[जनम] शत्रुभिर जितबद्धस्य पाण्डवैश च महात्मभिः मॊक्षितस्य युधा पश्चान मानस्थस्य दुरात्मनः ॥ 1 ॥
कत्थनस्यावलिप्तस्य गर्वितस्य च नित्यशः सदा च पौरुषाद आर्यैः पाण्डवान अवमन्यतः ॥ 2 ॥
दुर्यॊधनस्य पापस्य नित्याहंकार वादिनः परवेशॊ हास्तिनपुरे दुष्करः परतिभाति मे ॥ 3 ॥
तस्य लज्जान्वितस्यैव शॊकव्याकुल चेतसः परवेशं विस्तरेण तवं वैशम्पायन कीर्तय ॥ 4 ॥
[वै] धर्मराज निसृष्टस तु धार्तराष्ट्रः सुयॊधनः लज्जयाधॊमुखः सीदन्न उपासर्पत सुदुःखितः ॥ 5 ॥
सवपुरं परययौ राजा चतुरङ्ग बलानुगः शॊकॊपहतया बुद्ध्या चिन्तयानः पराभवम ॥ 6 ॥
विचुम्य पथि यानानि देशे सुयवसॊदके संनिविष्टः शुभे रम्ये भूमिभागे यथेप्सितम हस्त्यश्वरथपातातं यथास्थानं नयवेशयत ॥ 7 ॥
अथॊपविष्टं राजानं पर्यङ्के जवलनप्रभे उपप्लुतं यथा सॊमं राहुणा रात्रिसंक्षये उपगम्याब्रवीत कर्णॊ दुर्यॊधनम इदं तदा ॥ 8 ॥
दिष्ट्या जीवसि गान्धारे दिष्ट्या नः संगमः पुनः दिष्ट्या तवया जिताश चैव गन्धर्वाः कामरूपिणः ॥ 9 ॥
दिष्ट्या समग्रान पश्यामि भरातॄंस ते कुरुनन्दन विजिगीषून रणान मुक्तान निर्जितारीन महारथान ॥ 10 ॥
अहं तव अभिद्रुतः सर्वैर गन्धर्वैः पश्यतस तव नाशक्नुवं सथापयितुं दीर्यमाणां सववाहिनीम ॥ 11 ॥
शरक्षताङ्गश च भृशं वयपयातॊ ऽभिपीडितः इदं तव अत्यद्भुतं मन्ये यद युष्मान इह भारत ॥ 12 ॥
अरिष्टान अक्षतांश चापि सदार धनवाहनान विमुक्तान संप्रपश्यामि तस्माद युद्धाद अमानुषात ॥ 13 ॥
नैतस्य कर्ता लॊके ऽसमिन पुमान विद्येत भारत यत्कृतं ते महाराज सह भरातृभिर आहवे ॥ 14 ॥
एवम उक्तस तु कर्णेन राजा दुर्यॊधनस तदा उवाचावाक शिरा राजन बाष्पगद्गदया गिरा ॥ 15 ॥
वनपर्व · Vana Parva
अध्याय 236
Reach this point to mark the section finished.
Continue to अध्याय 237