[वै] ततॊ दिव्यास्त्रसंपन्ना गन्धर्वा हेममालिनः विसृजन्तः शरान दीप्तान समन्तात पर्यवारयन ॥ 1 ॥
चत्वारः पाण्डवा वीरा गन्धर्वाश च सहस्रशः रणे संन्यपतन राजंस तद अद्भुतम इवाभवत ॥ 2 ॥
यथा कर्णस्य च रथॊ धार्तराष्ट्रस्य चॊभयॊः गन्धर्वैः शतशॊ छिन्नौ तथा तेषां परचक्रिरे ॥ 3 ॥
तान समापततॊ राजन गन्धर्वाञ शतशॊ रणे परत्यगृह्णन नरव्याघ्राः शरवर्षैर अनेकशः ॥ 4 ॥
अवकीर्यमाणाः खगमाः शरवर्षैः समन्ततः न शेकुः पाण्डुपुत्राणां समीपे परिवर्तितुम ॥ 5 ॥
अभिक्रुद्धान अभिप्रेक्ष्य गन्धर्वान अर्जुनस तदा लक्षयित्वाथ दिव्यानि महास्त्राण्य उपचक्रमे ॥ 6 ॥
सहस्राणां सहस्रं स पराहिणॊद यमसादनम आग्नेयेनार्जुनः संख्ये गन्धर्वाणां बलॊत्कटः ॥ 7 ॥
तथा भीमॊ महेष्वासः संयुगे बलिनां वरः गन्धर्वाञ शतशॊ राजञ जघान निशितैः शरैः ॥ 8 ॥
माद्रीपुत्राव अपि तथा युध्यमानौ बलॊत्कटौ परिगृह्याग्रतॊ राजञ जघ्नतुः शतशः परान ॥ 9 ॥
ते वध्यमाना गन्धर्वा दिव्यैर अस्त्रैर महात्मभिः उत्पेतुः खम उपादाय धृतराष्ट्र सुतांस ततः ॥ 10 ॥
तान उत्पतिष्णून बुद्ध्वा तु कुन्तीपुत्रॊ धनंजयः महता शरजालेन समन्तात पर्यवारयत ॥ 11 ॥
ते बद्धाः शरजालेन शकुन्ता इव पञ्जरे ववर्षुर अर्जुनं करॊधाद गदा शक्त्यृष्टि वृष्टिभिः ॥ 12 ॥
गदा शक्त्यसि वृष्टीस ता निहत्य स महास्त्रवित गात्राणि चाहनद भल्लैर गन्धर्वाणां धनंजयः ॥ 13 ॥
शिरॊभिः परपतद भिश च चरणैर बाहुभिस तथा अश्मवृष्टिर इवाभाति परेषाम अभवद भयम ॥ 14 ॥
ते वध्यमाना गन्धर्वाः पाण्डवेन महात्मना भूमिष्ठम अन्तरिक्षस्थाः शरवर्षैर अवाकिरन ॥ 15 ॥
तेषां तु शरवर्षाणि सव्यसाची परंतपः अस्त्रैः संवार्य तेजस्वी गन्धर्वान परत्यविध्यत ॥ 16 ॥
सथूणाकर्णेन्द्रजालं च सौरं चापि तथार्जुनः आग्नेयं चापि सौम्यं च ससर्ज कुरुनन्दनः ॥ 17 ॥
ते दह्यमाना गन्हर्वाः कुन्तीपुत्रस्य सायकैः दैतेया इव शक्रेण विषादम अगमन परम ॥ 18 ॥
ऊर्ध्वम आक्रममाणाश च शरजालेन वारिताः विसर्पमाणा भल्लैश च वार्यन्ते सव्यसाचिना ॥ 19 ॥
गन्धर्वांस तरासितान दृष्ट्वा कुन्तीपुत्रेण धीमता चित्रसेनॊ गदां गृह्य सव्यसाचिनम आद्रवत ॥ 20 ॥
तस्याभिपततस तूर्णं गदाहस्तस्य संयुगे गदां सर्वायसीं पार्थः शरैश चिच्छेद सप्तधा ॥ 21 ॥
सगदां बहुधा दृष्ट्वा कृत्तां बाणैस तरस्विना संवृत्य विद्ययात्मानं यॊधयाम आस पाण्डवम अस्त्राणि तस्य दिव्यानि यॊधयाम आस खे सथितः ॥ 22 ॥
गन्हर्व राजॊ बलवान माययान्तर्हितस तदा अन्तर्हितं समालक्ष्य परहरन्तम अथार्जुनः ताडयाम आस खचरैर दिव्यास्त्रप्रतिमन्त्रितैः ॥ 23 ॥
अन्तर्धानवधं चास्य चक्रे करुद्धॊ ऽरजुनस तदा शब्दवेद्यम उपाश्रित्य बहुरूपॊ धनंजयः ॥ 24 ॥
स वद्यमानस तैर अस्त्रैर अर्जुनेन महात्मना अथास्य दर्शयाम आस तदात्मानं परियं सखा ॥ 25 ॥
चित्रसेनम अथालक्ष्य सखायं युधि दुर्बलम संजहारास्त्रम अथ तत परसृष्टं पाण्डवर्षभः ॥ 26 ॥
दृष्ट्वा तु पाण्डवाः सर्वे संहृतास्त्रं धनंजयम संजह्रुः परदुतान अश्वाञ शरवेगान धनूंषि च ॥ 27 ॥
चित्रसेनश च भीमश च सव्यसाची यमाव अपि पृष्ट्वा कौशलम अन्यॊन्यं रथेष्व एवावतस्थिरे ॥ 28 ॥
वनपर्व · Vana Parva
अध्याय 234
Reach this point to mark the section finished.
Continue to अध्याय 235