[जनम] एवं हृतायां कृष्णायां पराप्य कलेशम अनुत्तमम अत ऊर्ध्वं नरव्याघ्राः किम अकुर्वत पाण्डवाः ॥ 1 ॥
[वै] एवं कृष्णां मॊक्षयित्वा विनिर्जित्य जयद्रथम आसां चक्रे मुनिगणैर धर्मराजॊ युधिष्ठिरः ॥ 2 ॥
तेषां मध्ये महर्षीणां शृण्वताम अनुशॊचताम मार्कण्डेयम इदं वाक्यम अब्रवीत पाण्डुनन्दनः ॥ 3 ॥
मन्ये कालश च बलवान दैवं च विधिनिर्मितम भवितव्यं च भूतानां यस्य नास्ति वयतिक्रमः ॥ 4 ॥
कथं हि पत्नीम अस्माकं धर्मज्ञां धर्मचारिणीम संस्पृशेद ईदृशॊ भावः शुचिं सतैन्यम इवानृतम ॥ 5 ॥
न हि पापं कृतं किं चित कर्म वा निन्दितं कव चित दरौपद्या बराह्मणेष्व एव धर्मः सुचरितॊ महान ॥ 6 ॥
तां जहार बलाद राजा मूढ बुद्धिर जयद्रथः तस्याः संहरणात पराप्तः शिरसः केशवापनम पराजयं च संग्रामे ससहायः समाप्तवान ॥ 7 ॥
परत्याहृता तथास्माभिर हत्वा तत सैन्धवं बलम तद दारहरणं पराप्तम अस्माभिर अवितर्कितम ॥ 8 ॥
दुःखश चायं वनेवासॊ मृगयायां च जीविका हिंसा च मृगजातीनां वनौकॊभिर वनौकसाम जञातिभिर विप्रवासश च मिथ्या वयवसितैर अयम ॥ 9 ॥
अस्ति नूनं मया कश चिद अल्पभाग्यतरॊ नरः भवता दृष्टपूर्वॊ वा शरुतपूर्वॊ ऽपि वा भवेत ॥ 10 ॥
वनपर्व · Vana Parva
अध्याय 257
Reach this point to mark the section finished.
Continue to अध्याय 258