[वै] गन्धर्वैस तु महाराज भग्ने कर्णे महारथे संप्राद्रवच चमूः सर्वा धार्तराष्ट्रस्य पश्यतः ॥ 1 ॥
तान दृष्ट्वा दरवतः सर्वान धार्तराष्ट्रान पराङ्मुखान दुर्यॊधनॊ महाराज नासीत तत्र पराङ्मुखः ॥ 2 ॥
ताम आपतन्तीं संप्रेक्ष्य गन्धर्वाणां महाचमूम महता शरवर्षेण सॊ ऽभयवर्षद अरिंदमः ॥ 3 ॥
अचिन्त्यशरवर्षं तु गन्धर्वास तस्य तं रथम दुर्यॊधनं जिघांसन्तः समन्तात पर्यवारयन ॥ 4 ॥
युगमीषां वरूथं च तथैव धवजसारथी अश्वांस तरिवेणुं तल्पं च तिलशॊ ऽभयहनद रथम ॥ 5 ॥
दुर्यॊधनं चित्रसेनॊ विरथं पतितं भुवि अभिद्रुत्य महाबाहुर जीवग्राहम अथाग्रहीत ॥ 6 ॥
तस्मिन गृहीते राजेन्द्र सथितं दुःशासनं रथे पर्यगृह्णन्त गन्धर्वाः परिवार्य समन्ततः ॥ 7 ॥
विविंशतिं चित्रसेनम आदायान्ये परदुद्रुवुः विन्दानुविन्दाव अपरे राजदारांश च सर्वशः ॥ 8 ॥
सैन्यास तु धार्तराष्ट्रस्य गन्धर्वैः समभिद्रुताः पूर्वं परभग्नैः सहिताः पाण्डवान अभ्ययुस तदा ॥ 9 ॥
शकटापण वेश्याश च यानयुग्यं च सर्वशः शरणं पाण्डवाञ जग्मुर हरियमाणे महीपतौ ॥ 10 ॥
परियदर्शनॊ महाबाहुर धार्तराष्ट्रॊ महाबलः गन्धर्वैर हरियते राजा पार्थास तम अनुधावत ॥ 11 ॥
दुःशासनॊ दुर्विषहॊ दुर्मुखॊ दुर्जयस तथा बद्ध्वा हरियन्ते गन्धर्वै राजदाराश च सर्वशः ॥ 12 ॥
इति दुर्यॊधनामात्याः करॊशन्तॊ राजगृद्धिनः आर्ता दीनस्वराः सर्वे युधिष्ठिरम उपागमन ॥ 13 ॥
तांस तथा वयथितान दीनान भिक्षमाणान युधिष्ठिरम वृद्धान दुर्यॊधनामात्यान भिमसेनॊ ऽभयभाषत ॥ 14 ॥
अन्यथा वर्तमानानाम अर्थॊ जातायम अन्यथा अस्माभिर यद अनुष्ठेयं गन्धर्वैस तद अनुष्ठितम ॥ 15 ॥
दुर्मन्त्रितम इदं तात राज्ञॊ दुर्द्यूत देविनः दवेष्टारम अन्ये कलीबस्य पातयन्तीति नः शरुतम ॥ 16 ॥
तद इदं कृतं नः परत्यक्षं गन्धर्वै रतिमानुषम दिष्ट्या लॊके पुमान अस्ति कश चिद अस्मत्प्रिये सथितः येनास्माकं हृतॊ भार आसीनानां सुखावहः ॥ 17 ॥
शीतवातातप सहांस तपसा चैव कर्शितान समस्थॊ विषमस्थान हि दरष्टुम इच्छति दुर्मतिः ॥ 18 ॥
अधर्मचारिणस तस्य कौरव्यस्य दुरात्मनः ये शीलम अनुवर्तन्ते ते पश्यन्ति पराभवम ॥ 19 ॥
अधर्मॊ हि कृतस तेन येनैतद उपशिक्षितम अनृशंसास तु कौन्तेयास तस्याध्यक्षान बरवीमि वः ॥ 20 ॥
एवं बरुवाणं कौन्तेयं भीमसेनम अमर्षणम न कालः परुषस्यायम इति राजाभ्यभाषत ॥ 21 ॥
वनपर्व · Vana Parva
अध्याय 231
Reach this point to mark the section finished.
Continue to अध्याय 232