धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 238

  1. [दुर] चित्रसेनं समागम्य परहसन्न अर्जुनस तदा इदं वचनम अक्लीबम अब्रवीत परवीरहा ॥ 1 ॥

  2. भरातॄन अर्हसि नॊ वीर मॊक्तुं गन्धर्वसत्तम अनर्हा धर्षणं हीमे जीवमानेषु पाण्डुषु ॥ 2 ॥

  3. एवम उक्तस तु गन्धर्वः पाण्डवेन महात्मना उवाच यत कर्ण वयं मन्त्रयन्तॊ विनिर्गताः दरष्टारः सम सुखाद धीनान सदारान पाण्डवान इति ॥ 3 ॥

  4. तस्मिन्न उच्चार्यमाणे तु गन्धर्वेण वचस्य अथ भूमेर विवरम अन्वैच्छं परवेष्टुं वरीडयान्वितः ॥ 4 ॥

  5. युधिष्ठिरम अथागम्य गन्धर्वाः सह पाण्डवैः अस्मद दुर्मन्त्रितं तस्मै बद्धांश चास्मान नयवेदयन ॥ 5 ॥

  6. सत्रीसमक्षम अहं दीनॊ बद्धः शत्रुवशं गतः युधिष्ठिरस्यॊपहृतः किं नु दुःखम अतः परम ॥ 6 ॥

  7. ये मे निराकृता नित्यं रिपुर येषाम अहं सदा तैर मॊक्षितॊ ऽहं दुर्बुद्धिर दत्तं तैर जीवितं च मे ॥ 7 ॥

  8. पराप्तः सयां यद्य अहं वीरवधं तस्मिन महारणे शरेयस तद भविता मह्यम एवं भूतं न जीवितम ॥ 8 ॥

  9. भवेद यशॊ पृथिव्यां मे खयातं गन्धर्वतॊ वधात पराप्ताश च लॊकाः पुण्याः सयुर महेन्द्र सदने ऽकषयाः ॥ 9 ॥

  10. यत तव अद्य मे वयवसितं तच छृणुध्वं नरर्षभाः इह परायम उपासिष्ये यूयं वरजत वै गृहान भरातरश चैव मे सर्वे परयान्त्व अद्य पुरं परति ॥ 10 ॥

  11. कर्णप्रभृतयश चैव सुहृदॊ बान्धवाश च ये दुःशासनं पुरक्कृत्य परयान्त्व अद्य पुरं परति ॥ 11 ॥

  12. न हय अहं परतियास्यामि पुरं शत्रुनिराकृतः शत्रुमानापहॊ भूत्वा सुहृदां मानकृत तथा ॥ 12 ॥

  13. स सुहृच्छॊकदॊ भूत्वा शत्रूणां हर्षवर्धनः वारणाह्वयम आसाद्य किं वक्ष्यामि जनाधिपम ॥ 13 ॥

  14. भीष्मॊ दरॊणः कृपॊ दरौणिर विदुरः संजयस तथा बाह्लीकः सॊमदत्तश च ये चान्ये वृद्धसंमताः ॥ 14 ॥

  15. बराह्मणाः शरेणि मुख्याश च तथॊदासीन वृत्तयः किं मां वक्ष्यन्ति किं चापि परतिवक्ष्यामि तान अहम ॥ 15 ॥

  16. रिपूणां शिरसि सथित्वा तथा विक्रम्य चॊरसि आत्मदॊषात परिभ्रष्टः कथं वक्ष्यामि तान अहम ॥ 16 ॥

  17. दुर्विनीताः शरियं पराप्य विद्याम ऐश्वर्यम एव च तिष्ठन्ति नचिरं भद्रे यथाहं मदगर्वितः ॥ 17 ॥

  18. अहॊ बत यथेदं मे कष्टं दुश्चरितं कृतम सवयं दुर्बुद्धिना मॊहाद येन पराप्तॊ ऽसमि संशयम ॥ 18 ॥

  19. तस्मात परायम उपासिष्ये न हि शक्ष्यामि जीवितुम चेतयानॊ हि कॊ जीवेत कृच्छ्राच छत्रुभिर उद्धृतः ॥ 19 ॥

  20. शत्रुभिश चावहसितॊ मानी पौरुषवर्जितः पाण्डवैर विक्रमाढ्यैश च सावमानम अवेक्षितः ॥ 20 ॥

  21. [वै] एवं चिन्तापरिगतॊ दुःशासनम अथाब्रवीत दुःशासन निबॊधेदं वचनं मम भारत ॥ 21 ॥

  22. परतीच्छ तवं मया दत्तम अभिषेकं नृपॊ भव परशाधि पृथिवीं सफीतां कर्ण सौबल पालिताम ॥ 22 ॥

  23. भरातॄन पालय विस्रब्धं मरुतॊ वृत्रहा यथा बान्धवास तवॊपजीवन्तु देवा इव शतक्रतुम ॥ 23 ॥

  24. बराह्मणेषु सदा वृत्तिं कुर्वीथाश चाप्रमादतः बन्धूनां सुहृदां चैव भवेथास तवं गतिः सदा ॥ 24 ॥

  25. जञातींश चाप्य अनुपश्येथा विष्णुर देवगणान इव गुरवः पालनीयास ते गच्छ पालय मेदिनीम ॥ 25 ॥

  26. नन्दयन सुहृदः सर्वाञ शात्रवांश चावभर्त्सयन कण्ठे चैनं परिष्वज्य गम्यताम इत्य उवाच ह ॥ 26 ॥

