धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 233

  1. [वै] युधिष्ठिरवचः शरुत्वा भीमसेनपुरॊगमाः परहृष्टवदनाः सर्वे समुत्तस्थुर नरर्षभाः ॥ 1 ॥

  2. अभेद्यानि ततः सर्वे समनह्यन्त भारत जाम्बूनदविचित्राणि कवचानि महारथाः ॥ 2 ॥

  3. ते दंशिता रथैः सर्वे धवजिनः सशरासनाः पाण्डवाः परत्यदृश्यन्त जवलिता इव पावकाः ॥ 3 ॥

  4. तान रथान साधु संपन्नान संयुक्ताञ जवनैर हयैः आस्थाय रथशार्दूलाः शीघ्रम एव ययुस ततः ॥ 4 ॥

  5. ततः कौरव सैन्यानां परादुरासीन महास्वनः परयातान सहितान दृष्ट्वा पाण्डुपुत्रान महारथान ॥ 5 ॥

  6. जितकाशिनश च खचरास तवरिताश च महारथाः कषणेनैव वने तस्मिन समाजग्मुर अभीतवत ॥ 6 ॥

  7. नयवर्तन्त ततः सर्वे गन्धर्वा जितकाशिनः दृष्ट्वा रथगतान वीरान पाण्डवांश चतुरॊ रणे ॥ 7 ॥

  8. तांस तु विभ्राजतॊ दृष्ट्वा लॊकपालान इवॊद्यतान वयूढानीका वयतिष्ठन्त गन्धमादनवासिनः ॥ 8 ॥

  9. राज्ञस तु वचनं शरुत्वा धर्मराजस्य धीमतः करमेण मृदुना युद्धम उपक्रामन्त भारत ॥ 9 ॥

  10. न तु गन्धर्वराजस्य सैनिका मन्दचेतसः शक्यन्ते मृदुना शरेयॊ परतिपादयितुं तदा ॥ 10 ॥

  11. ततस तान युधि दुर्धर्षः सव्यसाची परंतपः सान्त्वपूर्वम इदं वाक्यम उवाच खचरान रणे ॥ 11 ॥

  12. नैतद गन्धर्वराजस्य युक्तं कर्म जुगुप्सितम परदाराभिमर्शश च मानुषैश च समागमः ॥ 12 ॥

  13. उत्सृजध्वं महावीर्यान धृतराष्ट्र सुतान इमान दारांश चैषां विमुञ्चध्वं धर्मराजस्य शासनात ॥ 13 ॥

  14. एवम उक्तास तु गन्धर्वाः पाण्डवेन यशस्विना उत्स्मयन्तस तदा पार्थम इदं वचनम अब्रुवन ॥ 14 ॥

  15. एकस्यैव वयं तात कुर्याम वचनं भुवि यस्य शासनम आज्ञाय चराम विगतज्वराः ॥ 15 ॥

  16. तेनैकेन यथादिष्टं तथा वर्ताम भारत न शास्ता विद्यते ऽसमाकम अन्यस तस्मात सुरेश्वरात ॥ 16 ॥

  17. एवम उक्तस तु गन्धर्वैः कुन्तीपुत्रॊ धनंजयः गन्धर्वान पुनर एवेदं वचनं परत्यभाषत ॥ 17 ॥

  18. यदि साम्ना न मॊक्षध्वं गन्धर्वा धृतराष्ट्रजम मॊक्षयिष्यामि विक्रम्य सवयम एव सुयॊधनम ॥ 18 ॥

  19. एवम उक्त्वा ततः पार्थः सव्यसाची धनंजयः ससर्व निशितान बाणान खचरान खचरान परति ॥ 19 ॥

  20. तथैव शरवर्षेण गन्धर्वास ते बलॊत्कटाः पाण्डवान अभ्यवर्तन्त पाण्डवाश च दिवौकसः ॥ 20 ॥

  21. ततः सुतुमुलं युद्धं गन्धर्वाणां तरस्विनाम बभूव भीमवेगानां पाण्डवानां च भारत ॥ 21 ॥

Reach this point to mark the section finished.

Continue to अध्याय 234

Previous: अध्याय 232