धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 237

  1. [दुर] अजानतस ते राधेय नाभ्यसूयाम्य अहं वचः जानासि तवं जिताञ शत्रून गन्धर्वांस तेजसा मया ॥ 1 ॥

  2. आयॊधितास तु गन्धर्वाः सुचिरं सॊदरैर ममम मया सह महाबाहॊ कृतश चॊभयतः कषयः ॥ 2 ॥

  3. मायाधिकास तव अयुध्यन्त यदा शूरा वियद गताः तदा नॊ नसमं युद्धम अभवत सह खेचरैः ॥ 3 ॥

  4. पराजयं च पराप्ताः सम रणे बन्धनम एव च सभृत्यामात्य पुत्राश च सदार धनवाहनाः उच्चैर आकाशमार्गेण हरियामस तैः सुदुःखिताः ॥ 4 ॥

  5. अथ नः सैनिकाः के चिद अमात्याश च महारथान उपगम्याब्रुवन दीनाः पाण्डवाञ शरणप्रदान ॥ 5 ॥

  6. एष दुर्यॊधनॊ राजा धार्तराष्ट्रः सहानुजः सामात्यदारॊ हरियते गन्धर्वैर दिवम आस्थितैः ॥ 6 ॥

  7. तं मॊक्षयत भद्रं वः सह दारं नराधिपम परामर्शॊ मा भविष्यत कुरु दारेषु सर्वशः ॥ 7 ॥

  8. एवम उक्ते तु धर्मात्मा जयेष्ठः पाण्डुसुतस तदा परसाद्य सॊदरान सर्वान आज्ञापयत मॊक्षणे ॥ 8 ॥

  9. अथागम्य तम उद्देशं पाण्डवाः पुरुषर्षभाः सान्त्वपूर्वम अयाचन्त शक्ताः सन्तॊ महारथाः ॥ 9 ॥

  10. यदा चास्मान न मुमुचुर गन्धर्वाः सान्त्विता अपि ततॊ ऽरजुनश च भीमश च यमजौ च बलॊत्कटौ मुमुचुः शरवर्षाणि गन्धर्वान परत्यनेकशः ॥ 10 ॥

  11. अथ सर्वे रणं मुक्त्वा परयाताः खचरा दिवम अस्मान एवाभिकर्षन्तॊ दीनान मुदितमानसाः ॥ 11 ॥

  12. ततः समन्तात पश्यामि शरजालेन वेष्टितम अमानुषाणि चास्त्राणि परयुञ्जानं धनंजयम ॥ 12 ॥

  13. समावृता दिशॊ देष्ट्वा पाण्डवेन शितैः शरैः धनंजय सखात्मानं दर्शयाम आस वै तदा ॥ 13 ॥

  14. चित्रसेनः पाण्डवेन समाश्लिष्य परंतपः कुशलं परिपप्रच्छ तैः पृष्टश चाप्य अनामयम ॥ 14 ॥

  15. ते समेत्य तथान्यॊन्यं संनाहान विप्रमुच्य च एकीभूतास ततॊ वीरा गन्धर्वाः सह पाण्डवैः अपूजयेताम अन्यॊन्यं चित्रसेन धनंजयौ ॥ 15 ॥

Reach this point to mark the section finished.

Continue to अध्याय 238

Previous: अध्याय 236