घटम मार्कण्डेयाधिभिर विप्रैर अनुकीर्णं ददर्श ह ॥ 48 ॥
दरौपदीम अनुशॊचद्भिर बराह्मणैस तैः समागतैः समियाय मरा पराज्ञः सभार्यॊ भरातृमध्यगः ॥ 49 ॥
ते सम तं मुदिता दृष्ट्वा पुनर अभ्यागतं नृपम जित्वा तान सिन्धुसौवीरान दरौपदीं चाहृतां पुनः ॥ 50 ॥
स तैः परिवृतॊ राजा तत्रैवॊपविवेश ह परविवेशाश्रमं कृष्णा यमाभ्यां सह भामिनी ॥ 51 ॥
भीमार्जुनाव अपि शरुत्वा करॊशमात्रगतं रिपुम सवयम अश्वांस तुदन्तौ तौ जवेनैवाभ्यधावताम ॥ 52 ॥
इदम अत्यद्भुतं चात्र चकार पुरुषॊ ऽरजुनः करॊशमात्रगतान अश्वान सैन्धवस्य जघान यत ॥ 53 ॥
स हि दिव्यास्त्रसंपन्नः कृच्छ्रकाले ऽपय असंभ्रमः अकरॊद दुष्करं कर्म शरैर अस्त्रानुमन्त्रितैः ॥ 54 ॥
ततॊ ऽभयधावतां वीराव उभौ भीम धनंजयौ हताश्वं सैन्धवं भीतम एकं वयाकुलचेतसम ॥ 55 ॥
सैन्धवस तु हतान दृष्ट्वा तथाश्वान सवान सुदुःखितः दृष्ट्वा विक्रमकर्माणि कुर्वाणं च धनंजयम पलायनकृतॊत्साहः पराद्रवद येन वै वनम ॥ 56 ॥
सैन्धवं तवाभिसंप्रेक्ष्य पराक्रान्तं पलायने अनुयाय महाबाहुः फल्गुनॊ वाक्यम अब्रवीत ॥ 57 ॥
अनेन वीर्येण कथं सत्रियं परार्थयसे बलात राजपुत्र निवर्तस्व न ते युक्तं पलायनम कथं चानुचरान हित्वा शत्रुमध्ये पलायसे ॥ 58 ॥
इत्य उच्यमानः पार्थेन सैधवॊ न नयवर्तत तिष्ठ तिष्ठेति तं भीमः सहसाभ्यद्रवद बली मा वधीर इति पार्थस तं दयावान अभ्यभाषत ॥ 59 ॥
वनपर्व · Vana Parva
अध्याय 255
Reach this point to mark the section finished.
Continue to अध्याय 256