[वै] वने निवसतां तेषां पाण्डवानां महात्मनाम वर्षाण्य एकादशातीयुः कृच्छ्रेण भरतर्षभ ॥ 1 ॥
फलमूलाशनास ते हि सुखार्हा दुःखम उत्तमम पराप्तकालम अनुध्यान्तः सेहुर उत्तमपूरुषाः ॥ 2 ॥
युधिष्ठिरस तु राजर्षिर आत्मकर्मापराधजम चिन्तयन स महाबाहुर भरातॄणां दुःखम उत्तमम ॥ 3 ॥
न सुष्वाप सुखं राजा हृदि शल्यैर इवार्पितैः दौरात्म्यम अनुपश्यंस तत काले दयूतॊद्भवस्य हि ॥ 4 ॥
संस्मरन परुषा वाचः सूतपुत्रस्य पाण्डवः निःश्वासपरमॊ दीनॊ बिभ्रत कॊपविषं महत ॥ 5 ॥
अर्जुनॊ यमजौ चॊभौ दरौपदी च यशस्विनी स च भीमॊ महातेजाः सर्वेषाम उत्तमॊ बली युधिष्ठिरम उदीक्षन्तः सेहुर दुःखम अनुत्तमम ॥ 6 ॥
अवशिष्टम अल्पकालं मन्वानाः पुरुषर्षभाः वपुर अन्यद इवाकार्षुर उत्साहामर्श चेष्टितैः ॥ 7 ॥
कस्य चित तव अथ कालस्य वयासः सत्यवती सुतः आजगाम महायॊगी पाण्डवान अवलॊककः ॥ 8 ॥
तम आगतम अभिप्रेक्ष्य कुन्तीपुत्रॊ युधिष्ठिरः परत्युद्गम्य महात्मानं परत्यगृह्णाद यथाविधि ॥ 9 ॥
तम आसीनम उपासीनः शुश्रूषुर नियतेन्द्रियः तॊषयन परणिपातेन वयासं पाण्डवनन्दनः ॥ 10 ॥
तान अवेक्ष्य कृशान पौत्रान वने वन्येन जीवतः महर्षिर अनुकम्पार्थम अब्रवीद बाष्पगद्गदम ॥ 11 ॥
युधिष्ठिर महाबाहॊ शृणु धर्मभृतां वर नातप्त तपसः पुत्र पराप्नुवन्ति महत सुखम ॥ 12 ॥
सुखदुःखे हि पुरुषः पर्यायेणॊपसेवते नात्यन्तम असुखं कश चित पराप्नॊति पुरुषर्षभ ॥ 13 ॥
परज्ञावांस तव एव पुरुषः संयुक्तः परया धिया उदयास्तमयज्ञॊ हि न शॊचति न हृष्यति ॥ 14 ॥
सुखम आपतितं सेवेद दुःखम आपतितं सहेत कालप्राप्तम उपासीत सस्यानाम इव कर्षकः ॥ 15 ॥
तपसॊ हि परं नास्ति तपसा विन्दते महत नासाध्यं तपसः किं चिद इति बुध्यस्व भारत ॥ 16 ॥
सत्यम आर्जवम अक्रॊधः संविभागॊ दमः शमः अनसूया विहिंसा च शौचम इन्द्रियसंयमः साधनानि महाराज नराणां पुण्यकर्मणाम ॥ 17 ॥
अधर्मरुचयॊ मूढास तिर्यग्गतिपरायणाः कृच्छ्रां यॊनिम अनुप्राप्य न सुखं विन्दते जनाः ॥ 18 ॥
इह यत करियते कर्म तत्परत्रॊपभुज्यते तस्माच छरीरं युञ्जीत तपसा नियमेन च ॥ 19 ॥
यथाशक्ति परयच्छेच च संपूज्याभिप्रणम्य च काले पात्रे च हृष्टात्मा राजन विगतमत्सरः ॥ 20 ॥
सत्यवादी लभेतायुर अनायासम अथार्जवी अक्रॊधनॊ ऽनसूयश च निर्वृतिं लभते पराम ॥ 21 ॥
दान्तः शम परः शश्वत परिक्लेशं न विन्दति न च तप्यति दान्तात्मा दृष्ट्वा परगतां शरियम ॥ 22 ॥
संविभक्ता च दाता च भॊगवान सुखवान नरः भवत्य अहिंसकश चैव परमारॊग्यम अश्नुते ॥ 23 ॥
मान्यान मानयिता जन्म कुले महति विन्दति वयसनैर न तु संयॊगं पराप्नॊति विजितेन्द्रियः ॥ 24 ॥
शुभानुशय बुद्धिर हि संयुक्तः कालधर्मणा परादुर्भवति तद यॊगात कल्याण मतिर एव सः ॥ 25 ॥
[य] भगवन दानधर्माणं तपसॊ वा महामुने किं सविद बहुगुणं परेत्य किं वा दुष्करम उच्यते ॥ 26 ॥
[वयास] दानान न दुष्करतरं पृथिव्याम अस्ति किं चन अर्थे हि महती तृष्णा स च दुःखेन लभ्यते ॥ 27 ॥
परित्यज्य रियान पराकान धर्मार्थं हि महाहवम परविशन्ति नरा वीराः समुद्रम अटवीं तथा ॥ 28 ॥
कृषिगॊरक्ष्यम इत्य एके परतिपद्यन्ति मानवाः पुरुषाः परेष्यताम एके निर्गच्छन्ति धनार्थिनः ॥ 29 ॥
तस्य दुःखार्जितस्यैवं परित्यागः सुदुष्करः न दुष्करतरं दानात तस्माद दानं मतं मम ॥ 30 ॥
विशेषस तव अत्र विज्ञेयॊ नयायेनॊपार्जितं धनम पात्रे देशे च काले च साधुभ्यः परतिपादयेत ॥ 31 ॥
अन्याय समुपात्तेन दानधर्मॊ धनेन यः करियते न स कर्तारं तरायते महतॊ भयात ॥ 32 ॥
पात्रे दानं सवल्पम अपि काले दत्तं युधिष्ठिर मनसा सुविशुद्धेन परेत्यानन्त फलं समृतम ॥ 33 ॥
अताप्य उदाहरन्तीमम इतिहासं पुरातनम वरीहि दरॊण परित्यागाद यत फलं पराप मुद्गलः ॥ 34 ॥
वनपर्व · Vana Parva
अध्याय 245
Reach this point to mark the section finished.
Continue to अध्याय 246