[जनम] वसमानेषु पार्थेषु वने तस्मिन महात्मसु धार्तराष्ट्रा महेष्वासाः किम अकुर्वन्त सत्तम ॥ 1 ॥
कर्णॊ वैकर्तनश चापि शकुनिश च महाबलः भीष्मद्रॊणकृपाश चैव तन मे शंसितुम अर्हसि ॥ 2 ॥
[वै] एवंगतेषु पार्थेषु विसृष्टे च सुयॊधने आगते हास्तिनपुरं मॊक्षिते पाण्डुनन्दनैः भीष्मॊ ऽबरवीन महाराज धार्तराष्ट्रम इदं वचः ॥ 3 ॥
उक्तं तात मया पूर्वं गच्छतस ते तपॊवनम गमनं मे न रुचितं तव तन न कृतं च ते ॥ 4 ॥
ततः पराप्तं तवया वीर गरहणं शत्रुभिर बलात मॊक्षितश चासि धर्मज्ञैः पाण्डवैर न च लज्जसे ॥ 5 ॥
परत्यक्षं तव गान्धारे ससैन्यस्य विशां पते सूतपुत्रॊ ऽपयाद भीतॊ गन्धर्वाणां तदा रणात करॊशतस तव राजेन्द्र ससैन्यस्य नृपात्मज ॥ 6 ॥
दृष्टस ते विक्रमश चैव पाण्डवानां महात्मनाम कर्णस्य च महाबाहॊ सूतपुत्रस्य दुर्मतेः ॥ 7 ॥
न चापि पादभाक कर्णः पाण्डवानां नृपॊत्तम धनुर्वेदे च शौर्ये च धर्मे वा धर्मवत्सल ॥ 8 ॥
तस्य ते ऽहं कषमं मन्ये पाण्डवैस तैर महात्मभिः संधिं संधिविदां शरेष्ठ कुलस्यास्य विवृद्धये ॥ 9 ॥
एवम उक्तस तु भीष्मेण धार्तराष्ट्रॊ जनेश्वरः परहस्य सहसा राजन विप्रतस्थे ससौबलः ॥ 10 ॥
तं तु परस्थितम आज्ञाय कर्ण दुःशासनादयः अनुजग्मुर महेष्वासा धार्तराष्ट्रं महाबलम ॥ 11 ॥
तांस तु संप्रस्थितान दृष्ट्वा भीष्मः कुरुपितामहः लज्जया वरीडितॊ राजञ जगाम सवं निवेशनम ॥ 12 ॥
गते भीष्मे मरा राजधार्तराष्ट्रॊ जनाधिपः पुनर आगम्य तं देशम अमन्त्रयत मन्त्रिभिः ॥ 13 ॥
किम अस्माकं भवेच छरेयॊ किं कार्यम अवशिष्यते कथं नु सुकृतं च सयान मन्त्रयाम आस भारत ॥ 14 ॥
[कण] दुर्यॊधन निबॊधेदं यत तवा वक्ष्यामि कौरव शरुत्वा च तत तथा सर्वं कर्तुम अर्हस्य अरिंदम ॥ 15 ॥
तवाद्य पृथिवी वीर निःसपत्ना नृपॊत्तम तां पालय यथा शक्रॊ हतशत्रुर महामनाः ॥ 16 ॥
[वै] एवम उक्तस तु कर्णेन कर्णं राजाब्रवीत पुनः न किं चिद दुर्लभं तस्य यस्य तवं पुरुषर्षभ ॥ 17 ॥
सहायश चानुरक्तश च मदर्थं च समुद्यतः अभिप्रायस तु मे कश चित तं वै शृणु यथातथम ॥ 18 ॥
राजसूयं पाण्डवस्य दृष्ट्वा करतुवरं तदा मम सपृहा समुत्पन्ना तां संपादय सूजत ॥ 19 ॥
एवम उक्तस ततः कर्णॊ राजानम इदम अब्रवीत तवाद्य पृथिवीपाला वश्याः सर्वे नृपॊत्तम ॥ 20 ॥
आहूयन्तां दविज वराः संभाराश च यथाविधि संभ्रियन्तां कुरुश्रेष्ठ यज्ञॊपकरणानि च ॥ 21 ॥
ऋत्विजश च समाहूता यथॊक्तं वेदपारगाः करियां कुर्वन्तु ते राजन यथाशास्त्रम अरिंदम ॥ 22 ॥
बह्व अन्नपानसंयुक्तः सुसमृद्धगुनान्वितः परवर्ततां महायज्ञस तवापि भरतर्षभ ॥ 23 ॥
एवम उक्तस तु कर्णेन धार्तराष्टॊ विशां पते पुरॊहितं समानाय्य इदं वचनम अब्रवीत ॥ 24 ॥
राजसूयं करतुश्रेष्ठं समाप्तवरदक्षिणम आहर तवं मम कृते यथान्यायं यथाक्रमम ॥ 25 ॥
स एवम उक्तॊ नृपतिम उवाच दविजपुंगवः न स शक्यः करतुश्रेष्ठॊ जीवमाने युधिष्ठिरे आहर्तुं कौरवश्रेष्ठ कुले तव नृपॊत्तम ॥ 26 ॥
दीर्घायुर जीवति च वै धृतराष्ट्रः पिता तव अतश चापि विरुद्धस ते करतुर एष नृपॊत्तम ॥ 27 ॥
अस्ति तव अन्यन महत सत्रं राजसूय समं परभॊ तेन तवं यज राजेन्द्र शृणु चेदं वचॊ मम ॥ 28 ॥
य इमे पृथिवीपालाः करदास तव पार्थिव ते करान संप्रयच्छन्तु सुवर्णं च कृताकृतम ॥ 29 ॥
तेन ते करियताम अद्य लाङ्गलं नृपसत्तम यज्ञवाटस्य ते भूमिः कृष्यतां तेन भारत ॥ 30 ॥
तत्र यज्ञॊ नृपश्रेष्ठ परभूतान्नः सुसंस्कृतः परवर्ततां यथान्यायं सर्वतॊ हय अनिवारितः ॥ 31 ॥
एष ते वैष्णवॊ नामयज्ञः सत्पुरुषॊचितः एतेन नेष्टवान कश चिद ऋते विष्णुं पुरातनम ॥ 32 ॥
राजसूयं करतुश्रेष्ठं सपर्धत्य एष महाक्रतुः अस्माकं रॊचते चैव शरेयॊ च तव भारत अविघ्न च भवेद एष सफला सयात सपृहा तव ॥ 33 ॥
एवम उक्तस तु तैर विप्रैर धार्तराष्ट्रॊ महीपतिः कर्णं च सौबलं चैव भरातॄंश चैवेदम अब्रवीत ॥ 34 ॥
रॊचते मे वचॊ कृत्स्नं बराह्मणानां न संशयः रॊचते यदि युष्माकं तन मा परब्रूत माचिरम ॥ 35 ॥
एवम उक्तास तु ते सर्वे तथेत्य ऊचुर नराधिपम संदिदेश ततॊ राजा वयापार सथान यथाक्रमम ॥ 36 ॥
हलस्य करणे चापि वयादिष्टाः सर्वशिल्पिनः यथॊक्तं च नृपश्रेष्ठ कृतं सर्वं यथाक्रमम ॥ 37 ॥
वनपर्व · Vana Parva
अध्याय 241
Reach this point to mark the section finished.
Continue to अध्याय 242