धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 252

  1. [वै] सरॊषरागॊपहतेन वल्गुना; सराग नेत्रेण नतॊन्नत भरुवा मुखेन विस्फूर्य सुवीर राष्ट्रपं; ततॊ ऽबरवीत तं दरुपदात्मजा पुनः ॥ 1 ॥

  2. यशस्विनस तीक्ष्णविषान महारथान; अधिक्षिपन मूढ न लज्जसे कथम महेन्द्रकल्पान निरतान सवकर्मसु; सथितान समूहेष्व अपि यक्षरक्षसाम ॥ 2 ॥

  3. न किं चिद ईड्यं परवदन्ति पापं; वनेचरं वा गृहमेधिनं वा तपस्विनं संपरिपूर्ण विद्यं; भषन्ति हैवं शवनराः सुवीर ॥ 3 ॥

  4. अहं तु मन्ये तव नास्ति कश चिद; एतादृशे कषत्रिय संनिवेशे यस तवाद्य पातालमुखे पतन्तं; पाणौ गृहीत्वा परतिसंहरेत ॥ 4 ॥

  5. नागं परभिन्नं गिरिकूट कल्पम; उपत्यकां हैमवतीं चरन्तम दण्डीव यूथाद अपसेधसे तवं; यॊ जेतुम आशंससि धर्मराजम ॥ 5 ॥

  6. बाल्यात परसुप्तस्य महाबलस्य; सिंहस्य पक्ष्माणि मुखाल लुनासि पदा समाहत्य पलायमानः; करुद्धं यदा दरक्ष्यसि भीमसेनम ॥ 6 ॥

  7. महाबलं घॊरतरं परवृद्धं; जातं हरिं पर्वत कन्दरेषु परसुप्तम उग्रं परपदेन हन्सि; यः करुद्धम आसेत्स्यसि जिष्णुम उग्रम ॥ 7 ॥

  8. कृष्णॊरगौ कीक्ष्ण विषौ दविजिह्वौ; मत्तः पदाक्रामसि पुच्छ देशे यः पाण्डवाभ्यां पुरुषॊत्तमाभ्यां; जघन्यजाभ्यां परयुयुत्ससे तवम ॥ 8 ॥

  9. यथा च वेणुः कदली नलॊ वा; फलन्त्य अभावाय न भूतये ऽऽतमनः तथैव मां तैः परिरक्ष्यमाणम; आदास्यसे कर्कटकीव गर्भम ॥ 9 ॥

  10. [जयद] जानामि कृष्णे विदितं ममैतद; यथाविधास ते नरदेव पुत्राः न तव एवम एतेन विभीषणेन; शक्या वयं तरासयितुं तवयाद्य ॥ 10 ॥

  11. वयं पुनः सप्त दशेषु कृष्णे; कुलेषु सर्वे ऽनवमेषु जाताः षड्भ्यॊ गुणेभ्यॊ ऽभयधिका विहीनान; मन्यामह्ये दरौपदि पाण्टु पुत्रान ॥ 11 ॥

  12. सा कषिप्रम आतिष्ठ गजं रथं वा; न वाक्यमात्रेण वयं हि शक्याः आशंस वा तवं कृपणं वदन्ती; सौवीरराजस्य पुनः परसादम ॥ 12 ॥

  13. [दरौ] महाबला हिं तव इह दुर्बलेव; सौवीरराजस्य मताहम अस्मि याहं परमाथाद इह संप्रतीता; सौवीरराजं कृपणं वदेयम ॥ 13 ॥

  14. यस्या हि कृष्णौ पदवीं चरेतां; समास्थिताव एकरथे सहायौ इन्द्रॊ ऽपि तां नापहरेत कथं चिन; मनुष्यमात्रः कृपणः कुतॊ ऽनयः ॥ 14 ॥

  15. यदा किरीटी परवीर घाती; निघ्नन रथस्थॊ दविषतां मनांसि मदन्तरे तवद धवजिनीं परवेष्टा; कक्षं दहन्न अग्निर इवॊष्णगेषु ॥ 15 ॥

  16. जनार्दनस्यानुगा वृष्णिवीरा; महेष्वासाः केकयाश चापि सर्वे एते हि सर्वे मम राजपुत्राः; परहृष्टरूपाः पदवीं चरेयुः ॥ 16 ॥

  17. मौर्वी विसृष्टाः सतनयित्नुघॊषा; गाण्डीवमुक्तास तव अतिवेगवन्तः हस्तं समाहत्य धनंजयस्य; भीमाः शब्दं घॊरतरं नदन्ति ॥ 17 ॥

  18. गाण्डीवमुक्तांश च महाशरौघान; पतंगसंघान इव शीघ्रवेगान सशङ्खघॊषः सतलत्र घॊषॊ; गाण्डीवधन्वा मुहुर उद्वमंश च यदा शरान अर्पयिता तवॊरसि; तदा मनस ते किम इवाभविष्यत ॥ 18 ॥

  19. गदाहस्तं भीमम अभिद्रवन्तं; माद्रीपुत्रौ संपतन्तौ दिशश च अमर्षजं करॊधविषं वमन्तौ; दृष्ट्वा चिरं तापम उपैष्यसे ऽधम ॥ 19 ॥

  20. यथा चाहं नातिचरे कथं चित; पतीन महार्हान मनसापि जातु तेनाद्य सत्येन वशीकृतं तवां; दरष्टास्मि पार्थैः परिकृष्यमाणम ॥ 20 ॥

  21. न संभ्रमं गन्तुम अहं हि शक्ष्ये; तवया नृशंसेन विकृष्यमाणा समागताहं हि कुरुप्रवीरैः; पुनर वनं काम्यकम आगता च ॥ 21 ॥

  22. [वै] सा तान अनुप्रेक्ष्य विशालनेत्रा; जिघृक्षमाणान अवभर्त्सयन्ती परॊवाच मा मां सपृशतेति भीता; धौम्यं पचुक्रॊश पुरॊहितं सा ॥ 22 ॥

  23. जग्राह ताम उत्तरवस्त्रदेशे; जयद्रथस तं समवाक्षिपत सा तया समाक्षिप्त तनुः स पापः; पपात शाखीव निकृत्तमूलः ॥ 23 ॥

  24. परगृह्यमाणा तु महाजवेन; मुहुर विनिःश्वस्य च राजपुत्री सा कृष्यमाणा रथम आरुरॊह; दौम्यस्य पादाव अभिवाद्य कृष्णा ॥ 24 ॥

  25. [धौम्य] नेयं शक्या तवया नेतुम अविजित्य महारथान धर्मं कषत्रस्य पौराणम अवेक्षस्व जयद्रथ ॥ 25 ॥

  26. कषुद्रं कृत्वा फलं पापं पराप्स्यसि तवम असंशयम आसाद्य पाण्डवान वीरान धर्मराज पुरॊगमान ॥ 26 ॥

  27. [वै] इत्य उक्त्वा हरियमाणां तां राजपुत्रीं यशस्विनीम अन्वगच्छत तदा धौम्यः पदातिगणमध्यगः ॥ 27 ॥

Reach this point to mark the section finished.

Continue to अध्याय 253

Previous: अध्याय 251