[देवदूत] महर्षे ऽकार्यबुद्धिस तवं यः सवर्गसुखम उत्तमम संप्राप्तं बहु मन्तव्यं विमृशस्य अबुधॊ यथा ॥ 1 ॥
उपरिष्टाद असौ लॊकॊ यॊ ऽयं सवर इति संज्ञितः ऊर्ध्वगः सत्पथः शश्वद देव यानचरॊ मुने ॥ 2 ॥
नातप्त तपसः पुंसॊ नामहा यज्ञयाजिनः नानृता नास्तिकाश चैव तत्र गच्छन्ति मुद्गल ॥ 3 ॥
धर्मात्मानॊ जितात्मानः शान्ता दान्ता विमत्सराः दानधर्मरताः पुंसः शूराश चाहतलक्षणाः ॥ 4 ॥
तत्र गच्छन्ति कर्माग्र्यं कृत्वा शम दमात्मकम लॊकान पुण्यकृतां बरह्मन सद्भिर आसेवितान नृभिः ॥ 5 ॥
देवाः साध्यास तथा विश्वे मरुतश च महर्षिभिः यामा धामाश च मौद्गल्य गन्धर्वाप्सरसस तथा ॥ 6 ॥
एषां देव निकायानां पृथक्पृथग अनेकशः भास्वन्तः कामसंपन्ना लॊकास तेजॊमयाः शुभाः ॥ 7 ॥
तरयस तरिंशत सहस्राणि यॊजनानां हिरण्मयः मेरुः पर्वतराड यत्र देवॊद्यानानि मुद्गल ॥ 8 ॥
नन्दनादीनि पुण्यानि विहाराः पुण्यकर्मणाम न कषुत्पिपासे न गलानिर न शीतॊष्णभयं तथा ॥ 9 ॥
बीभत्सम अशुभं वापि रॊगा वा तत्र के चन मनॊ जञाः सर्वतॊ गन्धाः सुखस्पर्शाश च सर्वशः ॥ 10 ॥
शब्दाः शरुतिमनॊग्राह्याः सर्वतस तत्र वै मुने न शॊकॊ न जरा तत्र नायास परिदेवने ॥ 11 ॥
ईदृशः स मुने लॊकः सवकर्मफलहेतुकः सुकृतैस तत्र पुरुषाः संभवन्त्य आत्मकर्मभिः ॥ 12 ॥
तैजसानि शरीराणि भवन्त्य अत्रॊपपद्यताम कर्मजान्य एव मौद्गल्य न मातृपितृजान्य उत ॥ 13 ॥
न च सवेदॊ न दौर्गन्ध्यं पुरीषं मूत्रम एव च तेषां न च रजॊ वस्त्रं बाधते तत्र वै मुने ॥ 14 ॥
न मलायन्ति सरजस तेषां दिव्यगन्धा मनॊरमाः पर्युह्यन्ते विमानैश च बरह्मन्न एवंविधाश च ते ॥ 15 ॥
ईर्ष्या शॊकक्लमापेता मॊहमात्सर्य वर्जिताः सुखं सवर्गजितस तत्र वर्तयन्ति महामुने ॥ 16 ॥
तेषां तथाविधानां तु लॊकानां मुनिपुंगव उपर्य उपरि शक्रस्य लॊका दिव्यगुणान्विताः ॥ 17 ॥
पुरस्ताद बरह्मणस तत्र लॊकास तेजॊमयाः शुभाः यत्र यान्त्य ऋषयॊ बरह्मन पूताः सवैः कर्मभिः शुभैः ॥ 18 ॥
ऋभवॊ नाम तत्रान्ये देवानाम अपि देवताः तेषां लॊकाः परतरे तान यजन्तीह देवताः ॥ 19 ॥
सवयंप्रभास ते भास्वन्तॊ लॊकाः कामदुघाः परे न तेषां सत्रीकृतस तापॊ न लॊकैश्वर्यमत्सरः ॥ 20 ॥
न वर्तयन्त्य आहुतिभिस ते नाप्य अमृतभॊजनाः तथा दिव्यशरीरास ते न च विग्रहमूर्तयः ॥ 21 ॥
न शुखे सुखकामाश च देवदेवाः सनातनाः न कल्पपरिवर्तेषु परिवर्तन्ति ते तथा ॥ 22 ॥
जरामृत्युः कुतस तेषां हर्षः परीतिः सुखं न च न दुःखं न सुखं चापि रागद्वेषौ कुतॊ मुने ॥ 23 ॥
देवानाम अपि मौद्गल्य काङ्क्षिता सा गतिः परा दुष्प्रापा परमा सिद्धिर अगम्या कामगॊचरैः ॥ 24 ॥
