धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 240

  1. [दानवाह] भॊः सुयॊधन राजेन्द्र भरतानां कुलॊद्वह शूरैः परिवृतॊ नित्यं तथैव च महात्मभिः ॥ 1 ॥

  2. अकार्षीः साहसम इदं कस्मात परायॊपवेशनम आत्मत्यागी हय अवाग याति वाच्यतां चायशस्करीम ॥ 2 ॥

  3. न हि कार्यविरुद्धेषु बह्व अपायेषु कर्मसु मूलघातिषु सज्जन्ते बुद्धिमन्तॊ भवद्विधाः ॥ 3 ॥

  4. नियच्छैतां मतिं राजन धर्मार्थसुखनाशिनीम यशः परताप धैर्यघ्नीं शत्रूणां हर्षवर्धनीम ॥ 4 ॥

  5. शरूयतां च परभॊ तत्त्वं दिव्यतां चात्मनॊ नृप निर्माणं च शरीरस्य ततॊ धैर्यम अवाप्नुहि ॥ 5 ॥

  6. पुरा तवं तपसास्माभिर लब्धॊ देवान महेश्वरात पूर्वकायश च सर्वस ते निर्मितॊ वज्रसंचयैः ॥ 6 ॥

  7. अस्तैर अभेद्यः शस्तैश चाप्य अधः कायश च ते ऽनघ कृतः पुष्पमयॊ देव्या रूपतः सत्रीमनॊहरः ॥ 7 ॥

  8. एवम ईश्वर संयुक्तस तव देहॊ नृपॊत्तम देव्या च राजशार्दूल दिव्यस तवं हि न मानुषः ॥ 8 ॥

  9. कषत्रियाश च महावीर्या भगदत्तपुरॊगमाः दिव्यास्त्रविदुषः शूराः कषपयिष्यन्ति ते रिपून ॥ 9 ॥

  10. तद अलं ते विषादेन भयं तव न विद्यते साह्यार्थं च हि ते वीराः संभूता भुवि दानवाः ॥ 10 ॥

  11. भीष्मद्रॊणकृपादींश च परवेक्ष्यन्त्य अपरे ऽसुराः यैर आविष्टा घृणां तयक्त्वा यॊत्स्यन्ते तव वैरिभिः ॥ 11 ॥

  12. नैव पुत्रान न च भरातॄन न पितॄन न च बान्धवान नैव शिष्यान न च जञातीन न बालान सथविरान न च ॥ 12 ॥

  13. युधि संप्रहरिष्यन्तॊ मॊक्ष्यन्ति कुरुसत्तम निःस्नेहा दानवाविष्टाः समाक्रान्तान्तर आत्मनि ॥ 13 ॥

  14. परहरिष्यन्ति बन्धुभ्यः सनेहम उत्सृज्य दूरतः हृष्टाः पुरुषशार्दूलाः कलुषीकृतमानसाः अविज्ञान विमूढाश च दैवाच च विधिनिर्मितात ॥ 14 ॥

  15. वयाभाषमाणाश चान्यॊन्यं न मे जीवन विमॊक्ष्यसे सर्वशस्त्रास्त्रमॊक्षेण पौरुषे समवस्थिताः शलाघमानाः कुरुश्रेष्ठ करिष्यन्ति जनक्षयम ॥ 15 ॥

  16. ते ऽपि शक्त्या महात्मानः परतियॊत्स्यन्ति पाण्डवाः वधं चैषां करिष्यन्ति दैवयुक्ता महाबलाः ॥ 16 ॥

  17. दैत्य रक्षॊगणाश चापि संभूताः कषत्रयॊनिषु यॊत्स्यन्ति युधि विक्रम्य शत्रुभिस तव पार्थिव गदाभिर मुसलैः खड्गैः शस्त्रैर उच्चावचैस तथा ॥ 17 ॥

  18. यच च ते ऽनतर्गतं वीर भयम अर्जुन संभवम तत्रापि विहितॊ ऽसमाभिर वधॊपायॊ ऽरजुनस्य वै ॥ 18 ॥

  19. हतस्य नरकस्यात्मा कर्ण मूर्तिम उपाश्रितः तद वैरं संस्मरन वीर यॊत्स्यते केशवार्जुनौ ॥ 19 ॥

  20. स ते विक्रमशौण्डीरॊ रणे पार्थं विजेष्यति कर्णः परहरतां शरेष्ठः सर्वांश चारीन महारथः ॥ 20 ॥

  21. जञात्वैतच छद्मना वज्री रक्षार्थं सव्यसाचिनः कुण्डले कवचं चैव कर्णस्यापहरिष्यति ॥ 21 ॥

  22. तस्माद अस्माभिर अप्य अत्र दैत्याः शतसहस्रशः नियुक्ता राक्षसश चैव ये ते संशप्तका इति परख्यातास ते ऽरजुनं वीरं निहनिष्यन्ति मा शुचः ॥ 22 ॥

  23. असपत्ना तवया हीयं भॊक्तव्या वसुधा नृप मा विषादं नयस्वास्मान नैतत तवय्य उपपद्यते विनष्टे तवयि चास्माकं पक्षॊ हीयेत कौरव ॥ 23 ॥