  27. तस्य तद वचनं शरुत्वा दीनॊ दुःशासनॊ ऽबरवीत अश्रुकण्ठः सुदुःखार्तः पराञ्जलिः परणिपत्य च सगद्गदम इदं वाक्यं भरातरं जयेष्ठम आत्मनः ॥ 27 ॥

  28. परसीदेत्य अपतद भूमौ दूयमानेन चेतसा दुःखितः पादयॊस तस्य नेत्रजं जलम उत्सृजन ॥ 28 ॥

  29. उक्तवांश च नरव्याघ्रॊ नैतद एवं भविष्यति विरीयेत सनगा भूमिर दयौश चापि शकलीभवेत रविर आत्मप्रभां जह्यात सॊमः शीतांशुतां तयजेत ॥ 29 ॥

  30. वायुः शैघ्र्यम अथॊ जह्याद धिमवांश च परिव्रजेत शुष्येत तॊयं समुद्रेषु वह्निर अप्य उष्णतां तयजेत ॥ 30 ॥

  31. न चाहं तवदृते राजन परशासेयं वसुंधराम पुनः पुनः परसीदेति वाक्यं चेदम उवाच ह तवम एव नः कुले राजा भविष्यसि शतं समाः ॥ 31 ॥

  32. एवम उक्त्वा स राजेन्द्र सस्वनं पररुरॊद ह पादौ संगृह्य मानार्हौ भरातुर जयेष्ठस्य भारत ॥ 32 ॥

  33. तथा तौ दुःखितौ दृष्ट्वा दुःशासन सुयॊधनौ अभिगम्य वयथाविष्टः कर्णस तौ परत्यभाषत ॥ 33 ॥

  34. विषीदथः किं कौरव्यौ बालिश्यात पराकृताव इव न शॊकः शॊचमानस्य विनिवर्तेत कस्य चित ॥ 34 ॥

  35. यदा च शॊचतः शॊकॊ वयसनं नापकर्षति सामर्थ्यं किं तव अतः शॊके शॊचमानौ परपश्यथः धृतिं गृह्णीत मा शत्रूञ शॊचन्तौ नन्दयिष्यथः ॥ 35 ॥

  36. कर्तव्यं हि कृतं राजन पाण्डवैस तव मॊक्षणम नित्यम एव रियं कार्यं राज्ञॊ विषयवासिभिः पाल्यमानास तवया ते हि निवसन्ति गतज्वराः ॥ 36 ॥

  37. नार्हस्य एवंगते मन्युं कर्तुं पराकृतवद यथा विषण्णास तव सॊदर्यास तवयि परायं समास्थिते उत्तिष्ठ वरज भद्रं ते समाश्वसय सॊदरान ॥ 37 ॥

  38. राजन्न अद्यावगच्छामि तवेह लघुसत्त्वताम किम अत्र चित्रं यद वीर मॊक्षितः पाण्डवैर असि सद्यॊ वशं समापन्नः शत्रूणां शत्रुकर्शन ॥ 38 ॥

  39. सेना जीवैश च कौरव्य तथा विषयवासिभिः अज्ञातैर यदि वा जञातैः कर्तव्यं नृपतेः परियम ॥ 39 ॥

  40. परायॊ परधानाः पुरुषाः कषॊभयन्त्य अरिवाहिनीम निगृह्यन्ते च युद्धेषु मॊक्ष्यन्ते च सवसैनिकैः ॥ 40 ॥

  41. सेना जीवाश च ये राज्ञां विषये सन्ति मानवाः तैः संगम्य नृपार्थाय यतितव्यं यथातथम ॥ 41 ॥

  42. यद्य एवं पाण्डवै राजन भवद्विषयवासिभिः यदृच्छया मॊक्षितॊ ऽदय तत्र का परिदेवना ॥ 42 ॥

  43. न चैतत साधु यद राजन पाण्डवास तवां नृपॊत्तम सवसेनया संप्रयान्तं नानुयान्ति सम पृष्ठतः ॥ 43 ॥

  44. शूराश च बलवन्तश च संयुगेष्व अपलायिनः भवतस ते सभायां वै परेष्यतां पूर्वम आगताः ॥ 44 ॥

  45. पाण्डवेयानि रत्नानि तवम अद्याप्य उपभुञ्जसे सत्त्वस्थान पाण्डवान पश्य न ते परायम उपाविशन उत्तिष्ठ राजन भद्रं ते न चिन्तां कर्तुम अर्हसि ॥ 45 ॥

  46. अवश्यम एव नृपते राज्ञॊ विषयवासिभिः परियाण्य आचरितव्यानि तत्र का परिदेवना ॥ 46 ॥

  47. मद्वाक्यम एतद राजेन्द्र यद्य एवं न करिष्यसि सथास्यामीह भवत पादौ शुश्रूषन्न अरिमर्दन ॥ 47 ॥

  48. नॊत्सहे जीवितुम अहं तवद्विहीनॊ नरर्षभ परायॊपविष्टस तु नृपराज्ञां हास्यॊ भविष्यसि ॥ 48 ॥

  49. [वै] एवम उक्तस तु कर्णेन राजा दुर्यॊधनस तदा नैवॊत्थातुं मनॊ चक्रे सवर्गाय कृतनिश्चयः ॥ 49 ॥

Reach this point to mark the section finished.

Continue to अध्याय 239

Previous: अध्याय 237