धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 24

  1. [वै] तस्मिन दशार्हाधिपतौ परयाते; युधिष्ठिरॊ भीमसेनार्जुनौ च यमौ च कृष्णा च पुरॊहितश च; रथान महार्हान परमाश्वयुक्तान ॥ 1 ॥

  2. आस्थाय वीराः सहिता वनाय; परतस्थिरे भूतपतिप्रकाशाः हिरण्यनिष्कान वसनानि गाश च; परदाय शिक्षाक्षर मन्त्रिविद्भ्यः ॥ 2 ॥

  3. परेष्याः पुरॊ विंशतिर आत्तशस्त्रा; धनूंषि वर्माणि शरांश च पीतान मौर्वीश च यन्त्राणि च सायकांश च; सर्वे समादाय जघन्यम ईयुः ॥ 3 ॥

  4. ततस तु वासांसि च राजपुत्र्या; धात्र्यश च दास्यश च विभूषणं च तद इन्द्रसेनस तवरितं परगृह्य; जघन्यम एवॊपययौ रथेन ॥ 4 ॥

  5. ततः कुरुश्रेष्ठम उपेत्य पौराः; परदक्षिणं चक्रुर अदीनसत्त्वाः तं बराह्मणाश चाभ्यवदन परसन्ना; मुख्याश च सर्वे कुरुजाङ्गलानाम ॥ 5 ॥

  6. स चापि तान अभ्यवदत परसन्नः; सहैव तैर भरातृभिर धर्मराजः तस्थौ च तत्राधिपतिर महात्मा; दृष्ट्वा जनौघं कुरुजाङ्गलानाम ॥ 6 ॥

  7. पितेव पुत्रेषु स तेषु भावं; चक्रे कुरूणाम ऋषभॊ महात्मा ते चापि तस्मिन भरत परबर्हे; तदा बभूवुः पितरीव पुत्राः ॥ 7 ॥

  8. ततः समासाद्य महाजनौघाः; कुरुप्रवीरं परिवार्य तस्थुः हा नाथ हा धर्म इति बरुवन्तॊ; हरिया च सर्वे ऽशरुमुखा बभूवुः ॥ 8 ॥

  9. वरः कुरूणाम अधिपः परजानां; पितेव पुत्रान अपहाय चास्मान पौरान इमाञ जानपदांश च सर्वान; हित्वा परयातः कव नु धर्मराजः ॥ 9 ॥

  10. धिग धार्तराष्ट्रं सुनृशंस बुद्धिं; ससौबलं पापमतिं च कर्णम अनर्थम इच्छन्ति नरेन्द्र पापा; ये धर्मनित्यस्य सतस तवाग्राः ॥ 10 ॥

  11. सवयं निवेश्याप्रतिमं महात्मा; पुरं महद देवपुरप्रकाशम शतक्रतुप्रथम अमॊघकर्मा; हित्वा परयातः कव नु धर्मराजः ॥ 11 ॥

  12. चकार याम अप्रतिमां महात्मा; सभां मयॊ देव सभा परकाशाम तां देव गुप्ताम इव देव मायां; हित्वा परयातः कव नु धर्मराजः ॥ 12 ॥

  13. तान धर्मकामार्थविद उत्तमौजा; बीभत्सुर उच्चैः सहितान उवाच आदास्यते वासम इमं निरुष्य; वनेषु राजा दविषतां यशांसि ॥ 13 ॥

  14. दविजातिमुख्याः सहिताः पृथक च; भवद्भिर आसाद्य तपस्विनश च परसाद्य धर्मार्थविदश च वाच्या; यथार्थसिद्धिः परमा भवेन नः ॥ 14 ॥

  15. इत्य एवम उक्ते वचने ऽरजुनेन; ते बराह्मणाः सर्ववर्णाश च राजन मुदाभ्यनन्दन सहिताश च चक्रुः; परदक्षिणं धर्मभृतां वरिष्ठम ॥ 15 ॥

  16. आमन्त्र्य पार्थं च वृकॊदरं च; धनंजयं याज्ञसेनीं यमौ च परतस्थिरे राष्ट्रम अपेतहर्षा; युधिष्ठिरेणानुमता यथा सवम ॥ 16 ॥

Reach this point to mark the section finished.

Continue to अध्याय 25

Previous: अध्याय 23