धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 248

  1. [वै] तस्मिन बहुमृगे ऽरण्ये रममाणा महारथाः काम्यके भरतश्रेष्ठा विजह्रुस ते यथामराः ॥ 1 ॥

  2. परेक्षमाणा बहुविधान वनॊद्देशान समन्ततः यथर्तुकालरम्याश च वनराजीः सुपुष्पिताः ॥ 2 ॥

  3. पाण्डवा मृगया शीलाश चरन्तस तन महावनम विजह्रुर इन्द्र परतिमाः कं चित कालम अरिंदमाः ॥ 3 ॥

  4. ततस ते यौगपद्येन ययुः सर्वे चतुर्दिशम मृगयां पुरुषव्याघ्रा बराह्मणार्थे परंतपाः ॥ 4 ॥

  5. दरौपदीम आश्रमे नयस्य तृणबिन्दॊर अनुज्ञया महर्षेर दीप्ततपसॊ धौम्यस्य च पुरॊधसः ॥ 5 ॥

  6. ततस तु राजा सुन्धूनां वार्द्धक्षत्रिर मया यशाः विवाह कामः शाल्वेयान परयातः सॊ ऽभवत तदा ॥ 6 ॥

  7. महता परिबर्हेण राजयॊग्येन संवृतः राजभिर बहुभिः सार्धम उपायात काम्यकं च सः ॥ 7 ॥

  8. तत्रापश्यत परियां भार्यां पाण्डवानां यशस्विनाम तिष्ठन्तीम आश्रमद्वारि दरौपदीं निर्जने वने ॥ 8 ॥

  9. विभ्राजमानां वपुषा बिभ्रतीं रूपम उत्तमम भराजयन्तीं वनॊद्देशं नीलाभ्रम इव विद्युतम ॥ 9 ॥

  10. अप्सरा देवकन्या वा माया वा देवनिर्मिता इति कृत्वाञ्जलिं सर्वे ददृशुस ताम अनिन्दिताम ॥ 10 ॥

  11. ततः सराजा सिन्धूनां वार्द्धक्षत्रिर जयद्रथः विस्मितस ताम अनिन्द्याङ्गीं दृष्ट्वासीद धृष्टमानसः ॥ 11 ॥

  12. स कॊटिकाश्यं राजानम अब्रवीत काममॊहितः कस्य तव एषानवद्याङ्गी यदि वापि न मानुषी ॥ 12 ॥

  13. विवाहार्थॊ न मे कश चिद इमां दृष्ट्वातिसुन्दरीम एताम एवाहम आदाय गमिष्यामि सवम आलयम ॥ 13 ॥

  14. गच्छ जानीहि सौम्यैनां कस्य का च कुतॊ ऽपि वा किमर्थम आगता सुभ्रूर इदं कण्टकितं वनम ॥ 14 ॥

  15. अपि नाम वरारॊहा माम एषा लॊकसुन्दरी भजेद अद्यायतापाङ्गी सुदती तनुमध्यमा ॥ 15 ॥

  16. अप्य अहं कृतकामः सयाम इमां पराप्य वरस्त्रियम गच्छ जानीहि कॊ नव अस्या नाथ इत्य एव कॊटिक ॥ 16 ॥

  17. स कॊटिकाश्यस तच छरुत्वा रथात परस्कन्द्य कुण्डली उपेत्य पप्रच्छ तदा करॊष्टा वयाघ्रवधूम इव ॥ 17 ॥

Reach this point to mark the section finished.

Continue to अध्याय 249

Previous: अध्याय 247