[य] वरीहिद्रॊणः परित्यक्तः कथं तेन महात्मना कस्मै दत्तश च भगवन विधिना केन चात्थ मे ॥ 1 ॥
परत्यक्षधर्मा भगवान यस्य तुष्टॊ हि कर्मभिः सफलं तस्य जन्माहं मन्ये सद्धर्मचारिणः ॥ 2 ॥
[वयास] शिलॊञ्छ वृत्तिर धर्मात्मा मुद्गलः संशितव्रतः आसीद राजन कुरुक्षेत्रे सत्यवाग अनसूयकः ॥ 3 ॥
अतिथिव्रती करियावांश च कापॊतीं वृत्तिम आस्थितः सत्रम इष्टी कृतं नाम समुपास्ते महातपाः ॥ 4 ॥
सपुत्रदारॊ हि मुनिः पक्षाहारॊ बभूव सः कपॊत वृत्त्या पक्षेण वरीहि दरॊणम उपार्जयत ॥ 5 ॥
दर्शं च पौर्णमासं च कुर्वन विगतमत्सरः देवतातिथिशेषेण कुरुते देहयापनम ॥ 6 ॥
तस्येन्द्रः सहितॊ देवैः साक्षात तरिभुवणेश्वरः पत्यगृह्णान महाराज भागं पर्वणि पर्वणि ॥ 7 ॥
स पर्वकालं कृत्वा तु मुनिवृत्त्या समन्वितः अतिथिभ्यॊ ददाव अन्नं परहृष्टेनान्तरात्मना ॥ 8 ॥
वरीहि दरॊणस्य तद अहॊ ददतॊ ऽननं महात्मनः शिष्टं मात्सर्य हीनस्य वर्धत्य अतिथिदर्शनात ॥ 9 ॥
तच छतान्य अपि बुञ्जन्ति बराह्मणानां मनीषिणाम मुनेस तयागविशुद्ध्या तु तदन्नं वृद्धिम ऋच्छति ॥ 10 ॥
तं तु शुश्राव धर्मिष्ठं मुद्गलं संशितव्रतम दुर्वासा नृप दिग वासास तम अथाभ्याजगाम ह ॥ 11 ॥
बिभ्रच चानियतं वेषम उन्मत्त इव पाण्डव विकचः परुषा वाचॊ वयाहरन विविधा मुनिः ॥ 12 ॥
अभिगम्याथ तं विप्रम उवाच मुनिसत्तमः अन्नार्थिनम अनुप्राप्तं विद्धि मां मुनिसत्तम ॥ 13 ॥
सवागतं ते ऽसत्व इति मुनिं मुद्गलः परत्यभाषत पाद्यम आचमनीयं च परतिवेद्यान्नम उत्तमम ॥ 14 ॥
परादात स तपसॊपात्तं कषुधितायातिथि वरती उन्मत्ताय परां शरद्धाम आस्थाय स धृतव्रतः ॥ 15 ॥
ततस तदन्नं रसवत स एव कषुधयान्वितः बुभुजे कृत्स्नम उन्मत्तः परादात तस्मै च मुद्गलः ॥ 16 ॥
बुक्ता चान्नं ततः सर्वम उच्छिष्टेनात्मनस ततः अथानुलिलिपे ऽङगानि जगाम च यथागतम ॥ 17 ॥
एवं दवितीये संप्राप्ते पर्वकाले मनीषिणः आगम्य बुब्भुजे सर्वम अन्नम उञ्छॊपजीविनः ॥ 18 ॥
निराहारस तु स मुनिर उञ्छम आर्जयते पुनः न चैनं विक्रियां नेतुम अशकन मुद्गलं कषुधा ॥ 19 ॥
न करॊधॊ न च मात्सर्यं नावमानॊ न संभ्रमः सपुत्रदारम उञ्छन्तम आविशेश दविजॊत्तमम ॥ 20 ॥
तथा तम उञ्छधर्माणं दुर्वासा मुनिसत्तमम उपतस्थे यथाकालं षट कृत्वः कृतनिश्चयः ॥ 21 ॥
न चास्य मानसं किं चिद विकारं ददृशे मुनिः शुद्धसत्त्वस्य शुद्धं स ददृशे निर्मलं मनः ॥ 22 ॥
तम उवाच ततः परीतः स मुनिर मुद्गलं तदा तवत्समॊ नास्ति लॊके ऽसमिन दाता मात्सर्य वर्जितः ॥ 23 ॥
कषुद धर्मसंज्ञां परणुदत्य आदत्ते धैर्यम एव च विषयानुसारिणी जिह्वा कर्षत्य एव रसान परति ॥ 24 ॥
आहारप्रभवाः पराणा मनॊ दुर्निग्रहं चलम मनसॊ चेन्द्रियाणां चाप्य ऐकाग्र्यं निश्चितं तपः ॥ 25 ॥
शरमेणॊपार्जितं तयक्तुं दुःखं शुद्धेन चेतसा तत सर्वं भवता साधॊ यथावद उपपादितम ॥ 26 ॥
परीताः समॊ ऽनुगृहीताश च समेत्य भवता सह इन्द्रियाभिजयॊ धैर्यं संविभागॊ दमः शमः ॥ 27 ॥
दया सत्यं च धर्मश च तवयि सर्वं परतिष्ठितम जितास ते कर्मभिर लॊकाः परापॊ ऽसि परमां गतिम ॥ 28 ॥
अहॊ दानं विघुष्टं ते सुमहत सवर्गवासिभिः सशरीरॊ भवान गन्ता सवर्गं सुचरितव्रत ॥ 29 ॥
इत्य एवं वदतस तस्य तदा दुर्वाससॊ मुनेः देवदूतॊ विमानेन मुद्गलं परत्युपस्थितः ॥ 30 ॥
हंससारसयुक्तेन किङ्किणीजालमालिना कामगेन विचित्रेण दिव्यगन्धवता तथा ॥ 31 ॥
उवाच चैनं विप्रर्षिं विमानं कर्मभिर जितम समुपारॊह संसिद्धिं पराप्तॊ ऽसि परमां मुने ॥ 32 ॥
तम एवं वादिनम ऋषिर देवदूतम उवाच ह इच्छामि भवता परॊक्तान गुणान सवर्गनिवासिनाम ॥ 33 ॥
के गुणास तत्र वसतां किं तपॊ कश च निश्चयः सवर्गे सवर्गसुखं किं च दॊषॊ वा देवदूतक ॥ 34 ॥
सतां सप्त वदं मित्रम आहुः सन्तः कुलॊचिताः मित्रतां च पुरस्कृत्य पृच्छामि तवाम अहं विभॊ ॥ 35 ॥
यद अत्र तथ्यं पथ्यं च तद वरवीह्य अविचारयन शरुत्वा तथा करिष्यामि वयवसायं गिरा तव ॥ 36 ॥
वनपर्व · Vana Parva
अध्याय 246
Reach this point to mark the section finished.
Continue to अध्याय 247