  24. गच्छ वीर न ते बुद्धिर अन्या कार्या कथंचनन तवम अस्माकं गतिर नित्यं देवतानां च पाण्डवाः ॥ 24 ॥

  25. [वै] एवम उक्त्वा परिष्वज्य दैत्यास तं राजजुञ्जरम समाश्वास्य च दुर्धर्षं पुत्रवद दानवर्षभाः ॥ 25 ॥

  26. सथिरां कृत्वा बुद्धिम अस्य परियाण्य उक्त्वा च भारत गम्यताम इत्य अनुज्ञाय जयम आप्नुहि चेत्य अथ ॥ 26 ॥

  27. तैर विसृष्टं महाबाहुं कृत्या सैवानयत पुनः तम एव देशं यत्रासौ तदा परायम उपाविशत ॥ 27 ॥

  28. परतिनिक्षिप्य तं वीरं कृत्या समभिपूज्य च अनुज्ञाता च राज्ञा सा तत्रैवान्तरधीयत ॥ 28 ॥

  29. गतायाम अथ तस्यां तु राजा दुर्यॊधनस तदा सवप्नभूतम इदं सर्वम अचिन्तयत भारत विजेष्यमै रणे पाण्डून इति तस्याभवन मतिः ॥ 29 ॥

  30. कर्णं संशप्तकांश चैव पार्थस्यामित्र घातिनः अमन्यत वधे युक्तान समर्थांश च सुयॊधनः ॥ 30 ॥

  31. एवम आशा दृढा तस्य धार्तराष्ट्रस्य दुर्मतेः विनिर्जये पाण्डवानाम अभवद भरतर्षभ ॥ 31 ॥

  32. कर्णॊ ऽपय आविष्ट चित्तात्मा नरकस्यान्तर आत्मना अर्जुनस्य वधे करूराम अकरॊत स मतिं तदा ॥ 32 ॥

  33. संशप्तकाश च ते वीरा राक्षसाविष्ट चेतसः रजस तमॊभ्याम आक्रान्ताः फल्गुनस्य वधैषिणः ॥ 33 ॥

  34. भीष्मद्रॊणकृपाद्याश च दानवाक्रान्त चेतसः न तथा पाण्डुपुत्राणां सनेहवन्तॊ विशां पते न चाचचक्षे कस्मै चिद एतद राजा सुयॊधनः ॥ 34 ॥

  35. दुर्यॊधनं निशान्ते च कर्णॊ वैकर्तनॊ ऽबरवीत समयन्न इवाञ्जलिं कृत्वा पार्थिवं हेतुमद वचः ॥ 35 ॥

  36. न मृतॊ जयते शत्रूञ जीवन भद्राणि पश्यति मृतस्य भद्राणि कुतः कौरवेय कुतॊ जयः न कालॊ ऽदय विषादस्य भयस्य मरणस्य वा ॥ 36 ॥

  37. परिष्वज्याब्रवीच चैनं भुजाभ्यां स महाभुजः उत्तिष्ठ राजन किं शेषे कस्माच छॊचसि शत्रुहन शत्रून परताप्य वीर्येण स कथं मर्तुम इच्छसि ॥ 37 ॥

  38. अथ वा ते भयं जातं दृष्ट्वार्जुन पराक्रमम सत्यं ते परतिजानामि वधिष्यामि रणे ऽरजुनम ॥ 38 ॥

  39. गते तरयॊदशे वर्षे सत्येनायुधम आलभे आनयिष्याम्य अहं पार्थान वशं तव जनाधिप ॥ 39 ॥

  40. एवम उक्तस तु कर्णेन दैत्यानां वचनात तथा परणिपातेन चान्येषाम उदतिष्ठत सुयॊधनः दैत्यानां तद वचॊ शरुत्वा हृदि कृत्वा सथिरां मतिम ॥ 40 ॥

  41. ततॊ मनुजशार्दूलॊ यॊजयाम आस वाहिनीम रथनागाश्वकलिलां पदातिजनसंकुलाम ॥ 41 ॥

  42. गङ्गौघप्रतिमा राजन परयाता सा महाचमूः शवेतछत्रैः पताकाभिश चामरैश च सुपाण्डुरैः ॥ 42 ॥

  43. रथैर नागैः पदातैश च शुशुभे ऽतीव संकुला वयपेताभ्र घने काले दयौर इवाव्यक्त शारदी ॥ 43 ॥

  44. जयाशीर्भिर दविजेन्द्रैस तु सतूयमानॊ ऽधिराजवत गृह्णन्न अञ्जलिमालाश च धार्तराष्ट्रॊ जनाधिपः ॥ 44 ॥

  45. सुयॊधनॊ ययाव अग्रे शरिया परमया जवलन कर्णेन सार्धं राजेन्द्र सौबलेन च देविना ॥ 45 ॥

  46. दुःशासनादयश चास्य भरातरः सर्व एव ते भूरिश्रवाः सॊमदत्तॊ महाराजश च बाह्लिकः ॥ 46 ॥

  47. रथैर नानाविधाकारैर हयैर गजवरैस तथा परयान्तं नृप सिंहं तम अनुजग्मुः कुरूद्वहाः कालेनाल्पेन राजंस ते विविशुः सवपुरं तदा ॥ 47 ॥

Reach this point to mark the section finished.

Continue to अध्याय 241

Previous: अध्याय 239