धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 243

  1. [वै] परविशन्तं महाराज सूतास तुष्टुवुर अच्युतम जनाश चापि महेष्वासं तुष्टुवू राजसत्तमम ॥ 1 ॥

  2. लाजैश चन्दनचूर्णैश चाप्य अवकीर्य जनास तदा ऊचुर दिष्ट्या नृपाविघ्नात समाप्तॊ ऽयं करतुस तव ॥ 2 ॥

  3. अपरे तव अब्रुवंस तत्र वातिकास तं महीपतिम युधिष्ठिरस्य यज्ञेन न समॊ हय एष तु करतुः नैव तस्य करतॊर एष कलाम अर्हति षॊडशीम ॥ 3 ॥

  4. एवं तत्राब्रुवन के चिद वातिकास तं नरेश्वरम सुहृदस तव अब्रुवंस तत्र अति सर्वान अयं करतुः ॥ 4 ॥

  5. ययातिर नहुषश चापि मान्धाता भरतस तथा करतुम एनं समाहृत्य पूताः सर्वे दिवं गताः ॥ 5 ॥

  6. एता वाचः शुभाः शृण्वन सुहृदां भरतर्षभ परविवेश पुरं हृष्टः सववेश्म च नराधिपः ॥ 6 ॥

  7. अभिवाद्य ततः पादौ मातापित्रॊर विशां पते भीष्मद्रॊणपृपाणां च विदुरस्य च धीमतः ॥ 7 ॥

  8. अभिवादितः कनीयॊभिर भरातृभिर भरातृवत्सलः निषसादासने मुख्ये भरातृभिः परिवारितः ॥ 8 ॥

  9. तम उत्थाय महाराज सूतपुत्रॊ ऽबरवीद वचः दिष्ट्या ते भरतश्रेष्ठ समाप्तॊ ऽयं महाक्रतुः ॥ 9 ॥

  10. हतेषु युधि पार्थेषु राजसूये तथा तवया आहृते ऽहं नरश्रेष्ठ तवां सभाजयिता पुनः ॥ 10 ॥

  11. तम अब्रवीन महाराजॊ धार्तराष्ट्रॊ महायशः सत्यम एतत तवया वीर पाण्डवेषु दुरात्मसु ॥ 11 ॥

  12. निहतेषु नरश्रेष्ठ पराप्ते चापि महाक्रतौ राजसूये पुनर वीर तवं मां संवर्धयिष्यसि ॥ 12 ॥

  13. एवम उक्त्वा महाप्राज्ञः कर्णम आश्लिष्य भारत राजसूयं करतुश्रेष्ठं चिन्तयाम आस कौरवः ॥ 13 ॥

  14. सॊ ऽबरवीत सुहृदश चापि पार्श्वस्थान नृपसत्तमः कदा तु तं करतुवरं राजसूयं महाधनम निहत्य पाण्डवान सर्वान आहरिष्यामि कौरवाः ॥ 14 ॥

  15. तम अब्रवीत तदा कर्णः शृणु मे राजकुञ्जर पादौ न धावये तावद यावन न निहतॊ ऽरजुनः ॥ 15 ॥

  16. अथॊत्क्रुष्टं महेष्वासैर धार्तराष्ट्रैर महारथैः परतिज्ञाते फल्गुनस्य वधे कर्णेन संयुगे विजितांश चाप्य अमन्यन्त पाण्डवान धृतराष्ट्रजाः ॥ 16 ॥

  17. दुर्यॊधनॊ ऽपि राजेन्द्र विसृज्य नरपुंगवान परविवेश गृहं शरीमान यथा चैत्ररथं परभुः ते ऽपि सर्वे महेष्वासा जग्मुर वेश्मानि भारत ॥ 17 ॥

  18. पाण्डवाश च महेष्वासा दूतवाक्यप्रचॊदिताः चिन्तयन्तस तम एवाथं नालभन्त सुखं कव चित ॥ 18 ॥

  19. भूयॊ च चारै राजेन्द्र परवृत्तिर उपपादिता परतिज्ञा सूतपुत्रस्य विजयस्य वधं परति ॥ 19 ॥

  20. एतच छरुत्वा धर्मसुतः समुद्विग्नॊ नराधिप अभेद्यकवचं मत्वा कर्णम अद्भुतविक्रमम अनुस्मरंश च संक्लेशान न शान्तिम उपयाति सः ॥ 20 ॥

  21. तस्य चिन्तापरीतस्य बुद्धिजज्ञे महात्मनः बहु वयालमृगाकीर्णं तयक्तुं दवैतवनं वनम ॥ 21 ॥

  22. धार्तराष्ट्रॊ ऽपि नृपतिः परशशास वसुंधराम भरातृभिः सहितॊ वीरैर भीष्मद्रॊणकृपैस तथा ॥ 22 ॥

  23. संगम्य सूतपुत्रेण कर्णेनाहव शॊभिना दुर्यॊधनः परिये नित्यं वर्तमानॊ महीपतिः पूजयाम आस विप्रेन्द्रान करतुभिर भूरिदक्षिणैः ॥ 23 ॥

  24. भरातॄणां च परियं राजन स चकार परंतपः निश्चित्य मनसा वीरॊ दत्तभुक्त फलं धनम ॥ 24 ॥

Reach this point to mark the section finished.

Continue to अध्याय 244

Previous: अध्याय 242