[वै] अथासीनेषु सर्वेषु तेषु राजसु भारत कॊटिकाश्य वचॊ शरुत्वा शैब्यं सौवीरकॊ ऽबरवीत ॥ 1 ॥
यदा वाचं वयाहरन्त्याम अस्यां मे रमते मनः सीमन्तिनीनां मुख्यायां विनिवृत्तः कथं भवान ॥ 2 ॥
एतां दृष्ट्वा सत्रियॊ मे ऽनया यथा शाखामृगस्त्रियः परतिभान्ति महाबाहॊ सत्यम एतद बरवीमि ते ॥ 3 ॥
दर्शनाद एव हि मनस तया मे ऽपहृतं भृशम तां समाचक्ष्व कल्याणीं यदि सयाच छैब्य मानुषी ॥ 4 ॥
[कॊटि] एषा वै दरौपदी कृष्णा राजपुत्री यशस्विनी पञ्चानां पाण्डुपुत्राणां महिषी संमता भृशम ॥ 5 ॥
सर्वेषां चैव पार्थानां परिया बहुमता सती तया समेत्य सौवीर सुवीरान सुसुखी वरज ॥ 6 ॥
[वै] एवम उक्तः परत्युवाच पश्यामॊ दरौपदीम इति पतिः सौवीरसिन्धूनां दुष्टभावॊ जयद्रथः ॥ 7 ॥
स परविश्याश्रमं शून्यं सिंहगॊष्ठं वृकॊ यथा आत्मना सप्तमः कृष्णाम इदं वचनम अब्रवीत ॥ 8 ॥
कुशलं ते वरारॊहे भर्तारस ते ऽपय अनामयाः येषां कुशलकामासि ते ऽपि कच चिद अनामयाः ॥ 9 ॥
[दरौ] कौरव्यः कुशली राजा कुन्तीपुत्रॊ युधिष्ठिरः अहं च भरातरश चास्य यांश चान्यान परिपृच्छसि ॥ 10 ॥
पाद्यं परतिगृहाणेदम आसनं च नृपात्मज मृगान पञ्चाशतं चैव परातर आशं ददानि ते ॥ 11 ॥
ऐणेयान पृषतान नयङ्कून हरिणाञ शरभाञ शशान ऋश्यान रुरूञ शम्बरांश च गवयांश च मृगान बहून ॥ 12 ॥
वराहान महिषांश चैव याश चान्या मृगजातयः परदास्यति सवयं तुभ्यं कुन्तीपुत्रॊ युधिष्ठिरः ॥ 13 ॥
[जयद] कुशलं परातर आशस्य सर्वा मे ऽपचितिः कृता एहि मे रथम आरॊह सुखम आप्नुहि केवलम ॥ 14 ॥
गतश्रीकांश चयुतान राज्यात कृपणान गतचेतसः अरण्यवासिनः पार्थान नानुरॊद्धुं तवम अर्हसि ॥ 15 ॥
न वै परज्ञा गतश्रीकं भर्तारम उपयुञ्जते युञ्जानम अनुयुञ्जीत न शरियः संक्षये वसेत ॥ 16 ॥
शरिया विहीना राज्याच च विनष्टाः शाश्वतीः समाः अलं ते पाण्डुपुत्राणां भक्त्या कलेशम उपासितुम ॥ 17 ॥
भार्या मे भव सुश्रॊणि तयजैनान सुखम आप्नुहि अखिलान सिन्धुसौवीरान अवाप्नुहि मया सह ॥ 18 ॥
[वै] इत्य उक्ता सिन्धुराजेन वाक्यं हृदयकम्पनम कृष्णा तस्माद अपाक्रामद देशात सभ्रुकुटी मुखी ॥ 19 ॥
अवमत्यास्य तद वाक्यम आक्षिप्य च सुमध्यमा मैवम इत्य अब्रवीत कृष्णा लज्जस्वेति च सैन्धवम ॥ 20 ॥
सा काङ्क्षमाणा भर्तॄणाम उपयानम अनिन्दिता विलॊभयाम आस परं वाक्यैर वाक्यानि युञ्जती ॥ 21 ॥
वनपर्व · Vana Parva
अध्याय 251
Reach this point to mark the section finished.
Continue to अध्याय 252