धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 235

  1. [वै] ततॊ ऽरजुनश चित्रसेनं परहसन्न इदम अब्रवीत मध्ये गन्धर्वसैन्यानां महेष्वासॊ महाद्युतिः ॥ 1 ॥

  2. किं ते वयवसितं वीर कौरवाणां विनिग्रहे किमर्थं च सदारॊ ऽयं निगृहीतः सुयॊधनः ॥ 2 ॥

  3. [चित्र] विदितॊ ऽयम अभिप्रायस ततस्थेन महात्मना दुर्यॊधनस्य पापस्य कर्णस्य च धनंजय ॥ 3 ॥

  4. वनस्थान भवतॊ जञात्वा कलिश्यमानान अनर्हवत इमे ऽवहसितुं पराप्ता दरौपदीं च यशस्विनीम ॥ 4 ॥

  5. जञात्वा चिकीर्षितं चैषां माम उवाच सुरेश्वरः गच्छ दुर्यॊधनं बद्ध्वा सामात्यं तवम इहानय ॥ 5 ॥

  6. धनंजयश च ते रक्ष्यः सह भरातृभिर आहवे स हि परियः सखा तुभ्यं शिष्यश च तव पाण्टवः ॥ 6 ॥

  7. वचनाद देवराजस्य ततॊ ऽसमीहागतॊ दरुतम अयं दुरात्मा बद्धश च गमिष्यामि सुरालयम ॥ 7 ॥

  8. [अर्ज] उत्सृज्यतां चित्रसेन भरातास्माकं सुयॊधनः धर्मराजस्य संदेशान मम चेद इच्छसि परियम ॥ 8 ॥

  9. [चित्र] पापॊ ऽयं नित्यसंदुष्टॊ न विमॊक्षणम अर्हति परलब्धा धर्मराजस्य कृष्णायाश च धनंजय ॥ 9 ॥

  10. नेदं चिकीर्षितं तस्य कुन्तीपुत्रॊ महाव्रतः जानाति धर्मराजॊ हि शरुत्वा कुरु यथेच्छसि ॥ 10 ॥

  11. [वै] ते सर्व एव राजानम अभिजग्मुर युधिष्ठिरम अभिगम्य च तत सर्वं शशंसुस तस्य दुष्कृतम ॥ 11 ॥

  12. अजातशत्रुस तच छरुत्वा गन्धर्वस्य वचस तदा मॊक्षयाम आस तान सर्वान गन्धर्वान परशशंस च ॥ 12 ॥

  13. दिष्ट्या भवद्भिर बलिभिः शक्तैः सर्वैर न हिंसितः दुर्वृत्तॊ दार्तराष्ट्रॊ ऽयं सामात्यज्ञाति बान्धवः ॥ 13 ॥

  14. उपकारॊ महांस तात कृतॊ ऽयं मम खेचराः कुलं न परिभूतं मे मॊक्षेणास्य दुरात्मनः ॥ 14 ॥

  15. आज्ञापयध्वम इष्टानि परीयामॊ दर्शनेन वः पराप्य सर्वान अभिप्रायांस ततॊ वरजत माचिरम ॥ 15 ॥

  16. अनुज्ञातास तु गन्धर्वाः पाण्डुपुत्रेण धीमता सहाप्सरॊभिः संहृष्टाश चित्रसेन मुखा ययुः ॥ 16 ॥

  17. देवराड अपि गन्धर्वान मृतांस तान समजीवयत दिव्येनामृत वर्षेण ये हताः कौरवैर युधि ॥ 17 ॥

  18. जञातींस तान अवमुच्याथ राजदारांश च सर्वशः कृत्वा च दुष्करं कर्म परीतियुक्ताश च पाण्डवाः ॥ 18 ॥

  19. सस्त्री कुमारैः कुरुभिः पूज्यमाना महारथाः बभ्राजिरे महात्मानः कुरुमध्ये यथाग्नयः ॥ 19 ॥

  20. ततॊ दुर्यॊधनं मुच्य भरातृभिः सहितं तदा युधिष्ठिरः सप्रणयम इदं वचनम अब्रवीत ॥ 20 ॥

  21. मा सम तात पुनः कार्षीर ईदृशं साहसं कव चित न हि साहस कर्तारः सुखम एधन्ति भारत ॥ 21 ॥

  22. सवस्तिमान सहितः सर्वैर भरातृभिः कुरुनन्दन गृहान वरज यथाकामं वैमनस्यं च मा कृथाः ॥ 22 ॥

  23. पाण्डवेनाभ्यनुज्ञातॊ राजा दुर्यॊधनस तदा विदीर्यमाणॊ वरीडेन जगाम गनरं परति ॥ 23 ॥

  24. तस्मिन गते कौरवेये कुन्तीपुत्रॊ युधिष्ठिरः भरातृभिः सहितॊ वीरः पूज्यमानॊ दविजातिभिः ॥ 24 ॥

  25. तपॊधनैश च तैः सर्वैर वृतः शक्र इवामरैः वने दवैतवने तस्मिन विजहार मुदा युतः ॥ 25 ॥

Reach this point to mark the section finished.

Continue to अध्याय 236

Previous: अध्याय 234