धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 242

  1. [वै] ततस तु शिल्पिनः सर्वे अमात्यप्रवराश च ह विदुरश च महाप्राज्ञॊ धार्तराष्ट्रे नयवेदयत ॥ 1 ॥

  2. सज्जं करतुवरं राजन कालप्राप्तं च भारत सौवर्णं च कृतं दिव्यं लाङ्गलं सुमहाधनम ॥ 2 ॥

  3. एतच छरुत्वा नृपश्रेष्ठॊ धार्तराष्ट्रॊ विशां पते आज्ञापयाम आस नृपः करतुराजप्रवर्तनम ॥ 3 ॥

  4. ततः परववृते यज्ञः परभूतान्नः सुसंस्कृतः दीक्षितश चापि गान्धारिर यथा शास्तं यथाक्रमम ॥ 4 ॥

  5. परहृष्टॊ धृतराष्ट्रॊ ऽभूद विदुरश च महायशाः भीष्मॊ दरॊणः कृपः कर्णॊ गान्धारी च यशस्विनी ॥ 5 ॥

  6. निमन्त्रणार्थं दूतांश च परेषयाम आस शीघ्रगान पार्थिवानां च राजेन्द्र बराह्मणानां तथैव च ते परयाता यथॊद्दिष्टं दूतास तवरितवाहनाः ॥ 6 ॥

  7. तत्र कं चित परयातं तु दूतं दुःशासनॊ ऽबरवीत गच्छ दवैतवनं शीघ्रं पाण्डवान पापपूरुषान निमन्त्रय यथान्यायं विप्रांस तस्मिन महावने ॥ 7 ॥

  8. स गत्वा पाण्डवावासम उवाचाभिप्रणम्य तान दुर्यॊधनॊ महाराज यजते नृपसत्तमः ॥ 8 ॥

  9. सववीर्यार्जितम अर्थौघम अवाप्य कुरुनन्दनः तत्र गच्छन्ति राजानॊ बराह्मणाश च ततस ततः ॥ 9 ॥

  10. अहं तु परेषितॊ राजन कौरवेण महात्मना आमन्त्रयति वॊ राजा धार्तराष्ट्रॊ जनेश्वरः मनॊ ऽभिलषितं राज्ञस तं करतुं दरष्टुम अर्हथ ॥ 10 ॥

  11. ततॊ युधिष्ठिरॊ राजा तच छरुत्वा दूत भाषितम अब्रवीन नृपशार्दूलॊ दिष्ट्या राजा सुयॊधनः यजते करतुमुख्येन पूर्वेषां कीर्तिवर्धनः ॥ 11 ॥

  12. वयम अप्य उपयास्यामॊ न तव इदानीं कथं चन समयः परिपाल्यॊ नॊ यावद वर्षं तरयॊदशम ॥ 12 ॥

  13. शरुत्वैतद धर्मराजस्य भीमॊ वचनम अब्रवीत तदा तु नृपतिर गन्ता धम राजॊ युधिष्ठिरः ॥ 13 ॥

  14. अस्त्रशस्त्रप्रदीप्ते ऽगनौ यदा तं पातयिष्यति वर्षात तरयॊदशाद ऊर्ध्वं रणसत्रे नराधिपः ॥ 14 ॥

  15. यदा करॊधहविर मॊक्ता धार्तराष्ट्रेषु पाण्डवः आगन्तारस तदा समेति वाच्यस ते स सुयॊधनः ॥ 15 ॥

  16. शेषास तु पाण्डवा राजन नैवॊचुः किं चिद अप्रियम दूतश चापि यथावृत्तं धार्तराष्ट्रे नयवेदयत ॥ 16 ॥

  17. अथाजग्मुर नरश्रेष्ठा नानाजनपदेश्वराः बराह्मणाश च महाभागा धार्तराष्ट्र पुरं परति ॥ 17 ॥

  18. ते तव अर्चिता यथाशास्त्रं यथा वर्णं यथाक्रमम मुदा परमया युक्ताः परीत्या चापि नरेश्वर ॥ 18 ॥

  19. धृतराष्ट्रॊ ऽपि राजेन्द्र संवृतः सर्वकौरवैः हर्षेण महता युक्तॊ विदुरं परत्यभाषत ॥ 19 ॥

  20. यथासुखी जनः सर्वः कषत्तः सयाद अन्नसंयुतः तुष्येच च यज्ञसदने तथा कषिप्रं विधीयताम ॥ 20 ॥

  21. विदुरस तव एवम आज्ञप्तः सर्ववर्णान अरिंदम यथा परमाणतॊ विद्वान पूजयाम आस धर्मवित ॥ 21 ॥

  22. भक्ष्यभॊज्यान्न पानेन माल्यैश चापि सुगन्धिभिः वासॊभिर विविधैश चैव यॊजयाम आस हृष्टवत ॥ 22 ॥

  23. कृत्वा हय अवभृथं वीरॊ यथाशास्त्रं यथाक्रमम सान्त्वयित्वा च राजेन्द्रॊ दत्त्वा च विविधं वसु विसर्जयाम आस नृपान बराह्मणांश च सहस्रशः ॥ 23 ॥

  24. विसर्जयित्वा स नृपान भरातृभिः परिवारितः विवेश हास्तिनपुरं सहितः कर्ण सौबलैः ॥ 24 ॥

Reach this point to mark the section finished.

Continue to अध्याय 243

Previous: अध्याय 241