[य] अस्मान अभिगतांस तात भयार्ताञ शरणैषिणः कौरवान विषमप्राप्तान कथं बरूयास तम ईदृशम ॥ 1 ॥
भवन्ति भेदा जञातीनां कलहाश च वृकॊदर परसक्तानि च वैराणि जञातिधर्मॊ न नश्यति ॥ 2 ॥
यदा तु कश चिज जञातीनां बाह्यः परार्थयते कुलम न मर्षयन्ति तत सन्तॊ बाह्येनाभिप्रमर्षणम ॥ 3 ॥
जानाति हय एष दुर्बुद्धिर अस्मान इह चिरॊषितान स एष परिभूयास्मान अकार्षीद इदम अप्रियम ॥ 4 ॥
दुर्यॊधनस्य गरहणाद गन्धर्वेण बलाद रणे सत्रीणां बाह्याभिमर्शाच च हतं भवति नः कुलम ॥ 5 ॥
शरणं च परपन्नानां तराणार्थं च कुलस्य नः उत्तिष्ठध्वं नरव्याघ्राः सज्जीभवत माचिरम ॥ 6 ॥
अर्जुनश च यमौ चैव तवं च भीमापराजितः मॊक्षयध्वं धार्तराष्ट्रं हरियमाणं सुयॊधनम ॥ 7 ॥
एते रथा नरव्याघ्राः सर्वशस्त्रसमन्विताः इन्द्रसेनादिभिः सूतैः संयताः कनकध्वजाः ॥ 8 ॥
एतान आस्थाय वै तात गन्धर्वान यॊद्धुम आहवे सुयॊधनस्य मॊक्षाय परयतध्वम अतन्द्रिताः ॥ 9 ॥
य एव कश चिद राजन्यः शरणार्थम इहागतम परं शक्त्याभिरक्षेत किं पुनस तवं वृकॊदर ॥ 10 ॥
क इहान्यॊ भवेत तराणम अभिधावेति चॊदितः पराञ्जलिं शरणापन्नं दृष्ट्वा शत्रुम अपि धरुवम ॥ 11 ॥
वरप्रदानं राज्यं च पुत्र जन्म च पाण्डव शत्रॊश च मॊक्षणं कलेशात तरीणि चैकं च तत समम ॥ 12 ॥
किं हय अभ्यधिकम एतस्माद यद आपन्नः सुयॊधनः तवद बाहुबलम आश्रित्य जीवितं परिमार्गति ॥ 13 ॥
सवयम एव परधावेयं यदि न सयाद वृकॊदर विततॊ ऽयं करतुर वीर न हि मे ऽतर विचारणा ॥ 14 ॥
साम्नैव तु यथा भीम मॊक्षयेथाः सुयॊधनम तथा सर्वैर उपायैस तवं यतेथाः कुरुनन्दन ॥ 15 ॥
न साम्ना परतिपद्येत यदि गन्धर्वराड असौ पराक्रमेण मृदुना मॊक्षयेथाः सुयॊधनम ॥ 16 ॥
अथासौ मृदु युद्धेन न मुञ्चेद भीमकौरवान सर्वॊपायैर विमॊच्यास ते निगृह्य परिपन्थिनः ॥ 17 ॥
एतावद धि मया शक्यं संदेष्टुं वै वृकॊदर वैताने कर्मणि तते वर्तमाने च भारत ॥ 18 ॥
[वै] अजातशत्रॊर वचनं तच छरुत्वा तु धनंजयः परतिजज्ञे गुरॊर वाक्यं कौरवाणां विमॊक्षणम ॥ 19 ॥
[अर्ज] यदि साम्ना न मॊक्ष्यन्ति गन्धवा धृतराष्ट्रजान अद्य गन्धर्वराजस्य भूमिः पास्यति शॊणितम ॥ 20 ॥
[वै] अर्जुनस्य तु तां शरुत्वा परतिज्ञां सत्यवादिनः कौरवाणां तदा राजन पुनः परत्यागतं मनः ॥ 21 ॥
वनपर्व · Vana Parva
अध्याय 232
Reach this point to mark the section finished.
Continue to अध्याय 233