तरयस्त्रिंशद इमे लॊकाः शेषा लॊका मनीषिभिः गम्यन्ते नियमैः शरेष्ठैर दानैर वा विधिपूर्वकैः ॥ 25 ॥
सेयं दानकृता वयुष्टिर अत्र पराप्ता सुखावहा तां भुङ्क्ष्व सुकृतैर लब्धां तपसा दयॊतितप्रभः ॥ 26 ॥
एतत सवर्गसुखं विप्र लॊका नानाविधास तथा गुणाः सवर्गस्य परॊक्तास ते दॊषान अपि निबॊध मे ॥ 27 ॥
कृतस्य कर्मणस तत्र भुज्यते यत फलं दिवि न चान्यत करियते कर्म मूलछेदेन भुज्यते ॥ 28 ॥
सॊ ऽतर दॊषॊ मम मतस तस्यान्ते पतनं च यत सुखव्याप्त मनस्कानां पतनं यच च मुद्गल ॥ 29 ॥
असंतॊषः परीतापॊ दृष्ट्वा दीप्ततराः शरियः यद भवत्य अवरे सथाने सथितानां तच च दुष्करम ॥ 30 ॥
संज्ञा मॊहश च पततां रजसा च परधर्षणम परम्लानेषु च माल्येषु ततः पिपतिषॊर भयम ॥ 31 ॥
आ बरह्मभवनाद एते दॊषा मौद्गल्य दारुणाः नाकलॊके सुकृतिनां गुणास तव अयुतशॊ नृणाम ॥ 32 ॥
अयं तव अन्यॊ गुनः शरेष्ठश चयुतानां सवर्गतॊ मुने शुभानुशय यॊगेन मनुष्येषूपजायते ॥ 33 ॥
तत्रापि सुमहाभागः सुखभाड अभिजायते न चेत संबुध्यते तत्र गच्छत्य अधमतां ततः ॥ 34 ॥
इह यत करियते कर्म तत्परत्रॊपभुज्यते कर्मभूमिर इयं बरह्मन फलभूमिर असौ मता ॥ 35 ॥
एतत ते सर्वम आख्यातं यन मां पृच्छसि मुद्गल तवानुकम्पया साधॊ साधु गच्छाम माचिरम ॥ 36 ॥
[वयास] एतच छरुत्वा तु मौद्गल्यॊ वाक्यं विममृशे धिया विमृश्य च मुनिश्रेष्ठॊ देवदूतम उवाच ह ॥ 37 ॥
देवदूत नमस ते ऽसतु गच्छ तात यथासुखम महादॊषेण मे कार्यं न सवर्गेण सुखेन वा ॥ 38 ॥
पतनं तन महद दुःखं परितापः सुदारुणः सवर्गभाजश चयवन्तीह तस्मात सवर्गं न कामये ॥ 39 ॥
यत्र गत्वा न शॊचन्ति न वयथन्ति चलन्ति वा तद अहं सथानम अत्यन्तं मार्गयिष्यामि केवलम ॥ 40 ॥
इत्य उक्त्वा स मुनिर वाक्यं देवदूतं विसृज्य तम शिलॊञ्छ वृत्तिम उत्सृज्य शमम आतिष्ठद उत्तमाम ॥ 41 ॥
तुल्यनिन्दास्तुतिर भूत्वा समलॊष्टाश्मकाञ्चनः जञानयॊगेन शुद्धेन धयाननित्यॊ बभूव ह ॥ 42 ॥
धयानयॊगाद बलं लब्ध्वा पराप्य चर्द्धिम अनुत्तमाम जगाम शाश्वतीं सिद्धिं परां निर्वाणलक्षणाम ॥ 43 ॥
तस्मात तवम अपि कौन्तेय न शॊकं कर्तुम अर्हसि राज्यात सफीतात परिभ्रष्टस तपसा तद अवाप्स्यसि ॥ 44 ॥
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम पर्यायेणॊपवर्तन्ते नरं नेमिम अरा इव ॥ 45 ॥
पितृपैतामहं राज्यं पराप्स्यस्य अमितविक्रम वर्षात तरयॊदशाद ऊर्ध्वं वयेतु ते मानसॊ जवरः ॥ 46 ॥
[वै] एवम उक्त्वा स भगवान वयासः पाण्डवनन्दनम जगाम तपसे धीमान पुनर एवाश्रमं परति ॥ 47 ॥
वनपर्व · Vana Parva
अध्याय 247
Reach this point to mark the section finished.
Continue to अध्याय 248